Learning together Sanskrit and GeetA (Chapter 2 : Verse 17)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 17)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: ) चतुस्त्रिंशत्तमः (३४) सोपानः ।


अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ।।२-१७।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


अविनाशि तु तत् विद्धि येन सर्वम् इदं ततम् ।
विनाशम् अव्ययस्य अस्य न कश्चित् कर्तुम् अर्हति ।।२-१७।।

अत्र सन्धयः

  1. तद्विद्धि = तत् विद्धि (व्यञ्जनसन्धिः)
  2. सर्वमिदम् = सर्वम् इदम् (व्यञ्जनसन्धिः)
  3. विनाशमव्ययस्यास्य = विनाशम् अव्ययस्य अस्य (व्यञ्जनसन्धिः) (स्वरसन्धिः)
  4. कश्चित्कर्तुमर्हति = कश्चित् (कः + चित्) कर्तुम् अर्हति
    • कश्चित् = कः + चित् (विसर्गसन्धिः)
    • कश्चित्कर्तुम् = कश्चित् कर्तुम् (व्यञ्जनसन्धिः)
    • कर्तुमर्हति = कर्तुम् अर्हति (व्यञ्जनसन्धिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः
येन इदं सर्वम् ततम् तत् तु अविनाशि (भवति) (एतत्) (त्वम्) विद्धि ।
अस्य अव्ययस्य विनाशम् कर्तुम् कश्चित् न अर्हति ।वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा अव्ययम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् इतरे शब्दाः
येन इदं सर्वम् ततम्
तु तत् अविनाशि (भवति)
(त्वम्) (एतत्) विद्धि
विनाशम् कर्तुम् अस्य अव्ययस्य
कश्चित् न अर्हति

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.
येन इदं सर्वम् ततम् तत् तु अविनाशि (भवति) (एतत्) (त्वम्) विद्धि
अस्य अव्ययस्य विनाशम् कर्तुम् कश्चित्अर्हति

१  ततम् “तन्” ८ उ (= to extend, to spread) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “तत” (= extended, spread) । अत्र नपुंसकलिङ्गि  । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२ अविनाशि “अविनाशिन्” इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च । अथवा

  • २-१ न विनाशि इति अविनाशि । नञ्-तत्पुरुषः ।
  • २-२ विनाशि “वि + नश्” ४ प (= to get destroyed) इति धातुः । तस्य प्रयोजकात् (= to destroy) वर्तमानकालवाचकं विशेषणम् “विनाशिन्” (= what can get destroyed) । अत्र नपुंसकलिङ्गि  । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २-३ अविनाशि = what cannot be destroyed, indestructible

३ विद्धि “विद्” २ प (= to learn, to know) इति धातुः । तस्य आज्ञार्थे  मध्यमपुरुषे एकवचनम् ।
४ अव्ययस्य “अव्यय” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि अथवा नपुंसकलिङ्गि । तस्य षष्ठी विभक्तिः एकवचनं च ।

  • ४-१ यस्य व्ययः न भवति तत् । नञ्-बहुव्रीहिः ।
  • ४-२ व्ययः “वि + अय्” १ आ (= to go, to get spent, to deplete) इति धातुः । तस्मात् पुल्लिङ्गि नाम “व्यय” (= depletion) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ४-३ अव्यय = what does not deplete, constant, eternally valid

५ विनाशम् “वि + नश्” ४ प (= to get destroyed) इति धातुः । तस्मात् पुल्लिङ्गि नाम “विनाश” (= destruction) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
६ कर्तुम् “कृ” ८ उ (= to do) इति धातुः । तस्मात् तुमन्तं अव्ययम् “कर्तुम्” = to do
७ कश्चित् (= कः + चित्)

  • ७-१ कः “किम्” (= what) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ७-२ चित् (= —so ever) इति प्रत्ययः । प्रायः “किम्”-सर्वनामस्य विभक्ति-रूपस्य अन्ते प्रयुज्यते ।
  • ७-३ कश्चित् =who so ever

८ अर्हति “अर्-ह्” १ प (= to deserve, to be capable of) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

येन इदं सर्वम् ततम् = what has caused all this spread
तत् तु अविनाशि (भवति) = that however is indestructible.
(एतत्) (त्वम्) विद्धि । = know this.
अस्य अव्ययस्य विनाशम् कर्तुम् = to destroy this, what is constant (or eternally valid)
कश्चित् न अर्हति । = nobody deserves to do that (nobody is be capable of doing that).

In English –
Know this that, what has caused all this spread, is indestructible. Nobody can destroy that what is constant, permanent and eternally valid.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

अविनाशि तु तद्विद्धि । वर्णाः ८

येन सर्वमिदं ततम् । वर्णाः ८
विनाशमव्ययस्यास्य । वर्णाः ८
न कश्चित्कर्तुमर्हति । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

५-१ This verse gives an insight into तत्, possibly that तत्, which is also in the महावाक्यम् “ॐ तत् सत्”

५-२ I am again taking only one verse this time also. All the verses up to verse # 30, that is, as many 15 verses from 16 to 30 dwell on this तत् ! I have thought it good to start with only one verse.

५-३ In this verse three characteristics of तत्  are detailed

  • अविनाशि = the indestructible
  • येन सर्वमिदं ततम् = that from which all this spreads and
  • अव्यय = non-diminishing, constant, eternally valid

५-४ Is some contrast or antithesis also put forth here for deliberation ? इदं सर्वम् is विनाशि. But “that” from which इदं सर्वम् has spread is अविनाशि. Our focus should hence be to know what is अविनाशि and to get and stay entangled in इदं सर्वम् which is विनाशि. As mentioned in (५-२) there is lot more to be known of the तत् in the verses ahead.

५-५ Interestingly, it seems in Arabic, “Al” means “the” or “that”, e.g. “Al arafat”, “Al Madina”, even “Al Allah”

  • What is the exact meaning of “Allah” ? May be it is Al + Aah
    • by rules of संधि or by natural effect in pronunciation, ‘l’ will get doubled. Hence Al + Aah = Allah !
    • If Al = the or that and
    • Aah an expression of veneration , obeisance , appeal
    • Allah = Al + Aah = “Oh that” = the one = the only one

५-६ Does it not sound interesting that what तत् is being studied here and what Muslims call “Allah” seem to be identical concepts ?

५-७ Do they not say, “एकं सत् विप्रा बहुधा वदन्ति” ! Truth is one; those who know, speak of it (in their own way, hence) variously !

शुभमस्तु ।

-o-O-o-

Advertisements