Learning together Sanskrit and GeetA (Chapter 2 : Verse 18)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 18)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: १८) पञ्चत्रिंशत्तमः (३५) सोपानः ।


अन्तवन्त इमे देहा नित्यस्योक्ता शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ।।२-१८।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


अन्तवन्त: इमे देहा: नित्यस्य उक्ता: शरीरिणः ।
अनाशिन: अप्रमेयस्य तस्मात् युध्यस्व भारत ।।२-१८।।

अत्र सन्धयः

  1. अन्तवन्त इमे = अन्तवन्त: इमे (विसर्गसन्धिः)
  2. देहा नित्यस्योक्ता शरीरिणः = देहा: नित्यस्य उक्ता: शरीरिणः
    • देहा: नित्यस्य = देहा नित्यस्य (विसर्ग-संधिः)
    • नित्यस्य उक्ता: = नित्यस्योक्ता: (स्वर-संधिः)
    • नित्यस्योक्ता: शरीरिणः  = नित्यस्योक्ता शरीरिणः (विसर्ग-सन्धिः)
  3. अनाशिनोऽप्रमेयस्य = अनाशिन: अप्रमेयस्य (विसर्ग-संधिः)
  4. तस्माद्युध्यस्व = तस्मात् युध्यस्व (व्यञ्जनसन्धिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः
अनाशिन: अप्रमेयस्य नित्यस्य शरीरिणः = यदा (अयम्) अनाशी अप्रमेयः नित्यः शरीरी (भवति) तदा
इमे देहा: अन्तवन्त: उक्ता: ।
भारत, तस्मात् (त्वम्) युध्यस्व ।वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा अव्ययम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् इतरे शब्दाः वाक्यांशस्य प्रकारः
अनाशिन: अप्रमेयस्य नित्यस्य शरीरिणः “सत्-षष्ठी”-
प्रयोगेन गौणः
१ अ यदा (अयम्) अनाशी अप्रमेयः नित्यः शरीरी (भवति) कालवाचकः क्रिया- विशेषणात्मकः
गौणः
(तदा) (तस्य) इमे देहा: अन्तवन्त: उक्ता: प्रधानः
भारत तस्मात् (त्वम्) युध्यस्व प्रधानः

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.
अनाशिन: अप्रमेयस्य नित्यस्य शरीरिणः = यदा (अयम्) अनाशी अप्रमेयः नित्यः शरीरी (भवति) तदा
इमे देहा: अन्तवन्त: उक्ता:
भारत, तस्मात् (त्वम्) युध्यस्व

१  अनाशिन: “अनाशिन्” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि अथवा नपुंसकलिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

  • १-१ न नाशिन् = अनाशिन् । नञ्-तत्पुरुषः ।
  • १-२ नाशिन् “नश्” ४ प (= to get destroyed) इति धातुः । तस्य प्रयोजकात् (= to destroy) वर्तमानकालवाचकं विशेषणम् “नाशिन्” (= what can get destroyed) । अत्र पुल्लिङ्गि अथवा नपुंसकलिङ्गि  । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १-३ अनाशिन् = what cannot be destroyed, indestructible

२ अप्रमेयस्य “अप्रमेय” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि अथवा नपुंसकलिङ्गि । तस्य षष्ठी विभक्तिः एकवचनं च । अथवा

  • २-१ न प्रमेयं यस्य तत् अप्रमेयम् । नञ्-बहुव्रीहिः । तत्पुरुषः ।
  • २-२ प्रमेयम् “प्र + मि” ५ उ (= to measure, to compare) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “प्रमेय” (= comparable) । अत्र नपुंसकलिङ्गि  । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २-३ अप्रमेयम् = incomparable, having no equal

३ नित्यस्य “नित्य” (= constant, ever-present, eternal) इति विशेषणम् । अत्र पुल्लिङ्गि अथवा नपुंसकलिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
४ शरीरिणः “शरीरिन्” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि अथवा नपुंसकलिङ्गि । तस्य षष्ठी विभक्तिः एकवचनं च ।

  • ४-१ शरीरं अस्य अस्ति इति शरीरिन् । = that which has a body

५ इमे  “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
६ देहा: “देह” (= body) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
७ अन्तवन्त: “अन्तवत्” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ७-१ वत् = अस्य अस्ति । अन्तः अस्य अस्ति इति अन्तवत् ।
  • ७-२ अन्तः “अन्त” (= end) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ७-३ अन्तवत् । =  one, which has an end

८ उक्ता: “वच्” १ प (= to speak) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “उक्त” (= spoken of, called, said to be) ।  अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च । वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
९ युध्यस्व “युध्” ४ आ (= to fight) इति धातुः । तस्य आज्ञार्थे मध्यमपुरुषे एकवचनम् ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

अनाशिन: अप्रमेयस्य नित्यस्य शरीरिणः = यदा (इदम्) अनाशि अप्रमेयम् नित्यम् शरीरि (भवति)
(When the) indestructible, incomparable, eternal assumes a body
(तदा वा तस्य) इमे देहा: अन्तवन्त: उक्ता: ।
(then) these bodies (of it) are said to have an end.
भारत, तस्मात् (त्वम्) युध्यस्व ।
Oh भारत, hence fight (without hesitation).

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

अन्तवन्त इमे देहा । वर्णाः ८

नित्यस्योक्ता शरीरिणः । वर्णाः ८
अनाशिनोऽप्रमेयस्य । वर्णाः ८
तस्माद्युध्यस्व भारत । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

-१ This verse gives an insight into that तत्, which, although is indestructible, incomparable, eternal, assumes embodiment in bodies, which do have an end.

-२ This verse thus brings out the contrast between तत् and its embodiment. To understand the contrast one of course needs that third person’s unattached perspective even when looking into oneself – one’s own soul ad one’s own body !

-३ In the previous verse the basic indestructible nature of तत् was detailed. Now in this verse the contrast between तत्  and its embodiment are detailed. The thought thus seems to proceed into deeper and more minute details.

शुभमस्तु ।

-o-O-o-

Advertisements