Learning together Sanskrit and GeetA (Chapter 2 : Verse 22)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 22)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: ) नवत्रिंशत्तमः (३९) सोपानः ।
वासांसि जीर्णानि यथा विहाय ।
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही  ।।२-२२।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
वासांसि जीर्णानि यथा विहाय ।
नवानि गृह्णाति नर: अपराणि ।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही  ।।२-२२।।
अत्र सन्धयः
  1. नरोऽपराणि = नर: अपराणि (विसर्ग-संधिः)
  2. जीर्णान्यन्यानि  = जीर्णानि अन्यानि (स्वर-संधिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः
यथा जीर्णानि वासांसि विहाय
नर: अपराणि नवानि (वासांसि) गृह्णाति,
तथा जीर्णानि शरीराणि विहाय
देही अन्यानि नवानि (शरीराणि) संयाति ।वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा अव्ययम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् इतरे शब्दाः वाक्यांशस्य प्रकारः
जीर्णानि वासांसि विहाय गौणः
यथा नर: अपराणि नवानि (वासांसि) गृह्णाति गौणः
तथा जीर्णानि शरीराणि विहाय गौणः
देही अन्यानि नवानि (शरीराणि) संयाति प्रधान:

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.

यथा जीर्णानि वासांसि विहाय
नर: अपराणि नवानि (वासांसि) गृह्णाति,
तथा जीर्णानि शरीराणि विहाय
देही अन्यानि नवानि (शरीराणि) संयाति

१  जीर्णानि “जृ” १ प (= To make low, to wither, to wear out) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “जीर्ण” (= withered, worn out) । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
२ वासांसि “वासस्”  (= cloth, garment) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३ विहाय “वि + धा” ३ उ (= to put away) इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् “विहाय” (= by putting away) ।
४ नर: “नर” (= man) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
५ अपराणि “अपर” (= another, different) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
६ नवानि “नव” (= new) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
७ गृह्णाति “गृह्” अथवा “ग्रह्” ९ उ (= to bring, to take, to wear) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
८ शरीराणि “शरीर” (= body) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
९ देही “देहिन्” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ९-१ देह + इन् = देहिन् । देहः अस्य अस्ति इति देहिन् = having body
  • ९-२ देहः “देह” (= body) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९-३ इन् (= having) अस्य अस्ति ।

१० संयाति “सम् + या” २ प (= to enter, to occupy) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

यथा जीर्णानि वासांसि विहाय = Just as by putting away worn clothes
नर: अपराणि नवानि (वासांसि) गृह्णाति = man takes different new clothes
तथा जीर्णानि शरीराणि विहाय = likewise by leaving worn out bodies
देही अन्यानि नवानि (शरीराणि) संयाति = one having a body occupies other new bodies

Overall meaning – As a man casts off worn-out clothes and puts on new clothes, so the embodied entity casts off worn-out bodies and enters into new bodies.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

वासांसि जीर्णानि यथा विहाय । वर्णाः ११
(२-२-१) (२-२-१) (१-२ १)-२-(१) इति मात्राः ।
त त ज ग ग इति गणाः (इन्द्रवज्रा-वृत्तम्)
नवानि गृह्णाति नरोऽपराणि । वर्णाः ११
(१-२-१) (२-२-१) (१-२-१)-२-(१) इति मात्राः ।
ज त ज ग ग इति गणाः (उपेन्द्रवज्रा-वृत्तम्)
तथा शरीराणि विहाय जीर्णा- वर्णाः ११
(१-२ १)-(२-२-१) (१-२-१) २-२ इति मात्राः ।
ज त ज ग ग इति गणाः (उपेन्द्रवज्रा-वृत्तम्)
न्यन्यानि संयाति नवानि देही वर्णाः ११
(२-२-१) (२-२-१) (१-२-१) २-२ इति मात्राः ।
त त ज ग ग इति गणाः (इन्द्रवज्रा-वृत्तम्)
अत्र त्रिष्टुभ् छन्दः । इन्द्रवज्रा-उपेन्द्रवज्रा-वृत्तयो: संमीलनेन उपजाति-वृत्तम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

५-१ This श्लोक is one instance, where a simile is used to explain philosophical thought. There are many such instances in गीता. It comes to mind that to compile a list of such similes can itself become an interesting compilation.

५-२ The word जीर्णानि used as adjective for वासांसि and also for शरीराणि prompts some thinking. Bodies शरीराणि become non-inhabitable, not just because of being worn out, by age or by physiological maladies. They become non-inhabitable, also when body gets injured or killed. So, it comes to mind that the soul would transit into another body, not just when the body is worn out, but when the body becomes non-inhabitable, due to whatever reasons.

शुभमस्तु ।

-o-O-o-

Advertisements

Learning together Sanskrit and GeetA (Chapter 2 : Verse 21)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 21)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: २१) अष्टत्रिंशत्तमः (३८) सोपानः ।
वेदाविनाशिनं नित्यम् य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ।।२-२१।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
वेद अविनाशिनं नित्यम् य: एनम् अजम् अव्ययम् ।
कथं स: पुरुषः पार्थ कं घातयति हन्ति कम् ।।२-२१।।
अत्र सन्धयः
  1. वेदाविनाशिनम् = वेद अविनाशिनम् (स्वर-संधिः)
  2. य एनमजमव्ययम् = य: एनम् अजम् अव्ययम्
    • य: एनम्  = य एनम् (विसर्ग-संधिः)
    • एनम् अजम् = एनमजम् (व्यञ्जनसन्धिः)
    • अजम् अव्ययम् = अजमव्ययम् (व्यञ्जनसन्धिः)
  3. स पुरुषः = स: पुरुषः (विसर्गसन्धिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः
पार्थ
य: एनम् अविनाशिनं नित्यम् अजम् अव्ययम् वेद,
स: पुरुषः कथं कं घातयति कं हन्ति ।
वाक्यांशानां विश्लेषणानि  Analysis of clauses –
वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम् वा संबोधनम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् क्रिया-विशेषणानि  तथा इतरे शब्दाः वाक्यांशस्य प्रकारः
पार्थ य: एनम् वेद अविनाशिनं नित्यम् अजम् अव्ययम् गौणः
स: पुरुषः कम् घातयति कथम् प्रधानः
(स: पुरुषः) कम् हन्ति (कथम्) प्रधानः

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.

पार्थ
य: एनम् अविनाशिनं नित्यम् अजम् अव्ययम् वेद,
स: पुरुषः कथं कं घातयति कं हन्ति

१  अव्ययम् “अव्यय” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • १-१ न व्ययः यस्य सः अव्ययः । नञ्-तत्पुरुषः ।
  • १-२ व्ययः “वि + अय्” १ आ (= to go away, to deplete, to reduce, to decay, to become expended) इति धातुः । तस्मात् पुल्लिङ्गि नाम “व्यय”(= reduction, depletion, expense, decay) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १-३ अव्ययः = one, which does not go away, does not reduce, does not decay, does not become expended

२ वेद “विद्” २ प (= to know) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
३ घातयति “हन्” २ प (= to hunt, to hit, to hurt, to kill) इति धातुः । तस्य प्रयोजकस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
४ हन्ति “हन्” २ प (= to hunt, to hit, to hurt, to kill) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

पार्थ = Oh son of पृथा
य: एनम् अविनाशिनं नित्यम् अजम् अव्ययम् वेद = One who understands Him (or It) to be indestructible, constant, unborn, non-decaying, non-depleting
स: पुरुषः कथं कं घातयति कं हन्ति = How would such person can kill anybody or can have anybody killed ?

For overall meaning –
Oh Partha, he who knows this One, which is indestructible, eternal, birthless and undecaying, how and whom does that person kill or whom and how does he cause to be killed ?

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

वेदाविनाशिनं नित्यम् । वर्णाः ८
य एनमजमव्ययम् । वर्णाः ८
कथं स पुरुषः पार्थ । वर्णाः ८
कं घातयति हन्ति कम् । वर्णाः ८
अत्र अनुष्टुभ् छन्दः । तस्य विवरणम् अनावश्यकम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

५-१ Having discussed in the previous verses the indestructibiity, eternal validity of He or It, in this verse any effort to destroy It is brought to question. Of course those who know, know.

५-२ Implicit is also an advice to पार्थ to be as knowledgeable. In turn the advice is to bear in mind indestructibiity, eternal validity of He or It. In turn the advice is to be free of any guilt about fighting the war, since even by fighting the war He (or It) will not get killed.

५-३ Knowledge that He (or It) is indestructible, eternal, birthless and undecaying is true knowledge of It. श्रीकृष्ण wants पार्थ to be as knowledgeable. Rather, we should all be as knowledgeable !

शुभमस्तु ।

-o-O-o-

Learning together Sanskrit and GeetA (Chapter 2 : Verse 20)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 20)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: २०) सप्तत्रिंशत्तमः (३७) सोपानः ।
न जायते म्रियते वा कदाचिन् –
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो –
न हन्यते हन्यमाने शरीरे ।।२-२०।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
न जायते म्रियते वा कदाचित्
न अयं भूत्वा भविता वा न भूयः ।
अज: नित्यः शाश्वत: अयं पुराण:
न हन्यते हन्यमाने शरीरे ।।२-२०।।
अत्र सन्धयः
  1. कदाचिन्नायम् = कदाचित् न अयम्
    • कदाचिन्न =  कदाचित् न (व्यञ्जनसन्धिः)
    • नायम् = न अयम् (स्वर-संधिः)
  2. अजो नित्यः  = अज: नित्यः (विसर्ग-संधिः)
  3. शाश्वतोऽयं = शाश्वत: अयम् (विसर्गसन्धिः)
  4. पुराणो न = पुराण: न (विसर्गसन्धिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः
अयं कदाचित् न जायते वा म्रियते ।
(अयं) न भूत्वा भविता वा भूयः न (भवति) ।
शरीरे हन्यमाने (सति अपि) अज: नित्यः शाश्वत: पुराण: अयं न हन्यते ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम् वा संबोधनम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् क्रिया-विशेषणानि वाक्यांशस्य प्रकारः
(अयं) न जायते कदाचित् प्रधानः
वा (अयं) (न) म्रियते (कदाचित्) प्रधानः
(अयं) न भूत्वा गौणः
अयं भविता वा भूयः न (भवति) प्रधानः
शरीरे हन्यमाने (सति) (अपि) गौणः
सति-सप्तमी
अज: नित्यः शाश्वत: पुराण: अयं  न हन्यते प्रधानः

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.

(अयं) कदाचित्जायते वा म्रियते
(अयं) न भूत्वा अयं भविता वा भूयः न (भवति) ।
शरीरे हन्यमाने (सति अपि)
अज: नित्यः शाश्वत: पुराण: अयं न हन्यते

१  कदाचित् (= कदा + चित्)

  • १-१ कदा (= when) इति अव्ययम् ।
  • १-२ चित् (= ever) इति प्रत्ययः ।
  • १-३ कदाचित् = whenever, (extended meaning – never

२ जायते “जन्” ४ आ (= to be born) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

३ म्रियते “मृ” ४ आ (= to die) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
४ भूत्वा “भू” १ प (= to be, to become) इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् “भूत्वा” =
५ भविता “भू” १ प (= to be, to become) इति धातुः । तस्मात् “तृ”-प्रत्ययेन कर्तृवाचकं विशेषणम् “भवितृ” (= something that comes into existence) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
६ भूयः “भूयस्” (= what becomes or happens many times) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ६-१ भूयः (= again) इति अव्ययमपि ।

७ हन्यमाने “हन्” २ प (= to hunt, to hit, to hurt, to kill) इति धातुः । तस्मात् कर्मणि-प्रयोगान्वितं “मत्”-प्रत्ययान्वितं च विशेषणम् “हन्यमत्” (= what is susceptible to be killed) । अत्र पुल्लिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
८ अज: “अज” इति उपसर्गयुतं नकारात्मकं च विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ८-१ ज = जायते । यथा पङ्के जायते इति पङ्कजम्, अण्डे जायते इति अण्डजम् ।
  • ८-२ न जायते इति अज (= what does not have birth) ।

९ शाश्वत: “शाश्वत” (= eternal) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१० पुराण: “पुराण” (= ancient) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

(अयं) कदाचित् न जायते वा म्रियते = He (it) is never born or never dies
अयं न भूत्वा भविता वा न भूयः । = He (it) did not come into existence, does not come into existence, is not what becomes or happens many times (again and again).
शरीरे हन्यमाने (सति अपि) अज: नित्यः शाश्वत: पुराण: अयं न हन्यते = Even if it is embodied in bodies which can be killed, He (it) who is eternal, permanent, ancient cannot be killed.

For overall meaning –
It is not born and It does not die; nor is it ever that this One having been non-existent becomes existent again. This one is birthless, eternal, undecaying, ancient; It would not be killed (even) when the body (in which it may be residing) can be killed.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

न जायते म्रियते वा कदाचिन् – वर्णाः ११
(१ २-१)-(२ १-१)-(२ २ १)-२-२ इति मात्राः ।
जभान भानस ताराज ग ग = त भ ज ग ग इति गणाः ।
नायं भूत्वा भविता वा न भूयः । वर्णाः ११
(२-२ २)-(२ १-१)-(२ २ १) २-२ इति मात्राः ।
मातारा भानस ताराज ग ग = म भ त ग ग इति गणाः ।
अजो नित्यः शाश्वतोऽयं पुराणो – वर्णाः ११
(१-२ २)-(१ २-१)-(२-२ १)-२-२ इति मात्राः ।
यमाता जभान ताराज ग ग = य ज त ग ग इति गणाः ।
न हन्यते हन्यमाने शरीरे । वर्णाः ११
(१ २-१)-(२ २-१)-(२-२ १)-२-२ इति मात्राः ।
जभान ताराज ताराज ग ग = ज त ज ग ग इति गणाः ।

अत्र त्रिष्टुभ् छन्दः । द्वितीये चरणे वातोर्मी-वृत्तम्, तथा चतुर्थे चरणे उपेन्द्रवज्रा-वृत्तम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

५-१ The words भूत्वा भविता भूयः represent respectively past, present and repetitive future.

  • Grammar of these three words भूत्वा भविता भूयः is rather challenging to put them into a good syntax and to derive a good syntactic translation.

५-२ Meaning of the word कदाचित् is often given as ‘perhaps’, with a sense of probability. However here it is used in the emphatic sense, कदाचित् न = never.

५-३ Apart from its indestructibility what is emphasized in this verse is its eternal existence. By that the questions of its being born and dying are just eliminated. श्रीरामानुजाचार्य says, “अयम् कल्पादौ भूत्वा भूयः कल्पान्ते च न भविता इति न” By this comment श्रीरामानुजाचार्य relates its eternal existence even beyond the boundaries of beginning and end of eons.

  • By this, he has interwoven the words भूत्वा भविता भूयः very smartly and very interestingly !
  • In such paraphrasing अन्वय, he uses भूयः in adverbial क्रिया-विशेषणम् sense than in adjectival विशेषणम् sense. In dictionary the word भूयः is detailed both as an adverb and also as an adjective. That is how one can derive paraphrasing of the verse by various options.
  • That is what makes studying गीता challenging, but inviting and interesting !

शुभमस्तु ।

-o-O-o-

Learning together Sanskrit and GeetA (Chapter 2 : Verse 19)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 19)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: १९) षट्-त्रिंशत्तमः (३६) सोपानः ।


य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ।।२-१९।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


य: एनं वेत्ति हन्तारं य: च एनं मन्यते हतम् ।
उभौ तौ न विजानीतः न अयं हन्ति न हन्यते ।।२-१९।।

अत्र सन्धयः

  1. य एनम् = य: एनम् (विसर्गसन्धिः)
  2. यश्चैनम् = य: च एनम्
    • य: च = यश्च (विसर्ग-संधिः)
    • यश्च एनम् = यश्चैनम् (स्वर-संधिः)
  3. विजानीतो नायम् = विजानीतः न अयम्
    • विजानीतः न = विजानीतो न (विसर्ग-संधिः)
    • विजानीतो न अयम् = विजानीतो नायम् (स्वर-संधिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः
य: एनं हन्तारं (इति) वेत्ति
य: च एनं हतम् मन्यते
तौ उभौ न विजानीतः (यत्) अयं न हन्ति न हन्यतेवाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा अव्ययम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् इतरे शब्दाः वाक्यांशस्य प्रकारः
य: एनं वेत्ति हन्तारं (इति) गौणः
य: एनं मन्यते हतम् गौणः
तौ उभौ न विजानीतः प्रधानः
(यत्) अयं न हन्ति न हन्यते गौणः

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.
य: एनं हन्तारं (इति) वेत्ति
य: च एनं हतम् मन्यते
तौ उभौ न विजानीतः (यत्) अयं न हन्तिहन्यते

१  हन्तारं “हन्” २ प (= to hunt, to hit, to hurt, to kill) इति धातुः । तस्मात् “तृ”-प्रत्ययेन कर्तृवाचकं विशेषणम् “हन्तृ” (= hunter, killer) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

२ वेत्ति “विद्” २ प (= to know, to understand) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

३ हतम् “हन्” २ प (= to hunt, to hit, to hurt, to kill) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “हत” (= killed) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
४ मन्यते “मन्” ४ आ (= to think, to consider, to regard) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
५ विजानीतः “वि + ज्ञा” ९ उ (= to know specifically) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे द्विवचनम् ।
६ हन्ति “हन्” २ प (= to hunt, to hit, to hurt, to kill) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
७ हन्यते “हन्” २ प (= to hunt, to hit, to hurt, to kill) इति धातुः । तस्य कर्मणि-प्रयोगे वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

य: एनं हन्तारं (इति) वेत्ति = He, who understands him (it) as the killer
य: च एनं हतम् मन्यते = and he who regards that he (it) can be killed
तौ उभौ न विजानीतः = both of them do not understand
(यत्) अयं न हन्ति न हन्यते = that it does not kill nor can it be killed

Overall meaning may be stated as –
He who considers this One the killer and he who considers this One is killed, both of them do not know. This One does not kill nor is It killed

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

य एनं वेत्ति हन्तारं । वर्णाः ८

यश्चैनं मन्यते हतम् । वर्णाः ८
उभौ तौ न विजानीतो । वर्णाः ८
नायं हन्ति न हन्यते । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

५-१ What seemed to be explanation of तत् (inherent, fundamental principle, ‘It’, neuter gender) in previous verse seems to have been referred to as अयम् (masculine gender, आत्मा soul) in the verses here.

५-२ The characteristics of indestructibility अयम् न हन्यते compares well with the mention of अविनाशि तु तत् in (२-१७) and अनाशिनोऽप्रमेयस्य in (२-१८)

५-३ What is added here is नायं हन्ति This One does not kill. श्रीरामानुजाचार्य says “हन्ति धातुः अपि आत्मकर्मकः शरीरवियोगकरणवाची” Idea seems to be “It embodies itself in a body and separates from that body शरीरवियोगकरण”. Separating Oneself from a body should not necessarily mean killing the body !

  • At one time I happened to be reading of the difference in practices of certifying death. Traditional practice seems to be to certify death, if the pulse is zero. In America they possibly consider brain-dead as dead.That set me thinking of what happens at the point of death. It comes to mind that sum total of matter and energies just before death and after death remains constant. Then what is it that is lost in death ? A simile came to mind. If one is holding a bunch of threads in a pinch, and the pinch is released, the threads will simply fritter away. There is no material or energy-change either in the fingers or the threads. What is lost is the totalitarian control, which was holding the threads together. Is death then the loss of totalitarian control of matters and energies शरीरवियोगकरण ? Can we say that, that totalitarian control is the Soul, He आत्मा or तत् the fundamental principle ?
  • Uhm ! Certainly this verse is thought-provoking !

५-४ श्रीरामानुजाचार्य mentions the verb हन्ति being आत्मकर्मकः directing to oneself, making oneself as the object (to be killed) ! But the verb here is न हन्ति negating any action on one’s own ! That leads to a different thought-process. It raises an inquiry whether It or He the soul indulges in any act by any self-motivation ever ! न हन्ति clearly suggests that the Soul, He आत्मा or तत् ‘It’ the fundamental principle at least has no negative motivations. May be, it has no motivations whatever, neither positive nor negative !

शुभमस्तु ।

-o-O-o-