गीता-ध्यानम्

॥ ॐ श्रीपरमात्मने नमः ॥

अथ ध्यानम् ।

श्लोकः

अन्वयः

ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं
अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥ १॥
ॐ (हे) अम्ब भगवद्-गीते !
स्वयं भगवता नारायणेन पार्थाय प्रतिबोधितां, पुराण-मुनिना व्यासेन महाभारतम्-मध्ये ग्रथितां, अष्टादश-अध्यायिनीं, अद्वैत-अमृत-वर्षिणीं,
भगवतीम्, भवद्वेषिणीम्, त्वाम्
(अहं) अनुसन्दधामि ॥ १॥
नमोऽस्तु ते व्यास विशालबुद्धे, फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः
प्रज्वालितो ज्ञानमयः प्रदीपः ॥ २॥
(हे) विशाल-बुद्धे, फुल्ल-अरविन्द-अयत-पत्र-नेत्र, व्यास ! त्वया येन भारत-तैल-पूर्णः ज्ञानमयः प्रदीपः प्रज्वालितः ते नमः अस्तु ॥ २॥
प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥ ३॥
प्रपन्न-पारिजाताय, तोत्र-वेत्र-एक-पाणये, ज्ञानमुद्राय, गीत-अमृत-दुहे, कृष्णाय नमः ॥ ३॥
सर्वोपनिषदो गावो दोग्धा गोपाल नन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥ ४॥
गोपाल-नन्दनः सर्वोपनिषदः गावः दोग्धा, गीत-अमृतं महत् दुग्धं सुधीः वत्सः पार्थः भोक्ता
॥ ४॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ ५॥
वसुदेव-सुतं देवं, कंस-चाणूर-मर्दनम् , देवकी-परम-आनन्दं, जगद्गुरुम्, कृष्णं
(अहं) वन्दे॥ ५॥
भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः ॥ ६॥
भीष्म-द्रोण-तटा (इव), जयद्रथ-जला (इव), गान्धार-नील-उत्पला (इव),
शल्य-ग्राहवती (इव), कृपेण वहनी (इव), कर्णेन वेलाकुला (इव),
अश्वत्थाम-विकर्ण-घोर-मकराः (इव), दुर्योधन-अवर्तिनी, सा रणनदी
पाण्डवैः उत्तीर्णा  खलु केशवः कैवर्तकः ॥ ६॥
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं
नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसिनः श्रेयसे ॥ ७॥
पाराशर्यवचः सरोजम्, गीत-अर्थ-गन्ध-उत्कटं, अमलं, नाना-ख्यानक-केसरं,
हरि-कथा-सम्बोधना-बोधितम्, भारत-पङ्कजं, सज्जन-षट्-पदैः मुदा अहरहः
पेपीयमानं, लोके कलिमलप्रध्वंसिनः श्रेयसे भूयात् ॥ ७॥
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ८॥
यत् कृपा मूकं वाचालं करोति, पङ्गुं गिरिम् लङ्घयते (च) । तम्
परम्-आनन्द-माधवम्, अहं वन्दे ॥ ८॥
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ ९॥
यं ब्रह्मा वरुण इन्द्र रुद्र मरुतः दिव्यैः स्तवैः स्तुन्वन्ति,

यं सामगाः वेदैः साङ्ग-पद-क्रम-उपनिषदैः गायन्ति,

यं योगिनः ध्यान-अवस्थित तद्-गतेन मनसा पश्यन्ति,

यस्य अन्तं सुर-असुर-गणाः न विदुः,
तस्मै देवाय नमः ॥ ९॥

॥ इति ध्यानम् ॥

Advertisements