Charming Way to learn Sanskrit using Geetaa !

Charming Way to learn Sanskrit using Geetaa !

Sanskrit is a language where you cannot find every other word in a dictionary. Before referring to a dictionary, one needs to know how words are formed in Sanskrit. There are many words derived from a root verb. Here is a study detailing how thousands (really many, many thousands) of words would be obtained from a root verb “कृ”. And at many places one will find quotations from Geetaa, where particular word is used.

पदानि इति ते शब्दाः ये वाक्येषु संभाषणेषु च प्रयुज्यन्ते । कित्येकानि पदानि शब्दकोषेषु न प्राप्यन्ते । अतः “कथं भवन्ति पदानि ?” अस्य विषयस्य अभ्यासः लाभदायकः ।

“कथं भवन्ति पदानि ?” इति किञ्चित् अध्ययनम् पूर्वमपि सादरीकृतमासीत् । अत्र कश्चित् प्रयासः “कृ” धातुतः प्रापणीयानां शब्दानाम् । तेन “कथं भवन्ति पदानि ?” इत्यस्य विषयस्यापि ।

नीचैः स्थाने स्थाने “(अष्टाध्यायी-सूत्रम् ____ )”-इति निर्देशः आयोजितः अस्ति । तथापि अस्मिन्विषये अहम् अज्ञानी अस्मि । अतः रिक्तानि स्थानानि ।  I have scant knowledge of अष्टाध्यायी. Hence I have left blank spaces to fill in the reference of appropriate सूत्रम्, which governs the particular word-formation. I look forward to experts blessing this study with their guidance and comments.

श्रीमद्भगवद्गीतायाः केचन उदाहरणान्यपि उद्धृतानि सन्ति । तेन इदं अध्ययनं रोचकं आश्वासकं च भवति इति मे मतिः ।

“कृ” धातुतः प्रापणीयानां शब्दानां कश्चिदभ्यासः ।
१ “कृ”-धातुनः गण-पद-विचारः (अष्टाध्यायी- धातुपाठात्)

  • कृ भ्वादि (१) अनिट् उ । कृञ् करणे । = to act
  • कृ स्वादि (५) अनिट् उ । कृञ् हिंसायाम् । = to cause harm
  • कृ तन्वादि (८) अनिट् उ । डुकृञ् करणे । = to do, to act

२ “कृ”धातुतः उपसर्गैः सह नूतनाः धातवः भवन्ति । (अष्टाध्यायी-सूत्रम् ____ )

  • उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहार-संहार-प्रहार-प्रतिहारवत्
  • उपसर्गाः (अष्टाध्यायी-सूत्रम् ____ )
    • अ, अति, अधि, अन्, अनु, अप, अभि, अव, (८)
    • आ (१)
    • उत्, उप, (२)
    • दुः, (दुर्, दुष्, दुस्) (१)
    • नि, नि: (निर्, निष्, निस्) (२)
    • परा, परि, प्र, प्रति, (४)
    • वि, (१)
    • सम्, सु (२)
  • केचन अन्ये उपसर्गाः अपि “कृ” धातुना सह प्रयुज्यन्ते यथा अलंकृ, तिरस्कृ, उपरिकृ, स्वीकृ, धिक्कृ , चमत्कृ, स्पष्टीकृ, बहिष्कृ, परिष्कृ । (अष्टाध्यायी-सूत्रम् ____ )
  • द्वि-त्रि-उपसर्गाः संमिलित्वापि प्रयुज्यन्ते यथा अनधिकृ, निराकृ । (अष्टाध्यायी-सूत्रम् ____ )

३ क्रियापदानि ।

  • यदि धातुः कस्मिन्श्चित् गणे परस्मैपदी वा आत्मनेपदी भवति, दश-लकारेषु प्रथम-मध्यम-उत्तम-पुरुषभेदैः एक-द्वि-बहु-वचनभेदैः च नवति (९०) पदानि । (अष्टाध्यायी-सूत्रम् ____ )
  • यदि धातुः कस्मिन्श्चित् गणे उभयपदी भवति तदा तस्मात् शताधिकाशीति (१८०) पदानि भवन्ति ।
  • लट् वर्तमाने लेट् वेदे भूते लुङ् लङ् लिटस्तथा । विध्याशिषौ लिङ्लोटौ लुट् लृट् लृङ् च भविष्यतः ॥
    • लट् वर्तमाने – नैव किञ्चित्करोमीति (गीता ५-८), सङ्गं त्यक्त्वा करोति यः (गीता ५-१०), योगिनः कर्म कुर्वन्ति (गीता ५-११)
    • लुङ् भूते
    • लङ् भूते- किमकुर्वत सञ्जय (गीता १-१)
    • लिट् भूते
    • लुट् भविष्ये
    • लृट् भविष्ये
    •  लृङ् भविष्ये – संग्रामं न करिष्यसि (गीता २-३३)
    • लेट् वेदे – यथेच्छसि तथा कुरु (गीता १८-६३)
    • लिङ् विध्याशिषौ – कुर्याद्विद्वांस्तथासक्तः (गीता ३-२५)
    • लोट् विध्याशिषौ
  • कर्मणि-प्रयोगे धातुतः आत्मनेपदीनि चतुर्थ-गणसमानानि भवन्ति । (अष्टाध्यायी-सूत्रम् ____ )
    • दश-लकारेषु प्रथम-मध्यम-उत्तम-पुरुषभेदैः एक-द्वि-बहु-वचनभेदैः च (९०) पदानि ।
  • प्रयोजकार्थे धातुतः दशमगणसमानानि । (अष्टाध्यायी-सूत्रम् ____ )
    • दश-लकारेषु प्रथम-मध्यम-उत्तम-पुरुषभेदैः एक-द्वि-बहु-वचनभेदैः च (९० अथवा १८०) पदानि ।

४ अव्ययानि

  • त्वान्त-वा-ल्यबन्त भूतकालवाचकानि कृत्वा, निष्कृत्य, उपकृत्य इ. । (अष्टाध्यायी-सूत्रम् ____ )
    • सुखदुःखे समे कृत्वा (गीता. २-३८)
  • तुमन्त प्रयोजनार्थीनि  कर्तुम्, उपकर्तुम्, इ. । (अष्टाध्यायी-सूत्रम् ____ )
    • अहो बत महत्पापं कर्तुं व्यवसिता वयम् (१-४५)

५ विशेषणानि

  • भूतकालवाचकं “कृत”-इ. (अष्टाध्यायी-सूत्रम् ____ )
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
      • अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम्
    • “कृत’-शब्दतः उपपदात्मकैः प्रत्ययैः विशेषणानि यथा कृतज्ञ, कृतघ्न । (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
  • य-तव्य-अनीय-प्रत्ययैः विध्यर्थवाचकानि यथा कार्यम्, कर्तव्यम्, करणीयम् । (अष्टाध्यायी-सूत्रम् ____ )
    • लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
    • गीता सुगीता कर्तव्या ।
  • “अन्”-प्रत्ययेन  कर्तरि-वर्तमानकालवाचकानि यथा कुर्वन्, कुर्वती । (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
      • कुर्वन्नपि न लिप्यते (गीता ५-७)
    • प्रयोजकादपि यथा कारयन्
      • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
      • नैव कुर्वन् न कारयन् (गीता ५-१३)
  • ईय-प्रत्ययेन “क्रीय” (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
    • उपसर्गैः सह अन्यानि यथा सक्रीय ।
      • लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
  • “तृ”-प्रत्ययेन कर्तृ-कर्ता-कर्त्री-इत्यादीनि (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
      • तस्य कर्तारमपि मां … (गीता ४-१३)
    • उपसर्गैः सह अन्यानि
      • लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
      • विध्यकर्तारमव्ययम्  (गीता ४-१३)
  • इच्छार्थि विशेषणम् “चिकिर्षु” । (अष्टाध्यायी-सूत्रम् ____ )
    • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
    • चिकिर्षुर्लोकसंग्रहम् (गीता ३-२५)

६ नामानि

  • मन्-प्रत्ययेन नपुंसकलिङ्गि नाम “कर्मन्” (अष्टाध्यायी-सूत्रम् ____ )
      • विभक्ति-वचन-भेदैः (२४) पदानि
      • कर्मणो ह्यपि बोद्धव्यं (गीता ४-१७)
    • उपसर्गैः सह अन्यानि नामान्यपि  । विकर्म, अकर्म
      • विभक्ति-वचन-भेदैः प्रत्येकस्य नाम्नः (२४)  पदानि
      • बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं (गीता ४-१७)
  • क्रिया, कृति, कृत्य इत्यादीनि नामान्यपि । (अष्टाध्यायी-सूत्रम् ____ )
      • विभक्ति-वचन-भेदैः प्रत्येकस्य नाम्नः (२४)  पदानि
    • उपसर्गैः सह अन्यानि नामान्यपि यथा प्रक्रिया,  ।
      • विभक्ति-वचन-भेदैः प्रत्येकस्य नाम्नः (२४)  पदानि
  • अन-प्रत्ययेन नपुंसकलिङ्गि नाम कृ + अन = करण (अष्टाध्यायी-सूत्रम् ____ )
      • विभक्ति-वचन-भेदैः (२४) पदानि
      • करणं च पृथग्विधम् (गीता १८-१४)
    • उपसर्गैः सह अन्यानि नामान्यपि यथा उपकरण (नपुंसकलिङ्गि)
      • विभक्ति-वचन-भेदैः प्रत्येकस्य नाम्नः (२४)  पदानि
    • प्रयोजकात् नपुंसकलिङ्गि नाम कारण (अष्टाध्यायी-सूत्रम् ____ )
      • विभक्ति-वचन-भेदैः (२४) पदानि
      • पञ्चैतानि महाबाहो कारणानि निबोध मे (गीता १८-१३)

७ तद्धितानि

  • विशेषणानि ।
    • “कर्मन्”-नाम्नः “ज”-उपपदेन (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
      • “कर्मजान् विद्धि तान् सर्वान्” (गीता ४-३२)
    • “क्रिया”-शब्दतः वत्-प्रत्ययेन क्रियावत्-इति विशेषणम् । (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
      • यः क्रियावान् स पण्डितः ।
    • “कृति”–शब्दतः न्-प्रत्ययेन कृतिन््-इति विशेषणम् । (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
      • उपसर्गैः सह अन्यानि
        • लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
        • न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः (गीता ७-१५)
    • “मत्”-प्रत्ययेन विशेषणम् “क्रियमाण” । (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
        • प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः (गीता ३-२७)
      • उपसर्गैः सह अन्यानि
        • लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
    • “कर्तृ”-तः त्व-प्रत्ययेन कर्तृत्व इति नपुंसकलिङ्गि नाम । (अष्टाध्यायी-सूत्रम् ____ )
      • तस्मात् विभक्ति-वचन-भेदैः (२४) पदानि ।
      • न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः (गीता ५-१४)
    • “चिकिर्षु”-विशेषणात् भाववाचकं स्त्रीलिङ्गि नाम चिकीर्षा । (अष्टाध्यायी-सूत्रम् ____ )
      • तस्मात् विभक्ति-वचन-भेदैः (२४) पदानि ।

कुलसङ्ख्या =

८ कृ-धात्वर्थका: प्रत्ययाः

  • सक्षमतार्थी विशेषणात्मक:   प्रत्ययः “कृत्”
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
    • स युक्तः कृत्स्नकर्मकृत् (गीता ४-१८)
  • विशेषणात्मक: “क”-प्रत्ययः यथा नाशक ।
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
  • विशेषणात्मक: “कर”-प्रत्ययः यथा सुखकर ।
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
  • नामात्मकः “कर”-प्रत्ययः यथा संकर (पुल्लिङ्गि)
    • विभक्ति-वचन-भेदैः पदानि ।
    • जायते वर्णसंकरः (गीता १-४१)
  • नामात्मकः “कार”-प्रत्ययः यथा चर्मकारः, प्रतिकारः ।
    • विभक्ति-वचन-भेदैः पदानि ।
  • विशेषणात्मक: “कारक”-प्रत्ययः  यथा सुखकारक ।
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
  • विशेषणात्मकः “कारिन्”-प्रत्ययः यथा हितकारि ।
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
  • विशेषणात्मकः “कारिक”-प्रत्ययः यथा अलंकारिक, चमत्कारिक ।
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
Advertisements

Learning together Sanskrit and GeetA (Chapter 2 : Verses 34, 35, 36)

Learning together Sanskrit and GeetA (Chapter 2 : Verses 34, 35, 36)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोका: ३४, ३५, ३६) षट्चत्वारिंशत्तमः (४) सोपानः ।
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते  ।।२-३४।।
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वम् बहुमतो भूत्वा यास्यसि लाघवम् ।।२-३५।।
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ।।२-३६।।

सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

अकीर्तिं च अपि भूतानि कथयिष्यन्ति ते अव्ययाम् ।
संभावितस्य च अकीर्ति: मरणात् अतिरिच्यते  ।।२-३४।।
भयात् रणात् उपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वम् बहुमत: भूत्वा यास्यसि लाघवम् ।।२-३५।।
अवाच्यवादान् च बहून् वदिष्यन्ति तव अहिताः ।
निन्दन्त: तव सामर्थ्यं तत: दुःखतरं नु किम् ।।२-३६।।

वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च

अन्वयाः

  1. अपि च भूतानि ते अव्ययाम् अकीर्तिं कथयिष्यन्ति ।
  2. संभावितस्य च अकीर्ति: मरणात् अतिरिच्यते ।
  3. महारथाः त्वां भयात् रणात् उपरतं मंस्यन्ते ।
  4. येषां च बहुमत: भूत्वा
  5. त्वम् लाघवम् यास्यसि ।
  6. तव सामर्थ्यं निन्दन्त:
  7. अहिताः (महारथाः) तव बहून् अवाच्यवादान् वदिष्यन्ति च ।
  8. तत: दुःखतरं नु किम् ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,
इतरे शब्दाः
क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
अपि च भूतानि अव्ययाम् अकीर्तिंम् ते कथयिष्यन्ति प्रधान:
अकीर्ति: संभावितस्य मरणात् अतिरिच्यते प्रधान:
महारथाः त्वांम् भयात् रणात् उपरतं मंस्यन्ते प्रधान:
येषां बहुमत: भूत्वा गौणः
त्वम् लाघवम् यास्यसि प्रधान:
सामर्थ्यं तव निन्दन्त: :गौणः
अहिताः (महारथाः) बहून् अवाच्यवादान् तव च वदिष्यन्ति प्रधान:
किम् दुःखतरं तत: नु (भवेत्) प्रधान:

समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

  1. भूतानि ते अव्ययाम् अकीर्तिं अपि च कथयिष्यन्ति
  2. संभावितस्य अकीर्ति: मरणात् अतिरिच्यते च ।
  3. महारथाः त्वां भयात् रणात् उपरतं मंस्यन्ते
  4. येषां बहुमत: भूत्वा
  5. त्वम् लाघवम् यास्यसि च ।
  6. तव सामर्थ्यं निन्दन्त: अहिताः (महारथाः) तव बहून् अवाच्यवादान् वदिष्यन्ति च ।
  7. तत: दुःखतरं नु किम्

अपि च भूतानि ते अव्ययाम् अकीर्तिं कथयिष्यन्ति ।१ भूतानि “भू” भ्वादि (१) सेट् प (= भू सत्तायाम् to be) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “भूत” (= one that has come into being) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

२ ते “युष्मद्” (= you, pronoun of second person) इति सर्वनाम ।तस्य षष्ठी विभक्तिः  एकवचनम् च ।
३ अव्ययाम् “अव्यय” इति सामासिकं विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य द्वितीया विभक्तिः  एकवचनम् च ।

  • ३-१ न व्ययः यस्याः सा अव्यया । नञ्-बहुव्रीहिः ।
  • ३-२ व्ययः “वि + अय्” इति भ्वादि सेट् उ (= अय गतौ to go, to become spent, to become expended, to diminish, to reduce) धातुः । तस्मात् पुल्लिङ्गि नाम “व्यय” (= change) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-३ अव्यया = One that does not or would not change; one that would not reduce, one that would stay

४ अकीर्तिम् “अकीर्ति” इति सामासिकं स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः  एकवचनम् च ।

  • ४-१ न कीर्तिः इति अकीर्तिः । नञ्-तत्पुरुषः । दि (१) अनिट् उ । कृञ् करणे । = to act
  • ४-२ कीर्तिः “कृत्” इति चुरादि (१०) सेट् उ धातुः । कृत संशब्दने = to spread word about, to praise । तस्मात् स्त्रीलिङ्गि नाम “कीर्ति” (= fame) ।
  • ४-३ अकीर्तिः = defamation

५ कथयिष्यन्ति “कथ्” इति चुरादि (१०) सेट् उ धातुः । कथ वाक्यप्रबन्धने = to tell, to narrate । तस्य लृट्-भविष्ये प्रथमपुरुषे बहुवचनम् ।

Overall meaning of अपि च भूतानि ते अव्ययाम् अकीर्तिं कथयिष्यन्ति = People will spread indelible defamation about you.

संभावितस्य च अकीर्ति: मरणात् अतिरिच्यते ।

६ संभावितस्य “सम् + भू” इति भ्वादि (१) सेट् परस्मैपदी धातुः । तस्य प्रयोजकात् भूतकालवाचकं विशेषणम् “संभावित” । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

  • ६-१ भू सत्तायाम् = to come into being
  • ६-२ संभू = to attain esteem
  • ६-३ संभावित = one, who is held in high esteem

७ मरणात् “मृ” इति तुदादि (६) अनिट् आत्मनेपदी धातुः । मृङ् प्राणत्यागे (= to die) । तस्मात् नपुंसकलिङ्गि नाम “मरण” (= death) । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

८ अतिरिच्यते “अति + रिच्” इति धातुः । तस्य कर्मणि-प्रयोगे वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

  • ८-१ “रिच्” भ्वादि (१) प तथा चुरादि (१०) सेट् उभयपदी धातुः । रिच वियोजनसंपर्जनयोः (= to remove, to empty, to drain)
  • ८-२ “रिच्” रुदादि (६) अनिट् उभयपदी । रिचिर् विरेचने (= to denounce, to depricate)
  • ८-३ “अति + रिच्” = to exceed, to surpass

Overall meaning of संभावितस्य च अकीर्ति: मरणात् अतिरिच्यते । = For one who is highly regarded, lost reputation is worse than death.

महारथाः त्वां भयात् रणात् उपरतं मंस्यन्ते ।

९ महारथाः “महारथ” (= the title denoting prowess of a warrior) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ९-१ महान् रथः यस्य सः (= one, who has large chariot, or one whose chariot, i.e. carriage is imposing and famous or one whose disposition is imposing and famous) महारथः । बहुव्रीहिः ।
  • ९-२ रथः “रथ” (= chariot) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

१० भयात् “भी” इति जुहोत्यादि (३) अनिट् परस्मैपदी धातुः । “ञ्-इभि भये” (= to fear) । तस्मात् भाववाचकं पुल्लिङ्गि अथवा नपुंसकलिङ्गि नाम “भय” । तस्य पञ्चमी विभक्तिः एकवचनम् च ।
११ रणात् “रण” (= battle, war, fighting) इति पुल्लिङ्गि अथवा नपुंसकलिङ्गि नाम । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

१२ उपरतम् “उप + रम्” इति भ्वादि (१) अनिट् आत्मनेपदी धातुः । तस्मात् भूतकालवाचकं विशेषणम् “उपरत” । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • १२-१ रमु क्रीडायाम् । रम् = to play, to enjoy
  • १२-२ उप + रम् = to go away, to run away, to desist from
  • १२-३ उपरत = one who has run away

१३ मंस्यन्ते “मन्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः । मन ज्ञाने (= to know, to regard, to think, to consider) । तस्य भविष्यकाले प्रथमपुरुषे बहुवचनम् ।

Overall meaning of महारथाः त्वां भयात् रणात् उपरतं मंस्यन्ते । = Eminent fighters will think that you have run away from the battle due to fear (as a coward).

येषां च बहुमत: भूत्वा

१४ येषाम् “यत्” (= who, conjunctive pronoun of third person) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।

१५ बहुमतः “बहुमत” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

  • १५-१ बहु मतः इति बहुमतः । कर्मधारयः ।
  • १५-२ बहु (= very much, a good lot) इति विशेषणम् । अत्र अव्ययात्मकमपि ।
  • १५-३ मतः “मन्” इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “मत” (= opinion, impression) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • १५-३-१ “मन्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः । “मन ज्ञाने” = to know, to regard, to think, to consider
    • १५-३-२ “मन्” इति तनादि (८) सेट् आत्मनेपदी धातुः । “मनु अवबोधने” = to understand, to digest, to assimilate
    • १५-३-३ “मन्” इति चुरादि (१०) आत्मनेपदी धातुः । “मान स्तम्भे” = to hold respectfully, to hold in high regard, to hold in esteem
  • १५-४ बहुमतः = one, who is held in high regard

१६ भूत्वा “भू” इति भ्वादि (१) सेट् परस्मैपदी धातुः । भू सत्तायाम् (= to become) । तस्मात् भूतकालवाचकं अव्ययम् भूत्वा (= on becoming) ।

Overall meaning of येषां च बहुमत: भूत्वा = to them in whose minds you attained an esteem

त्वम् लाघवम् यास्यसि ।

१७ लाघवम् “लघु” (= small) इति विशेषणम् । तस्मात् भाववाचकं नपुंसकलिङ्गि नाम “लाघव” (= smallness) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

१८ यास्यसि “या” इति अदादि (२) अनिट् परस्मैपदी धातुः । या प्रापणे (= to attain, to reach, to go to) । तस्य भविष्यकाले मध्यमपुरुषे एकवचनम् ।

Overall meaning of त्वम् लाघवम् यास्यसि = Those, who held you in high regard would think little of you.

तव सामर्थ्यं निन्दन्त: अहिताः (महारथाः) तव बहून् अवाच्यवादान् वदिष्यन्ति च ।

१९ तव “युष्मद्” (= you, pronoun of second person) इति सर्वनाम ।तस्य षष्ठी विभक्तिः  एकवचनम् च ।

२० सामर्थ्यम्

  • २०-१ “सम् + अर्थ्” इति चुरादि (१०) सेट् आत्मनेपदी धातुः ।
  • २०-२ अर्थ याञ्चायाम् (= to hold expectations) । समर्थ् (= to be capable of) ।
  • २०-३ “समर्थ”-धातुतः भाववाचकं नपुंसकलिङ्गि नाम “सामर्थ्य” (= strength, capability) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

२१ निन्दन्त: “निन्द्” इति भ्वादि (१) सेट् परस्मैपदी धातुः “णिदि कुत्सायाम्” (= to denounce, to hate) । तस्मात् कर्तरि वर्तमानकालवाचकं विशेषणम् “निन्दन्” (= one, who is denouncing) । अत्र पुल्लिङ्गि । तस्य प्रथम विभक्तिः बहुवचनम् च ।

२२ अहिताः “अहित” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथम विभक्तिः बहुवचनम् च ।

  • २२-१ न हितं येभ्यः ते अहिताः । नञ्-बहुव्रीहिः ।
  • २२-२ हितम्
    • २२-२-१ “हित” (= positive or beneficial result) इति नपुंसकलिङ्गि नाम ।
    • २२-२-२ “हित” इति भूतकालवाचकं विशेषणम् ।
      • “धा” इति जुहोत्यादि (३) अनिट् उभयपदी धातुः । डुधाञ् धारणपोषणयोः (= to hold, to tend) । दाने इत्यप्येके according to some (= to give) ।
      • “हि” इति स्वादि (५) अनिट् परस्मैपदी धातुः । “हि गतौ वृद्धौ च” (= to lose)
  • २२-३ येभ्यः “यत्” (= ) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य चतुर्थी अथवा पञ्चमी विभक्तिः बहुवचनम् च । अत्र चतुर्थी विभक्तिः ।
  • २२-४ अहिताः = those, who do not tend, (rather) those who hold ill will

२३ बहून् बहु (= very much, a good lot) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।२४ अवाच्यवादान् “अवाच्यवाद” इति सामासिकं नाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

  • २४-१ न वाच्यः इति अवाच्यः । नञ्-तत्पुरुषः ।
  • २४-२ अवाच्यः वादः इति अवाच्यवादः । कर्मधारयः ।
  • २४-३ वाच्यः “वच्” इति अदादि सेट् आत्मनेपदी धातुः । वच परिभाषणे (= to say, to speak) । तस्य “वाच्”-प्रयोजकात् विध्यर्थवाचकं विशेषणम् “वाच्य” (= what is speakable) । अत्र पुल्लिङ्गि ।
  • २४-४ वादः “वद्” इति धातुः । तस्य “वाद”-प्रयोजकात् पुल्लिङ्गि नाम “वाद” (= contention) ।
  • २४-५ अवाच्यवाद = one, who holds unspeakable contentions

२५ वदिष्यन्ति “वद्” इति भ्वादि सेट् परस्मैपदी धातुः । “वद व्यक्तायां वाचि” (= to say, to give expression to) । तस्य भविष्यकाले प्रथमपुरुषे बहुवचनम् ।

Overall meaning of तव सामर्थ्यं निन्दन्त: अहिताः (महारथाः) तव बहून् अवाच्यवादान् वदिष्यन्ति च = Those (great warriors), denouncing your strength, and who would hold ill will (against you) (as a result of their diminished respect) will give expression to many unspeakable contentions about you.

Note – There were महारथाः on the side of PaaNDava-s also. Rather they, most importantly his own brothers, would become most offended by Arjuna’s leaving the battlefield, feeling it as a विश्वासघात blasphemy. This point does not seem to have been brought out in all the arguments made by श्रीकृष्ण.

तत: दुःखतरं नु किम् ।

२६ तत: (= thence) इति अव्ययम् ।

  • २६-१ अथवा त(त्) + तः = ततः ।
  • २६-२ तः = पञ्चमी-विभक्त्यर्थवाहकः प्रत्ययः ।
  • २६-३ ततः = (from that, by that, than that)

२७ दुःखतरम् “दुःख” (= sorrow) इति नपुंसकलिङ्गि नाम । तस्मात् “तर”-वाचकं विशेषणम् “दुःखतर” (= more sorry) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • “तर”-वाचकं विशेषणम् = adjective of comparative degree

२८ नु (= really) इति अव्ययम् ।

Overall meaning of तत: दुःखतरं नु किम् = What is more sorry than that ?

आङ्ग्लभाषायां अनुवादं ददतु । Give Translation / Overall meaning –

  1. अपि च भूतानि ते अव्ययाम् अकीर्तिं कथयिष्यन्ति = People will spread indelible defamation about you.
  2. संभावितस्य च अकीर्ति: मरणात् अतिरिच्यते = For one who is highly regarded, lost reputation is worse than death.
  3. महारथाः त्वां भयात् रणात् उपरतं मंस्यन्ते = Eminent fighters will think that you have run away from the battle due to fear (as a coward).
  4. येषां च बहुमत: भूत्वा = to them in whose minds you attained an esteem
  5. त्वम् लाघवम् यास्यसि = Those, who held you in high regard would think little of you.
  6. तव सामर्थ्यं निन्दन्त: अहिताः (महारथाः) तव बहून् अवाच्यवादान् वदिष्यन्ति च = Those (great warriors), denouncing your strength, and who would hold ill will (against you) (as a result of their diminished respect) will give expression to many unspeakable contentions about you.
  7. तत: दुःखतरं नु किम् = What is more sorry than that ?

अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we set the verse in four quarters –

अकीर्तिं चापि भूतानि । वर्णाः ८
कथयिष्यन्ति तेऽव्ययाम् । वर्णाः ८
संभावितस्य चाकीर्तिर्। वर्णाः ८
मरणादतिरिच्यते ।। वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अधिकं विवरणम् अनावश्यकम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

५-१ In these shloka-s we see the third stage of arguments from the sequence

  1. आत्मा is indestructible; deaths are of only the bodies and not to be grieved about
  2. A righteous war is a God-sent opportunity for a क्षत्रिय
  3. (now, in these verses) if he does not fight he will acquire loss of fame and sin.

५-२ Study of verbs is very important in studying Sanskrit. This gets underlined by –

  • As detailed at १५-३ the verb मन् has declensions in three different गण-s and has many subtle shades of meaning. But मत as भूतकालवाचकं विशेषणम् is common to all. So, मत should then be interpreted in all the relevant shades of meaning.
  • As detailed at २२-२ “हित” is भूतकालवाचकं विशेषणम् from two different verbs हि and धा.
  • This study of गीता dwelling on the grammar and etymology of every word helps to explore various shades of meaning. By that, it certainly becomes unique and charming !

५-३ अर्जुन and श्रीकृष्ण have relationship at various levels. श्रीकृष्ण is friend, philosopher, guide (charioteer !) of अर्जुन. Correspondingly अर्जुन is friend and most beloved and ardent devotee of श्रीकृष्ण. Can श्रीकृष्ण ever think of his most ardent devotee suffering from defamation ? He would caution and alert his devotee in right time.

शुभमस्तु ।

-o-O-o-