Learning together Sanskrit and GeetA (Chapter 2 : Verse 48)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 48)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः
अध्ययनस्य (अध्याय २ श्लो: ४८) पञ्च-पञ्चाशत्तमः (५५) सोपानः ।

हरिः ॐ !

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||२-४८||
सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा –
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
सिद्धि-असिद्ध्योः समः भूत्वा समत्वं योगः उच्यते ||२-४८||

अत्र सन्धयः –>

  1. सिद्ध्यसिद्ध्योः = सिद्धि-असिद्ध्योः (स्वर-संधिः)
  2. समो भूत्वा = समः भूत्वा (विसर्ग-संधिः)
  3. योग उच्यते = योगः उच्यते (विसर्ग-संधिः)

अन्वयाः

  1. धनंजय, सङ्गं त्यक्त्वा,
  2. सिद्ध्यसिद्ध्योः  समः भूत्वा,
  3. योगस्थः कर्माणि कुरु ।
  4. समत्वं योगः (इति) उच्यते ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम् वा संबोधनम् संबन्ध-सूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् क्रियाविशेषणानि इतरे शब्दाः वाक्यांशस्य प्रकारः
धनंजय सङ्गं त्यक्त्वा गौणः
सिद्ध्यसिद्ध्योः  समः भूत्वा गौणः
योगस्थः (त्वम्)  कर्माणि कुरु प्रधान:
समत्वं योगः (इति) उच्यते प्रधान:

३ समासानां विग्रहाः शब्दानां व्युत्पत्तयः  विश्लेषणानि च ।

धनंजय, सङ्गं त्यक्त्वा

१ धनंजय – “धनंजय” इति सामासिकं पुंल्लिङ्गि नाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • १-१ धने जयः यस्य सः धनंजयः (बहुव्रीहिः) ।
  • १-२ धने – “धन” (= wealth, glory ) इति नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • १-३ जयः – “जि” इति धातुः । तस्मात् पुंल्लिङ्गि नाम “जय” (= victory) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • १-३-१ “जि” इति भ्वादि (१) अनिट् परस्मैपदी धातुः । जि जये (जि = to win) ।
    • १-३-२ जि अभिभवे (जि = to overpower) ।
  • १-४ धनञ्जय = One, who has won wealth or glory.
    • १-४-१ I think as an epithet of अर्जुन, ‘one who has won glory’ becomes a more appropriate meaning of धनञ्जय.
    • १-४-२ धनञ्जय = ‘one, who has overpowered crave for wealth’ also becomes an appropriate meaning.

२ सङ्गं – “सम् + गम्” इति भ्वादि (१) अनिट् परस्मैपदी धातुः । गम्लृ गतौ (गम् = to go) । तस्मात् पुंल्लिङ्गि नाम “सङ्ग” (= going with, keeping company, having attachment) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३ त्यक्त्वा – “त्यज्” इति भ्वादि (१) अनिट् परस्मैपदी धातुः । त्यज हानौ (त्यज् = to forsake) । तस्मात् त्वान्तं अव्ययात्मकं कृदन्तं त्यक्त्वा (= on forsaking) ।

सिद्ध्यसिद्ध्योः समः भूत्वा

४ सिद्ध्यसिद्ध्योः “सिद्ध्यसिद्धि” इति सामासिकं नाम । तस्य षष्ठी अथवा सप्तमी विभक्तिः द्विवचनम् च ।

  • ४-१ सिद्धिः च असिद्धिः च सिद्ध्यसिद्धि (इतरेतर-द्वंद्वः) –> तयोः (षष्ठी विभक्तिः द्विवचनम्) ।
  • ४-२ सिद्धिः – “सिध्” इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “सिद्धि” (= attainment, fulfillment) ।
    • ४-२-१ “सिध्” इति भ्वादि (१) सेट् परस्मैपदी धातुः । षिध गत्याम् (सिध् = to move, to attain) । षिधू शास्त्रे माङ्गल्ये च (सिध् = to set up, to systematize) ।
    • ४-२-२ “सिध्” इति दिवादि (४) अनिट् परस्मैपदी धातुः । षिधु संराद्धौ (सिध् = to attain, to fulfill) ।

५ समः – “सम” (= equal) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

६ भूत्वा – “भू” इति भ्वादि (१) सेट् परस्मैपदी धातुः । भू सत्तायाम् (भू = to be, to become) । तस्मात् त्वान्तं अव्ययात्मकं कृदन्तं भूत्वा (= on being) ।

योगस्थः कर्माणि कुरु ।

७ योगस्थः – “योगस्थ” इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ७-१ योगे तिष्ठति इति योगस्थः (उपपद-तत्पुरुषः) । “स्थ”-इति “तिष्ठति”-इत्यर्थकं उपपदम् ।
  • ७-२ योगे – “युज्” इति धातुः । तस्मात् पुंल्लिङ्गि नाम “योग” । तस्य सप्तमी विभक्तिः एकवचनम् च ।
    • ७-२-१ “युज्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः । युज समाधौ (युज् = to meditate) ।
    • ७-२-२ “युज्” इति रुदादि (७) अनिट् उभयपदी धातुः । युजिर् योगे (युज् = to join) ।
    • ७-२-३ “युज्” इति चुरादि (१०) सेट् उभयपदी धातुः । युज संयमने (युज् = to control, to regulate) ।
  • ७-३ तिष्ठति – “स्था” इति भ्वादि (१) अनिट् परस्मैपदी धातुः । ष्ठा गतिनिवृत्तौ (स्था = to stand, to halt, to stop, to stand still) । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।
    • The phrase गतिनिवृत्तौ used in धातुपाठ for the meaning of the verb स्था is interesting. By this phrase desisting from motion. That also requires effort. Hence in his laws of motion, Newton defined force which will disturb a body from its “state of rest or of uniform motion”.
    • I wonder whether गतिनिवृत्ति would also cover “not disturbing uniform motion” also. So, does गतिनिवृत्ति mean zero velocity or zero acceleration ?
  • ७-४ योगस्थः = One who has steadied himself in योग.
    • Considering various shades of meaning, it seems that at least in the context of योग, गतिनिवृत्ति means zero acceleration. Because योग does not mean zero velocity !
    • Even the advice here is “योगस्थः कर्माणि कुरु”, which certainly is not zero velocity !
    • This actually takes us to the definition of योग. It would be good to detail this under “Notes and Comments टिप्पण्यः”

८ कर्माणि – “कृ” -इति तनादि (८) उभयपदी धातुः ।  तस्मात् नपुंसकलिङ्गि नाम “कर्मन्” (= work, job, action, task, function। तस्य (अत्र) द्वितीया विभक्तिः बहुवचनम् ।

९ कुरु – “कृ” -इति तनादि (८) उभयपदी धातुः । अत्र परस्मैपदी । तस्य लोट्-आज्ञार्थे मध्यमपुरुषे एकवचनम् ।

समत्वं योगः (इति) उच्यते

१० समत्वम् – “सम” (= equal, equal to) इति विशेषणम् । तस्मात् त्व-प्रत्ययेन तद्धितं नपुंसकलिङ्गि नाम “समत्व” (= equanimity) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
११ उच्यते – “वच्” इति अदादि (२) उभयपदी धातुः । वच परिभाषणे (वच् = to say, to call) । अत्र कर्मणिप्रयोगे वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

Overall meaning of समत्वं योगः (इति) उच्यते = Equanimity is called as योग.

४ वाक्यांशशः अनुवादाः Translations –

  1. धनंजय, सङ्गं त्यक्त्वा = Hey Dhanajaya (Arjuna), by forsaking all attachments
  2. सिद्ध्यसिद्ध्योः  समः भूत्वा = by being equal (i.e. equanimous) between fulfillment or non-fulfillment
  3. योगस्थः कर्माणि कुरु = By being steadfast in योग do the tasks
  4. समत्वं योगः (इति) उच्यते = Equanimity is (itself) called as योग.

५ Meter of this verse वृत्तम् (छन्दः वा)
To decipher the meter we set the verse in four quarters –

योगस्थः कुरु कर्माणि । वर्णाः ८
सङ्गं त्यक्त्वा धनंजय । वर्णाः ८
सिद्ध्यसिद्ध्योः समो भूत्वा । वर्णाः ८
समत्वं योग उच्यते । वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

Section 5 Comments, Notes, Observations, if any.

५ – टिप्पण्य: Notes –

५-१ The word योग certainly has many shades of meaning and many definitions. समत्वं योग उच्यते is one definition we come across in this श्लोक. Further on in this second chapter we shall come across another definition योगः कर्मसु कौशलम्. Almost everybody is familiar with योगसूत्राणि of पातञ्जलि which opens with his definition योगः चित्तवृत्तिनिरोधः Of course what is mentioned here as समत्वं, does demand चित्तवृत्तिनिरोधः or समत्वं is one type of or one stage of or one aim of चित्तवृत्तिनिरोधः and hence of योग.

५-२ All the words as सिद्धि, योग, कर्म, कौशलम् are rich with so many shades of meaning that it becomes challenging to grasp the full import of this definition here समत्वं योग उच्यते. Basically however, this definition demands training of one’s mind to be equanimous.

५-३ The focus here seems to be on attainment सिद्धि. This word सिद्धि implies a preset objective. Failure to attain the preset objective would cause the mental agony due to non-attainment i.e, असिद्धि. That raises a question whether one should conceive any सिद्धि, an aim, a goal, a target and then work towards attaining it. Having preset goals can also be termed akin to embarking on an action plan with a संकल्प. This is another aspect, which also is dealt with in गीता.

५-४ We shall come across this word संकल्प in 6-2 and further on also. But the mention of सिद्धि and असिद्धि here also imply that context. What is said about संकल्प in 6-2 will come in our study in due course.

शुभमस्तु ।
-o-O-o-
Advertisements