अथ श्रीमद्भगवद्गीतायाः चतुर्थाध्यायस्य गद्याभ्यासः

Prosaic study of fourth chapter of श्रीमद्भगवद्गीता

अथ चतुर्थोऽध्यायः ।

अथ चतुर्थः अध्यायः


श्रीभगवानुवाच ।

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ४- १॥
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥ ४- २॥
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ४- ३॥

(1) श्री-भगवान् उवाच – इमम् अव्ययम् योगम् अहम् विवस्वते प्रोक्तवान् | विवस्वान् मनवे प्राह | मनुः इक्ष्वाकवे अब्रवीय् ॥४-१॥ एवम् राजर्षयः इमम् परम्परा-प्राप्तम् विदुः | परम्-तप सः योगः इह महता कालेन नष्टः ॥४-२॥ सः एव अयम् पुरातनः योगः अद्य मया मे भक्तः सखा च असि इति ते प्रोक्तः | एतद् उत्तमम् रहस्यम् ॥४-३॥

अर्जुन उवाच ।
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४- ४॥

(2) अर्जुनः उवाच – भवतः जन्म अ-परम् | विवस्वतः जन्म परम् | त्वम् आदौ प्रोक्तवान् इति एतत् कथम् विजानीयाम् ? ॥४-४॥

श्रीभगवानुवाच ।
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ४- ५॥

(3) श्री-भगवान् उवाच – अर्जुन मे तव च बहूनि जन्मानि व्यतीतानि | परम्-तप अहम् सर्वाणि वेद | त्वम् न वेत्थ ॥४-५॥

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ४- ६॥

(4) अजः सन् अपि, अव्यय-आत्मा भूतानाम् ईश्वरः सन् अपि प्रकृतिम् स्वाम् अधिष्ठाय (अथवा स्वाम् प्रकृतिम् अधिष्ठाय) आत्म-मायया संभवामि ॥४-६॥

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४- ७॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४- ८॥

(5) भारत यदा यदा हि धर्मस्य ग्लानिः अ-धर्मस्य उत्थानम् भवति तदा अहम् आत्मानम् सृजामि ॥४-७॥ साधूनाम् परित्राणाय दुष्-कृताम् विनाशाय च धर्म-संस्थापनाय (च) युगे युगे संभवामि ॥४-८॥

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ४- ९॥

(6) अर्जुन, एवम् मे जन्म कर्म च दिव्यम् (इति) यः तत्त्वतः वेत्ति सः देहम् त्यक्त्वा पुनः जन्म न एति, माम् एति |

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ ४- १०॥

(7) वीत-राग-भय-क्रोधाः, मत्-मयाः, माम् उपाश्रिताः, बहवः ज्ञान-तपसा पूताः मत-भावम् आगताः (सन्ति) |

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।

(8) ये यथा मां प्रपद्यन्ते तान् तथा एव अहम् भजामि ॥४-११(अ)॥

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ४- ११॥

(9) पार्थ मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते ॥४-११(आ)॥

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ ४- १२॥

(10) कर्मणाम् सिद्धिम् काङ्क्षन्ताः इह देवताः यजन्ते | हि मानुषे लोके कर्मजा सिद्धिः क्षिप्रम् भवति ॥४-१२॥

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ ४- १३॥

(11) मया चातुर्-वर्ण्यम् गुण-कर्म-विभागशः सृष्टम् (अथवा) | तस्य कर्तारम् अपि माम् विद्धि | (तस्य) अ-कर्तारम् (अपि माम्) अव्ययम् विद्धि ॥४-१३॥

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ४- १४॥
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ४- १५॥

(12) कर्माणि माम् न लिम्पन्ति | मे कर्म-फले स्पृहा न (भवति) | इति यः माम् अभिजानाति, सः कर्मभिः न बध्यते ॥४-१४॥ पूर्वैः मुमुक्षिभिः अपि एवम् ज्ञात्वा कर्म कृतम् | तस्मात् त्वम् पूर्वैः कृतम् कर्म एव पूर्वतरम् कुरु ॥४-१५॥

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४- १६॥
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ ४- १७॥
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ४- १८॥

(13) किम् कर्म किम् अ-कर्म इति अत्र कवयः अपि मोहिताः | तत् कर्म ते प्रवक्ष्यामि, यत् ज्ञात्वा अ-शुभात् मोक्ष्यसे ॥४-१६॥ हि (कर्म) कर्मणः अपि बोद्धव्यम्, वि-कर्मणः च बोद्धव्यम्, अ-कर्मणः च बोद्धव्यम् | कर्मणः गतिः गहना ॥४-१७॥ यः कर्मणि अ-कर्म पश्येत्, यः च अ-कर्मणि कर्म (पश्येत्), सः मनुष्येषु बुद्धिमान्, सः कृत्स्न-कर्म-कृत् युक्तः (च) ॥४-१८॥

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ ४- १९॥
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ ४- २०॥
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४- २१॥
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ४- २२॥
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ ४- २३॥

(14) यस्य सर्वे सम्-आरम्भाः काम-संकल्प-वर्जिताः बुधाः तम् ज्ञान-अग्नि-दग्ध-कर्माणम् पण्डितम् आहुः ॥४-१९॥ (यः) कर्म-फल-आसङ्गम् त्यक्त्वा नित्य-तृप्तः निर्-आश्रयः सः कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति ॥४-२०॥ निर्-आशीः यत्-चित्त-आत्मा त्यक्त-सर्व-परिग्रहः केवलम् शारीरम् कर्म कुर्वन् किल्बिषम् न आप्नोति ॥४-२१॥ यदृच्छा-लाभ-सन्तुष्टः द्वन्द्व-अतीतः वि-मत्सरः सिद्धौ अ-सिद्धौ च समः कृत्वा अपि न निबध्यते ॥४-२२॥ गत-सङ्गस्य मुक्तस्य ज्ञान-अवस्थित-चेतसः यज्ञाय आचरतः कर्म सम्-अग्रम् प्रविलीयते ॥४-२३॥

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ४- २४॥

(15) अर्पणम् ब्रह्म हविः ब्रह्म ब्रह्मणा ब्रह्म-अग्नौ हुतम् | तेन ब्रह्म-कर्म-समाधिना ब्रह्म एव गन्तव्यम् (भवति) ॥४-२४॥

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ ४- २५॥

(16) अपरे योगिनः दैवम् यज्ञम् एव पर्युपासते | अपरे यज्ञेन यज्ञम् ब्रह्म-अग्नौ उपजुह्वति ॥४-२५॥

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ ४- २६॥
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ४- २७॥

(17) अन्ये श्रोत्र-आदीनि इन्द्रियाणि संयम-अग्निषु जुह्वति | अन्ये शब्द-आदीन् विषयान् इन्द्रिय-अग्निषु जुह्वति ॥४-२६॥ अपरे सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च ज्ञान-दीपिते आत्म-संयम-योग-अग्नौ जुह्वति ॥४-२७॥

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ४- २८॥
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४- २९॥
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ४- ३०॥
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।

(18) अपरे द्रव्य-यज्ञाः तपो-यज्ञाः योग-यज्ञाः स्व-अध्याय-ज्ञान-यज्ञाः च संशित-व्रताः यतयः प्राणम् अपाने जुह्वति | तथा अपरे अपानम् प्राणे जुह्वति ॥४-२८॥+॥४-२९(अ)॥ अपरे नियत-आहाराः प्राण-आयाम-परायणाः प्राण-अपान-गती रुद्ध्वा प्राणान् प्राणेषु जुह्वति ॥४-२९(आ)॥+॥४-३०(अ)॥ एते सर्वे अपि यज्ञ-विदः यज्ञ-क्षपित-कल्मषाः यज्ञ-शिष्ट-अमृत-भुजः सनातनम् ब्रह्म यान्ति ॥४-३०(आ)॥+॥४-३१(अ)॥

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ४- ३१॥

(19) कुरु-सत्-तम अ-यज्ञस्य अयम् लोकः न अस्ति, अन्यः कुतः ॥४-३१(आ)॥

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ४- ३२॥

(20) एवम् बहुविधाः यज्ञाः ब्रह्मणः मुखे वितताः | तान् सर्वान् कर्म-जान् विद्धि | एवम् ज्ञात्वा विमोक्ष्यसे ॥४-३२॥

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ४- ३३॥

(21) परम्-तप द्रव्य-मयात् यज्ञात् ज्ञान-यज्ञः श्रेयान् | पार्थ सर्वम् अखिलम् कर्म ज्ञाने परिसमाप्यते (अथवा) पार्थ सर्वम् कर्म ज्ञाने अखिलम् परिसमाप्यते ॥४-३३॥

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ४- ३४॥
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ४- ३५॥ var अशेषाणि

(22) तत् (ज्ञानम्) प्रणिपातेन परिप्रश्नेन सेवया विद्धि ॥४-३४(अ)॥ ज्ञानिनः तत्त्वदर्शिनः ते (तत्) ज्ञानम् उपदेक्ष्यन्ति, यत् ज्ञात्वा पाण्डव एवम् मोहम् पुनः न यास्यसि, येन भूतानि अ-शेषेण आत्मनि द्रक्ष्यसि यथा उ मयि (द्रक्ष्यसि) (अथवा) येन अ-शेषाणि भूतानि आत्मनि द्रक्ष्यसि यथा उ मयि (द्रक्ष्यसि) ॥४-३४(आ)॥+॥४-३५॥

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४- ३६॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४- ३७॥
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४- ३८॥

(23) सर्वेभ्यः पापेभ्यः पाप-कृत्-तमः अपि असि चेत् सर्वम् वृजिनम् ज्ञान-प्लवेन एव सन्तरिष्यसि ॥४-३६॥ अर्जुन यथा समिद्धः अग्निः एधांसि भस्मसात् कुरुते तथा ज्ञान-अग्निः सर्व-कर्माणि भस्मसात् कुरुते ॥४-३७॥ ज्ञानेन सदृशम् पवित्रम् इह न हि विद्यते | योग-संसिद्धः कालेन तत् स्वयम् आत्मनि विन्दति ॥४-३८॥

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४- ३९॥

(24) श्रद्धावान् तत्-परः संयत-इन्द्रियः ज्ञानम् लभते | ज्ञानम् लब्ध्वा अ-चिरेण पराम् शान्तिम् अधिगच्छति ॥४-३९॥

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४- ४०॥

(25) अ-ज्ञः च अ-श्रद्-दधानः च संशय-आत्मा विनश्यति | संशय-आत्मनः अयम् लोकः न अस्ति, न परः (लोकः अस्ति) न सुखम् (अस्ति) ॥४-४०॥

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४- ४१॥
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४- ४२॥

(26) धनञ्जय योग-संन्यस्त-कर्माणम् ज्ञान-सञ्छिन्न-संशयम् आत्मवन्तम् कर्माणि न निबध्नन्ति ॥४-४१॥ तस्मात् भारत अ-ज्ञान-संभूतम् हृत्-स्थम् एनम् आत्मनः संशयम् ज्ञान-असिना छित्वा उत्तिष्ठ, योगम् आतिष्ठ ॥४-४२॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४॥

(27) ॐ तत् सत् | इति श्रीमत्-भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे (अयम्) चतुर्थः अध्यायः नाम ज्ञान-कर्म-संन्यास-योगः | 

शुभमस्तु !

-o-O-o-

 

Advertisements

अथ पञ्चमाध्यायस्य गद्याभ्यासः

Prosaic study of 5th Chapter

(पदच्छेदान्वयसहितः परिच्छेदान्वितः)

With detailing of words and word-components, syntactical rearrangement and paraphrasing

अर्जुन उवाच ।

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ।।५-१।।

(१) अर्जुनः उवाच – कृष्ण कर्मणाम् संन्यासम् पुनः योगम् च शंससि | एतयोः यत् एकम् श्रेयः मे तत् सु-निश्चितम् ब्रूहि ।।५-१।।

श्रीभगवानुवाच

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ |

तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ।।५-२।।

(२) श्री-भगवान् उवाच – संन्यासः कर्म-योगः च उभौ निःश्रेयस-करौ | तयोः तु कर्म-संन्यासात् कर्म-योगः विशिष्यते ।।५-२।।

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति |

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ।।५-३।।

(४) महा-बाहो यः न द्वेष्टि न काङ्क्षति सः नित्य-संन्यासी ज्ञेयः | निर्-द्वन्द्वः हि बन्धात् सुखम् प्रमुच्यते ।।५-३।।

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः |

एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ।।५-४।।

यत्सांख्यैः प्राप्यते ज्ञानंस्तद्योगैरपि गम्यते |

एकं सांख्यं च योगं च यः पश्यति स पश्यति ।।५-५।।

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५-६॥

(५) सांख्य-योगौ पृथक् (इति) बालाः प्रवदन्ति न पण्डिताः | एकम् आस्थितः अपि उभयोः सम्यक् फलम् विन्दते (अथवा) उभयोः एकम् आस्थितः अपि सम्यक् फलम् विन्दते ।।५-४।। यत् ज्ञानम् सांख्यैः प्राप्यते तत् योगैः अपि गम्यते | सांख्यम् च योगम् च एकम् (इति) यः पश्यति सः पश्यति ।।५-५।। महा-बाहो अ-योगतः संन्यासः तु दुःखम् आप्तुम् | मुनिः योग-युक्तः (हि) न-चिरेण ब्रह्म अधिगच्छति ॥५-६॥

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ५- ७॥
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ५- ८॥
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ५- ९॥
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५- १०॥

(६) योग-युक्तः विशुद्ध-आत्मा विजित-आत्मा जित-इन्द्रियः सर्व-भूत-आत्म-भूत-आत्मा कुर्वन् अपि (कर्मभिः) न लिप्यते ॥ ५- ७॥ युक्तः तत्त्व-वित् पश्यन् श्रुण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्ते इति धारयन् न एव किञ्चित् करोमि इति मन्येत ॥ ५- ८॥+॥ ५- ९॥ यः कर्माणि ब्रह्मणि आधाय सङ्गम् त्यक्त्वा करोति सः पद्म-पत्रम् अम्भसा न लिप्यते इव पापेन (न लिप्यते) ॥ ५- १०॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ५- ११॥
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ ५- १२॥
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ ५- १३॥
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ ५- १४॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ ५- १५॥
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ ५- १६॥
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ ५- १७॥

(७) योगिनः कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि आत्म-शुद्धये सङ्गम् त्यक्त्वा कर्म कुर्वन्ति ॥५-११॥ युक्तः कर्म-फलम् त्यक्त्वा नैष्ठिकीम् शान्तिम् आप्नोति | अ-युक्तः काम-कारेण फले सक्तः निबध्यते ॥५-१२॥ देही वशी (च) सर्व-कर्माणि मनसा नव-द्वारे पुरे संन्यस्य न एव कुर्वन् न कारयन् सुखम् आस्ते ॥५-१३॥ प्रभुः लोकस्य न कर्तृत्वम् सृजति न कर्माणि (सृजति) | स्व-भावः तु कर्म-फल-संयोगम् न प्रवर्तते (अथवा) स्व-भावः कर्म-फल-संयोगम् तु न प्रवर्तते ॥५-१४॥ विभुः नादत्ते कस्यचिपं न चैव सुकृतं ।विभुः कस्यचित् पापम् न आदत्ते न च एव सुकृतम् (आदत्ते) । ज्ञानम् अ-ज्ञानेन आवृतम् (भवति) | तेन जन्तवः मुह्यन्ति ॥५-१५॥ येषाम् तु तत् अज्ञानम् आत्मना ज्ञानेन नाशितम् तेषाम् तत् परम् ज्ञानम् आदित्यवत् प्रकाशयति ॥५-१६॥ तत्-बुद्धयः तत्-आत्मानः तत्-निष्ठाः तत्-परायणाः ज्ञान-निर्-धूत-कल्मषाः अ-पुनर्-आवृत्तिम् गच्छन्ति ॥५-१७॥

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५- १८॥
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ ५- १९॥
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥५-२०॥

(८) पण्डिताः विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि च श्वपाके च एव समदर्शिनः ॥५-१८॥ येषाम् मनः साम्ये स्थितम् तैः इह एव सर्गः जितः | ब्रह्म निर्दोषम् समम् हि | तस्मात् ते ब्रह्मणि स्थिताः (भवन्ति) ॥५-१९॥ स्थिर-बुद्धिः अ-सम्मूढः ब्रह्म-विद् ब्रह्मणि स्थितः प्रियम् प्राप्य न प्रहृष्येत् अ-प्रियम् प्राप्य न उद्विजेत् च ॥५-२०॥

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ ५- २१॥
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५- २२॥
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ ५- २३॥
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ ५- २४॥
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ ५- २५॥
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ ५- २६॥

(९) यत् बाह्य-स्पर्शेषु अ-सक्त-आत्मा आत्मनि सुखम् विन्दति, सः ब्रह्म-योग-युक्त-आत्मा अक्षयम् सुखम् अश्नुते ॥५-२१॥ कौन्तेय, ये हि भोगाः संस्पर्श-जाः ते दुःख-योनयः आदि-अन्तवन्तः एव | तेषु बुधः न रमते ॥५-२२॥ यः शरीर-विमोक्षणात् प्राक् काम-क्रोध-उद्भवम् वेगम् इह एव सोढुम् शक्नोति सः नरः युक्तः सः सुखी ॥५-२३॥ यः अन्तः-सुखः अन्तर्-आरामः तथा यः अन्तर्-ज्योतिः एव सः योगी ब्रह्म-भूतः ब्रह्म-निर्वाणम् अधिगच्छति ॥५-२४॥ क्षीण-कल्मषाः छिन्न-द्वैधाः यत-आत्मानः सर्व-भूत-हिते रताः ऋषयः ब्रह्म-निर्वाणम् लभन्ते ॥५-२५॥ काम-क्रोध-वियुक्तानाम् यत-चेतसाम् विदित-आत्मनाम् यतीनाम् ब्रह्म-निर्वाणम् अभितः वर्तते ॥५-२६॥

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ ५- २७॥
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ ५- २८॥
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ५- २९॥

(१०) यः मुनिः सदा बाह्यान् स्पर्शान् बहिः कृत्वा, चक्षुः च भ्रुवोः अन्तरे एव (कृत्वा), नास-अभ्यन्तर-चारिणौ प्राण-अपानौ समौ कृत्वा, यत-इन्द्रिय-मनो-बुद्धिः मोक्ष-परायणः विगत-इच्छा-भय-क्रोधः सः मुक्तः एव ॥५-२७॥+॥५-२८॥ (सः) माम् यज्ञ-तपसाम् भोक्तारम्, सर्व-लोक-महा-ईश्वरम्, सर्व-भूतानाम् सु-हृदम् (इति) ज्ञात्वा शान्तिम् ऋच्छति ॥५-२९॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५॥

(११) ॐ तत् सत् | इति श्रीमत्-भगवत-गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे (अयम्) पञ्चमः अध्यायः नाम कर्म-संन्यास-योगः ॥५॥

शुभमस्तु !

-o-O-o-

अथ अष्टमाध्यायस्य गद्याभ्यासः

Prosaic study of 8th Chapter

(पदच्छेदान्वयसहितः परिच्छेदान्वितः)

With detailing of words and word-components, syntactical rearrangement and paraphrasing

अर्जुन उवाच ।
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ ८- १॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ ८- २॥

(1) अर्जुनः उवाच – पुरुषोत्तम तत् ब्रह्म किम् ? अध्यात्मम् किम् ? कर्म किम् ? किम् अधिभूतम् (इति) प्रोक्तम् ? किम् अधिदैवम् (इति) उच्यते ? ॥८-१॥ मधुसूदन अत्र अस्मिन् देहे अधियज्ञः कः कथम् ? प्रयाण-काले च नियत-आत्मभिः कथम् ज्ञेयः असि ? ॥८-२॥

श्रीभगवानुवाच ।
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ८- ३॥
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ८- ४॥
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ८- ५॥

(2) श्री-भगवान् उवाच – ब्रह्म अक्षरम् परमम् | स्व-भावः अध्यात्मम् उच्यते | भूत-भाव-उद्भव-करः विसर्गः कर्म-संज्ञितः ॥८-३॥ अधिभूतम् (तु) क्षरः भावः | पुरुषः च अधिदैवतम् | (भोः) देहभृताम् वर अत्र देहे अहम् एव अधियज्ञः ॥८-४॥ अन्तकाले च यः माम् एव स्मरन् कलेवरम् मुक्त्वा प्रयाति सः मत्-भावम् याति | अत्र संशयः न अस्ति ॥८-५॥

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ८- ६॥
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ८- ७॥ or असंशयम्

(3) कौन्तेय यम् यम् अपि भावम् अन्ते स्मरन् कलेवरम् त्यजति वा सदा तत्-भाव-भावितः तम् तम् एव (भावम्) एति ॥८-६॥ तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मयि अर्पित-मनो-बुद्धिः अ-संशयः (/अ-संशयम्) माम् एव एष्यसि ॥८-७॥

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८- ८॥

(4) पार्थ अभ्यास-योग-युक्तेन न-अन्य-गामिना चेतसा अनुचिन्तयन् परमम् दिव्यम् पुरुषम् याति ॥८-८॥

कविं पुराणमनुशासितारमणोरणीयं समनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ८- ९॥
प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ ८- १०॥

(5) यः भक्त्या युक्तः प्रयाण-काले अ-चलेन मनसा योग-बलेन च एव भ्रुवोः मध्ये प्राणम् आवेश्य कविम् पुराणम् अनुशासितारम् अणोः अणीयम् सम्यक् सम्-अनुस्मरेत् सः तम् सर्वस्य धातारम् अ-चिन्त्य-रूपम् आदित्य-वर्णम् तमसः परस्तात् दिव्यम् परम् पुरुषम् उप-एति ॥८-९॥+॥८-१०॥

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ८- ११॥

(6) वेद-विदः यत् अक्षरम् वदन्ति वीत-रागाः यतयः यत् विशन्ति यत्-इच्छन्तः ब्रह्म-चर्यम् चरन्ति तत् पदम् (अहम्) ते संग्रहेण प्रवक्ष्ये ॥८-११॥

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८- १२॥
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८- १३॥

(7) यः सर्व-द्वाराणि संयम्य मनः हृदि निरुध्य च आत्मनः प्राणम् मूर्ध्नि आधाय योग-धारणाम् आस्थितः ॐ-इति एक-अक्षरम् ब्रह्म व्याहरन् माम् अनुस्मरन् देहम् त्यजन् प्रयाति सः परमाम् गतिम् याति ॥८-१२॥+॥८-१३॥

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ८- १४॥

(8) पार्थ यः सततम् अन्-अन्य-चेताः नित्यशः माम् स्मरति तस्य नित्य-युक्तस्य योगिनः अहम् सु-लभः ॥८-१४॥

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ ८- १५॥
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ८- १६॥

(9) माम् उपेत्य परमां संसिद्धिं गताः महा-आत्मानः दुःख-आलयम् अ-शाश्वतम् पुनर्-जन्म न आप्नुवब्ति ॥८-१५॥ अर्जुन आ-ब्रह्म-भुवनात् लोकाः पुनर्-आवर्तिनः | कौन्तेय माम् उपेत्य तु पुनर्-जन्म न विद्यते ॥८-१६॥

सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ८- १७॥
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ८- १८॥
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ ८- १९॥

(10) यत् ब्रह्मणः सहस्र-युग-पर्यन्तम् अहः युग-सहस्र-अन्ताम् रात्रिम् (ये) विदुः ते जनाः अहो-रात्र-विदः ॥८-१७॥ अहर्-आगमे सर्वाः व्यक्तयः अ-व्यक्तात् प्रभवन्ति | रात्रि-आगमे तत्र एव अ-व्यक्त-संज्ञके प्रलीयन्ते ॥८-१८॥ पार्थ सः एव अयम् अ-वशः भूत-ग्रामः भूत्वा भूत्वा रात्रि-आगमे प्रलीयते अहर्-आगमे प्रभवति ॥८-१९॥

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८- २०॥
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ ८- २१॥
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ ८- २२॥

(11) तस्मात् तु परः यः अन्यः अव्यक्तात् सनातनः अ-व्यक्तः भावः सः सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥८-२०॥ अव्यक्तः अक्षरः इति उक्तः | तम् परमाम् गतिम् आहुः | यम् प्राप्य न निवर्तन्ते तत् मम परमम् धाम ॥८-२१॥ पार्थ भूतानि यस्य अन्तःस्थानि येन इदम् सर्वम् ततम् सः परः पुरुषः तु अन्-अन्यया भक्त्या लभ्यः ॥८-२२॥

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ ८- २३॥
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ ८- २४॥
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ ८- २५॥
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ ८- २६॥
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ ८- २७॥

(12) भरत-ऋषभ प्रयाताः योगिनः तु यत्र काले अन-आवृत्तिम् आवृत्तिम् च यान्ति तम् कालम् वक्ष्यामि ॥८-२३॥ अग्निः ज्योतिः अहः शुक्लः उत्तर-अयनम् (इति) षण्-मासाः तत्र प्रयाताः ब्रह्म-विदः जनाः ब्रह्म गच्छन्ति ॥८-२४॥ धूमः रात्रिः तथा कृष्णः दक्षिण-अयनम् (इति) षण्-मासाः तत्र योगी चान्द्रमसम् ज्योतिः प्राप्य निवर्तते ॥८-२५॥ एते हि शुक्ल-कृष्णे गती जगतः शाश्वते मते | एकया (जगत्) अन्-आवृत्तिम् याति अन्यया पुनः आवर्तते ॥८-२६॥ पार्थ एते सृती जानन् कश्चन योगी न मुह्यति | अर्जुन तस्मात् सर्वेषु कालेषु योग-युक्तः भव ॥८-२७॥

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ ८- २८॥

(13) यत् एव पुण्य-फलम् वेदेषु यज्ञेषु तपःसु दानेषु च प्रदिष्टम् तत् सर्वम् इदम् अत्येति (इति) विदित्वा योगी परम् आद्यम् च स्थानम् उपैति ॥८-२८॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८॥

(14) ॐ तत् सत् | इति श्रीमत्-भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे (अयम्) अष्टमः अध्यायः नाम अक्षर-ब्रह्म-योगः ॥८॥

शुभमस्तु |

-o-O-o-

Prosaic study of chapter 3

Prosaic study of chapter 3

तृतीयाध्यायस्य गद्याभ्यासः

Having done पदच्छेद-s, शब्द-विश्लेषणानि, अन्वय-s etc., for the first and second chapters, it just came to mind to attempt doing पदच्छेद-s and अन्वय-s together and see how the entire chapter would read as a fluent prose. This prosaic study गद्याभ्यासः certainly has some flavor of its own.

Although I am giving the श्लोक-s, one may skip reading them and read only the prose. Or one can keep an eye on the one-to-one correspondence between the श्लोक-s and their prose rendering.

Actually श्लोक-s 3 to 35 is a continuous narration by श्री-भगवान्. But I thought it good to paraphrase that as

  1. श्लोक-s 3 to 9
  2. श्लोक-s 10, 11, 12, 13
  3. श्लोक-s 14, 15, 16
  4. श्लोक-s 17, 18, 19
  5. श्लोक-s 20- to 24
  6. श्लोक-s 25 to 29
  7. श्लोक 30
  8. श्लोक-s 31, 32 and first line of 33
  9. Second line of 33 and श्लोक 34
  10. श्लोक 35

I have continued with such paraphrasing for further श्लोक-s also.

  1. श्लोक 36 by itself, since it is a question by अर्जुन.
  2. श्लोक-s 37 to 41
  3. श्लोक 42
  4. श्लोक 43

I have done the paraphrasing thinking that one does employ paraphrasing in a prose text, when there is some shift of theme. Readers are welcome to disagree, however, if they would differ on where the shift of theme is happening.

Since I started this blog as a study of Sanskrit and गीता together, what is missing here is grammatical analysis of words, including deciphering compound words. However, in पदच्छेद-s, I have identified the component words, which itself makes interesting reading, and provokes exploring the meaning e.g. जनार्दन = जन-अर्दन, निराशीः = निर्-आशीः, निर्ममः = निर्-ममः I also think it good to also split अन्-अघ, अ-कर्म-कृत्, which also provoke understanding the meaning as much more appropriately.

I have been also putting down my own notes and comments. If I should do all that in this post itself, it will become too long. Maybe, I shall do that in additional post(s). On the whole, however, by this approach, number of posts for each chapter should become much less. Let us see.

अथ तृतीयोऽध्यायः

अथ तृतीयः अध्यायः |

अर्जुन उवाच |

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३-१॥

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३-२॥

अर्जुनः उवाच – जन-अर्दन केशव ते मता बुद्धिः कर्मणः ज्यायसी चेत् तत् किम् माम् घोरे कर्मणि नियोजयसि ॥३-१॥ व्यामिश्रेण इव वाक्येन मे बुद्धिम् मोहयसि इव | येन अहम् श्रेयः आप्नुयाम् तत् एकं निश्चित्य वद ॥३-२॥

श्रीभगवानुवाच ।

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥३-३॥

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।

न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ३- ४॥
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ३- ५॥
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ३- ६॥
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ३- ७॥
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ३- ८॥
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ३- ९॥

श्री-भगवान् उवाच – अन्-अघ पुरा मया अस्मिन् लोके ज्ञान-योगेन साङ्ख्यानां कर्म-योगेन योगिनाम् (इति) द्वि-विधा निष्ठा प्रोक्ता ॥३-३॥ कर्मणाम् अन्-आरम्भात् पुरुषः नैष्कर्म्यम् न अश्नुते | न च संन्यसनात् एव (पुरुषः) सिद्धिम् सम्-अधिगच्छति ॥३-४॥ जातु सर्वः अ-वशः | कश्चित् क्षणम् अपि अ-कर्म-कृत् न हि तिष्ठति | कर्म प्रकृति-जैः गुणैः हि कार्यते ॥३-५॥ यः कर्म-इन्द्रियाणि संयम्य मनसा इन्द्रिय-अर्थान् स्मरन् आस्ते सः विमूढ-आत्मा मिथ्या-आचारः उच्यते ॥३-६॥ अर्जुन यः तु इन्द्रियाणि मनसा नियम्य कर्म-इन्द्रियैः कर्म-योगम् असक्तः आरभते सः विशिष्यते ॥३-७॥ नियतं कर्म त्वं कुरु (एव) | अ-कर्मणः कर्म ज्यायः हि | ते शरीर-यात्रा अपि अ-कर्मणः न च प्रसिध्येत् ॥३-८॥ यज्ञ-अर्थात् कर्मणः अन्यत्र अयम् लोकः कर्म-बन्धनः | तत्-अर्थम् कौन्तेय मुक्त-सङ्गः कर्म सम्-आचर ॥३-९॥

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ ३- १०॥
देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ३- ११॥
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ३- १२॥
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ ३- १३॥

पुरा प्रजाः सहयज्ञाः सृष्ट्वा प्रजापतिः उवाच – अनेन प्रसविष्यध्वम् | एषः वः इष्ट-काम-धुक् अस्तु ॥३-१०॥ देवान् अनेन भावयत | ते देवाः वः भावयन्तु | परस्परम् भावयन्तः परम् श्रेयः अवाप्स्यथ ॥३-११॥ यज्ञ-भाविताः देवाः वः इष्टान् भोगान् हि दास्यन्ते | तैः दत्तान् एभ्यः अ-प्रदाय यः भुङ्क्ते सः स्तेनः एव ॥३-१२॥ यज्ञ-शिष्ट-अशिनः सन्तः सर्व-किल्बिषैः मुच्यन्ते | ये पापाः आत्म-कारणात् पचन्ति ते तु अघम् भुञ्जते ॥३-१३॥

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ३- १४॥

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ३- १५॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ ३- १६॥

भूतानि अन्नात् भवन्ति | अन्न-संभवः पर्जन्यात् (भवति) | पर्जन्यः यज्ञात् भवति | यज्ञः कर्म-समुद्भवः (भवति) ॥३-१४॥ विद्धि – कर्म ब्रह्म-उद्भवम् | ब्रह्म अक्षर-समुद्भवम् | तस्मात् सर्वगतम् ब्रह्म नित्यम् यज्ञे प्रतिष्ठितम् ॥३-१५॥ यः इह एवं प्रवर्तितं चक्रं न अनुवर्तयति पार्थ सः अघ-आयुः इन्द्रिय-आरामः मोघम् जीवति ॥३-१६॥

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ ३- १७॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ ३- १८॥
तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ ३- १९॥

यः तु मानवः आत्म-रतिः एव आत्म-तृप्तः च आत्मनि एव सन्तुष्टः च स्यात् तस्य कार्यम् न विद्यते ॥३-१७॥ इह न एव तस्य कृतेन कश्चन अर्थः न अ-कृतेन (कश्चन अर्थः) | न च अस्य सर्व-भूतेषु कश्चित् अर्थ-व्यपाश्रयः ॥३-१८॥ तस्मात् अ-सक्तः सततम् कार्यम् कर्म सम्-आचर | कर्म अ-सक्तः आचरन् पूरुषः हि परम् आप्नोति ॥३-१९॥

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ ३- २०॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ३- २१॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ ३- २२॥
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ३- २३॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ ३- २४॥

जनक-आदयः कर्मणा एव हि संसिद्धिम् आस्थिताः | (त्वम्) अपि सम्पश्यन् एव लोक-संग्रहम् कर्तुम् अर्हसि | (अथवा) लोक-संग्रहम् कर्तुम् अपि (यदि) सम्पश्यन् (तर्हि) एव अर्हसि ॥३-२०॥ यत् यत् श्रेष्ठः आचरति तत् तत् एव इतरः जनः (आचरति) | सः यत् प्रमाणम् कुरुते लोकः तत् अनुवर्तते ॥३-२१॥ पार्थ मे त्रिषु लोकेषु किञ्चन कर्तव्यम् न अस्ति | अन्-अवाप्तम् न (अस्ति) अवाप्तव्यम् च (न अस्ति) | कर्मणि (तु) वर्ते एव ॥३-२२॥ पार्थ जातु हि यदि कर्मणि अतन्द्रितः अहम् न वर्तेयम् मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते ॥३-२३॥ अहम् कर्म न कुर्याम् चेत् इमे लोकाः उत्सीदेयुः | (अहम्) संकरस्य कर्ता स्याम् च | (अहम्) इमाः प्रजाः उपहन्याम् ॥३-२४॥

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ ३- २५॥
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ ३- २६॥
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ ३- २७॥
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ ३- २८॥
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ ३- २९॥

भारत अविद्वांसः कर्मणि सक्ताः यथा कुर्वन्ति तथा (एव) लोकसंग्रहम् चिकीर्षुः विद्वान् असक्तः कुर्यात् ॥३-२५॥ युक्तः सम्-आचरन् (अथवा सम-आचरन्) विद्वान् कर्मसङ्गिनाम् अज्ञानाम् बुद्धि-भेदम् न जनयेत् | सर्व-कर्माणि जोषयेत् ॥३-२६॥ कर्माणि सर्वशः प्रकृतेः गुणैः क्रियमाणानि | अहङ्कार-विमूढ-आत्मा अहम् कर्ता इति मन्यते ॥३-२७॥ महा-बाहो गुण-कर्म-विभागयोः तत्त्व-वित् तु गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ॥३-२८॥ प्रकृतेः गुण-सम्मूढाः गुण-कर्मसु सज्जन्ते | तान् मन्दान् अ-कृत्स्न-विदः कृत्स्न-वित् न विचालयेत् ॥३-२९॥

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३- ३०॥

सर्वाणि कर्माणि अध्यात्म-चेतसा मयि संन्यस्य निर्-आशीः निर्-ममः भूत्वा विगत-ज्वरः युध्यस्व ॥ ३- ३०॥

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३- ३१॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३- ३२॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।

ये मानवाः मे इदम् मतम् नित्यम् अनुतिष्ठन्ति ते अपि अनसूयन्तः श्रद्धावन्तः कर्मभिः मुच्यन्ते ॥३-३१॥ ये तु एतत् अभ्यसूयन्तः मे मतम् न अनुतिष्ठन्ति तान् अ-चेतसः सर्व-ज्ञान-विमूढान् नष्टान् विद्धि ॥३-३२॥ स्वस्याः प्रकृतेः ज्ञानवान् अपि सदृशं चेष्टते ।

प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३- ३३॥
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३- ३४॥

भूतानि प्रकृतिं यान्ति | निग्रहः किं करिष्यति ॥३-३३॥ इन्द्रियस्य राग-द्वेषौ इन्द्रियस्य अर्थे व्यवस्थितौ । तयोः वशम् न आगच्छेत् | तौ हि अस्य परिपन्थिनौ ॥३-३४॥

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३- ३५॥

पर-धर्मात् सु-अनुष्ठितात् विगुणः स्व-धर्मः श्रेयान् । स्वधर्मे निधनं श्रेयः | पर-धर्मः भयावहः ॥३-३५॥

अर्जुन उवाच ।
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३- ३६॥

अर्जुनः उवाच – वार्ष्णेय अथ केन प्रयुक्तः अयं पूरुषः अन्-इच्छन् अपि बलात् नियोजितः इव पापं चरति ॥३-३६॥

श्रीभगवानुवाच ।
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३- ३७॥
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३- ३८॥
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३- ३९॥
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ३- ४०॥
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ३- ४१॥

श्रीभगवान् उवाच – रजोगुणसमुद्भवः एषः कामः एषः क्रोधः महा-अशनः महा-पाप्मा | इह एनम् वैरिणम् विद्धि ॥३-३७॥ यथा वह्निः धूमेन आव्रियते यथा आदर्शः मलेन च (आव्रियते) यथा गर्भः उल्बेन आवृतः (भवति) तथा इदम् तेन आवृतम् ॥३-३८॥ कौन्तेय एतेन ज्ञानिनः नित्य-वैरिणा दुष्-पूरेण काम-रूपेण अनलेन च ज्ञानम् आवृतम् ॥३-३९॥
इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते । एषः एतैः ज्ञानम् आवृत्य देहिनम् विमोहयति ॥३-४०॥ तस्मात् भरत-ऋषभ त्वम् आदौ इन्द्रियाणि नियम्य एनम् ज्ञान-विज्ञान-नाशनम् पाप्मानं प्रजहि हि ॥३-४१॥

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ३- ४२॥

इन्द्रियाणि पराणि आहुः | मनः इन्द्रियेभ्यः परं (आहुः) । बुद्धिः तु मनसः परा | यः तु बुद्धेः परतः सः (सः) ॥३-४२॥

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ३- ४३॥

महाबाहो एवं बुद्धेः परं बुद्ध्वा आत्मानम् आत्मना संस्तभ्य काम-रूपं दुः-आसदम्
शत्रुम् जहि ॥३-४३॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मयोगो नाम तृतीयोऽध्यायः ॥३॥

ॐ तत् सत् | इति श्रीमत्-भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे कर्म-योगः नाम तृतीयः अध्यायः ॥३॥

शुभमस्तु !

-o-O-o-