Prosaic Study of Chapter 8

अथ अष्टमाध्यायस्य गद्याभ्यासः

Prosaic study of 8th Chapter

(पदच्छेदान्वयसहितः परिच्छेदान्वितः)

With detailing of words and word-components, syntactical rearrangement and paraphrasing

अर्जुन उवाच ।
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ ८- १॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ ८- २॥

(1) अर्जुनः उवाच – पुरुषोत्तम तत् ब्रह्म किम् ? अध्यात्मम् किम् ? कर्म किम् ? किम् अधिभूतम् (इति) प्रोक्तम् ? किम् अधिदैवम् (इति) उच्यते ? ॥८-१॥ मधुसूदन अत्र अस्मिन् देहे अधियज्ञः कः कथम् ? प्रयाण-काले च नियत-आत्मभिः कथम् ज्ञेयः असि ? ॥८-२॥

श्रीभगवानुवाच ।
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ८- ३॥
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ८- ४॥
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ८- ५॥

(2) श्री-भगवान् उवाच – ब्रह्म अक्षरम् परमम् | स्व-भावः अध्यात्मम् उच्यते | भूत-भाव-उद्भव-करः विसर्गः कर्म-संज्ञितः ॥८-३॥ अधिभूतम् (तु) क्षरः भावः | पुरुषः च अधिदैवतम् | (भोः) देहभृताम् वर अत्र देहे अहम् एव अधियज्ञः ॥८-४॥ अन्तकाले च यः माम् एव स्मरन् कलेवरम् मुक्त्वा प्रयाति सः मत्-भावम् याति | अत्र संशयः न अस्ति ॥८-५॥

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ८- ६॥
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ८- ७॥ or असंशयम्

(3) कौन्तेय यम् यम् अपि भावम् अन्ते स्मरन् कलेवरम् त्यजति वा सदा तत्-भाव-भावितः तम् तम् एव (भावम्) एति ॥८-६॥ तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मयि अर्पित-मनो-बुद्धिः अ-संशयः (/अ-संशयम्) माम् एव एष्यसि ॥८-७॥

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८- ८॥

(4) पार्थ अभ्यास-योग-युक्तेन न-अन्य-गामिना चेतसा अनुचिन्तयन् परमम् दिव्यम् पुरुषम् याति ॥८-८॥

कविं पुराणमनुशासितारमणोरणीयं समनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ८- ९॥
प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ ८- १०॥

(5) यः भक्त्या युक्तः प्रयाण-काले अ-चलेन मनसा योग-बलेन च एव भ्रुवोः मध्ये प्राणम् आवेश्य कविम् पुराणम् अनुशासितारम् अणोः अणीयम् सम्यक् सम्-अनुस्मरेत् सः तम् सर्वस्य धातारम् अ-चिन्त्य-रूपम् आदित्य-वर्णम् तमसः परस्तात् दिव्यम् परम् पुरुषम् उप-एति ॥८-९॥+॥८-१०॥

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ८- ११॥

(6) वेद-विदः यत् अक्षरम् वदन्ति वीत-रागाः यतयः यत् विशन्ति यत्-इच्छन्तः ब्रह्म-चर्यम् चरन्ति तत् पदम् (अहम्) ते संग्रहेण प्रवक्ष्ये ॥८-११॥

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८- १२॥
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८- १३॥

(7) यः सर्व-द्वाराणि संयम्य मनः हृदि निरुध्य च आत्मनः प्राणम् मूर्ध्नि आधाय योग-धारणाम् आस्थितः ॐ-इति एक-अक्षरम् ब्रह्म व्याहरन् माम् अनुस्मरन् देहम् त्यजन् प्रयाति सः परमाम् गतिम् याति ॥८-१२॥+॥८-१३॥

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ८- १४॥

(8) पार्थ यः सततम् अन्-अन्य-चेताः नित्यशः माम् स्मरति तस्य नित्य-युक्तस्य योगिनः अहम् सु-लभः ॥८-१४॥

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ ८- १५॥
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ८- १६॥

(9) माम् उपेत्य परमां संसिद्धिं गताः महा-आत्मानः दुःख-आलयम् अ-शाश्वतम् पुनर्-जन्म न आप्नुवब्ति ॥८-१५॥ अर्जुन आ-ब्रह्म-भुवनात् लोकाः पुनर्-आवर्तिनः | कौन्तेय माम् उपेत्य तु पुनर्-जन्म न विद्यते ॥८-१६॥

सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ८- १७॥
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ८- १८॥
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ ८- १९॥

(10) यत् ब्रह्मणः सहस्र-युग-पर्यन्तम् अहः युग-सहस्र-अन्ताम् रात्रिम् (ये) विदुः ते जनाः अहो-रात्र-विदः ॥८-१७॥ अहर्-आगमे सर्वाः व्यक्तयः अ-व्यक्तात् प्रभवन्ति | रात्रि-आगमे तत्र एव अ-व्यक्त-संज्ञके प्रलीयन्ते ॥८-१८॥ पार्थ सः एव अयम् अ-वशः भूत-ग्रामः भूत्वा भूत्वा रात्रि-आगमे प्रलीयते अहर्-आगमे प्रभवति ॥८-१९॥

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८- २०॥
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ ८- २१॥
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ ८- २२॥

(11) तस्मात् तु परः यः अन्यः अव्यक्तात् सनातनः अ-व्यक्तः भावः सः सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥८-२०॥ अव्यक्तः अक्षरः इति उक्तः | तम् परमाम् गतिम् आहुः | यम् प्राप्य न निवर्तन्ते तत् मम परमम् धाम ॥८-२१॥ पार्थ भूतानि यस्य अन्तःस्थानि येन इदम् सर्वम् ततम् सः परः पुरुषः तु अन्-अन्यया भक्त्या लभ्यः ॥८-२२॥

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ ८- २३॥
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ ८- २४॥
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ ८- २५॥
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ ८- २६॥
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ ८- २७॥

(12) भरत-ऋषभ प्रयाताः योगिनः तु यत्र काले अन-आवृत्तिम् आवृत्तिम् च यान्ति तम् कालम् वक्ष्यामि ॥८-२३॥ अग्निः ज्योतिः अहः शुक्लः उत्तर-अयनम् (इति) षण्-मासाः तत्र प्रयाताः ब्रह्म-विदः जनाः ब्रह्म गच्छन्ति ॥८-२४॥ धूमः रात्रिः तथा कृष्णः दक्षिण-अयनम् (इति) षण्-मासाः तत्र योगी चान्द्रमसम् ज्योतिः प्राप्य निवर्तते ॥८-२५॥ एते हि शुक्ल-कृष्णे गती जगतः शाश्वते मते | एकया (जगत्) अन्-आवृत्तिम् याति अन्यया पुनः आवर्तते ॥८-२६॥ पार्थ एते सृती जानन् कश्चन योगी न मुह्यति | अर्जुन तस्मात् सर्वेषु कालेषु योग-युक्तः भव ॥८-२७॥

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ ८- २८॥

(13) यत् एव पुण्य-फलम् वेदेषु यज्ञेषु तपःसु दानेषु च प्रदिष्टम् तत् सर्वम् इदम् अत्येति (इति) विदित्वा योगी परम् आद्यम् च स्थानम् उपैति ॥८-२८॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८॥

(14) ॐ तत् सत् | इति श्रीमत्-भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे (अयम्) अष्टमः अध्यायः नाम अक्षर-ब्रह्म-योगः ॥८॥

शुभमस्तु |

-o-O-o-

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s