|| श्रेयः परमवाप्स्यथ ||

मन्येऽहं परं श्रेयः इति परमार्थः | गीतामुपदिशतः भगवतः प्रायः अयमेव निश्चयः यदर्जुनस्य परं श्रेयः भवेत् |

There is this phrase श्रेयः परमवाप्स्यथ in 3’11. Synonym for परं श्रेयः would be परमार्थः. In all his advocacy श्रीकृष्णभगवान् wished not just that Arjun be motivated back to fight the battle, but also that Arjun should understand the highest or most sublime truth.

मम कश्चित्प्रयासोऽत्र संकलने परमार्थसाधनायाः तच्छ्रेयसश्च निर्देशकानां श्लोकानाम् |

Here is some attempt of mine to compile all verses which dwell in परमार्थसाधना and its श्रेयः.

श्लोकानां चयने विचारितं किमिति परमार्थः, कथं प्राप्यतेऽयम्, किं तस्य श्रेयः, कदा सिध्यति परमार्थः, कः परमार्थमर्हति | परस्मै श्रेयसे किं कर्तव्यं किमकर्तव्यञ्च |

When compiling the verses, the considerations have been what is परमार्थ, how one attains it, when does it culminate, who merits it, what are the do’s and don’ts.

प्रथमंस्तु किमिति परमार्थः 1 the highest or most sublime truth, true spiritual knowledge, knowledge about Brahman or the Supreme Spirit; इदं हि तत्त्वं परमार्थभाजाम् Mv.7.2. -2 truth, reality, earnestness; परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः Ś.2.19; oft in comp. in the sense of ‘true’ or ‘real’. ˚मत्स्याः R.7.4. Mv.4.3. -3 any excellent or important object. -4 the best sense. -5 the best kind of wealth. ˚दरिद्र really poor; Mk. ˚भाज a. partaking of the highest truth; Mv. ˚विद् a philosopher.

परम-शब्दान्विताः केचन सामासिकशब्दाः Some compound words containing परम as a component word.

  1. -आत्मन् m. the Supreme Spirit or Brahman; न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनात् R.8.22; स्वर्गापवर्गयो- र्मार्गमामनन्ति मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ Kusum.
  2. -आनन्दः ‘supreme felicity’, Supreme Spirit.
  3. -ईशः an epithet of Viṣṇu.
  4. -ईश्वरः 1 an epithet of Viṣṇu. -2 of Indra. -3 of Śiva. -4 the Almighty god, the Supreme Being. -5 N. of Brahman. -6 a universal monarch, sovereign of the world; see चक्रवर्तिन्.
  5. -गतिः f. 1 any chief object or refuge (as a god). -2 final beatitude, emancipation.
  6. -तत्त्वम् the highest truth.
  7. -धर्मात्मन् a. very dutiful, virtuous.
  8. -पदम् 1 the best position, highest rank. -2 final beatitude; विष्णोः पदे परमे मध्व उत्सः Rv.1.154.5.
  9. -परम a. most excellent of all.
  10. -पुरुषः, -पूरुषः the Supreme Spirit.
  11. -ब्रह्मन् n. the Supreme Spirit.
  12. -हंसः an ascetic of the highest order, one who has controlled and subdued all his senses by abstract meditation; cf. कुटीचक; कुटीचको बहूदकः हंसश्चैव तृतीयकः । चतुर्थः परमो हंसो यो यः पश्चात् स उत्तमः ॥ Hārītāsmṛiti. ˚परिव्राजकाचार्यः N. of Śaṅkarāchārya.

अथाधः सारवतः शब्दान्वयाः | ते येभ्यः श्लोकेभ्यः तेऽप्युद्धृताः | Here below are phrases related to परमार्थ. The verses from which the phrases are compiled are also quoted.

(1) उभयोरपि अन्तो दृष्टस्तत्त्वदर्शिभिः – नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ २- १६॥

(2) बुद्धियोगः तेन न कर्मबन्धः – एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ २- ३९॥

(3) धर्मस्य स्वल्पमपि महतः भयात्त्रायते – स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ २- ४०॥

(4) निस्त्रैगुण्यो निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् भव – निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ २- ४५॥

(5) कर्मफलहेतुर्मा भूः | समत्वं योग उच्यते – कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ २- ४७॥ योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ २- ४८॥

(6) योगः कर्मसु कौशलम् – बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २- ५०॥
(7) अनामयं पदं गच्छन्ति – कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ २- ५१॥
(8) निर्वेदं गन्तासि – यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ २- ५२॥
(9) समाधौ अचला बुद्धिः तदा योगः – श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ २- ५३॥

(10) स्थितप्रज्ञस्य समाधिस्थस्य का भाषा | स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ २- ५४॥ – प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २- ५५॥ दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २- ५६॥ यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २- ५७॥ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २- ५८॥ विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २- ५९॥ वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २- ६१॥ तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २- ६८॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २- ६९॥ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ २- ७०॥ विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ २- ७१॥ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ २- ७२॥

(11) कर्मयोगं मुक्तसङ्गः समाचर – यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ३- ७॥ कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ३- ९॥

(12) देवान् भावयत परं श्रेयः अवाप्स्यथ – देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ३- ११॥

(13) कर्म असक्तः आचरन् पूरुषः परमाप्नोति – तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ ३- १९॥

(14) कर्मणा एव संसिद्धिः आस्थीयते – कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
(15) युक्तः सम्पश्यन् विद्वान् लोकसंग्रहमपि कर्तुमर्हति – लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ ३- २०॥ न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ ३- २६॥

(16) तत्त्ववित् न सज्जते – तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ ३- २८॥

(17) अध्यात्मचेताः विगतज्वरः – मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३- ३०॥

(18) भगवतः मतमनुतिष्ठन् कर्मभिः मुच्यते – ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३- ३१॥

(19) रागद्वेषयोः वशं न आगच्छेत् – इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३- ३४॥

(20) स्वधर्मः श्रेयान् – श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३- ३५॥

(21) इन्द्रियाणि नियम्य कामं प्रजहि – तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ३- ४१॥

(22) स तु बुद्धेः परतः – इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ३- ४२॥

(23) आत्मना आत्मानं संस्तभ्य कामं जहि – एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ३- ४३॥

(24) यः मां तत्त्वतः वेत्ति सः पुनर्जन्म न एति, मामेति – जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ४- ९॥

(25) बहवः ज्ञानतपसा पूताः मद्भावमागताः – वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ ४- १०॥

(26) यः मामभिजानाति सः कर्मभिः न बध्यते – न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ४- १४॥

(27) यः कर्मणि अकर्म पश्येत् स युक्तः स बुद्धिमान् – कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ४- १८॥
(28) ज्ञानाग्निदग्धकर्मा सः पण्डितः – यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ ४- १९॥
(29) कर्मण्यभिप्रवृत्तोऽपि सः नैव किञ्चित्करोति – त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ ४- २०॥
(30) कर्म कुर्वन् किल्बिषं न आप्नोति – निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४- २१॥
(31) कृत्वापि न निबध्यते – यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ४- २२॥
(32) यज्ञायाचरतः कर्म समग्रं प्रविलीयते – गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ ४- २३॥
(33) ब्रह्म एव गन्तव्यम् – ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ४- २४॥

(34) अपरे दैवमेव पर्युपासते, अपरे यज्ञमुपजिह्वति, अन्ये इन्द्रियाणि संयमाग्निषु जुह्वति, अन्ये विषयान् इन्द्रियाग्निषु जुह्वति, अपरे सर्वाणीन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति अपरे द्रव्ययज्ञाः, तपोयज्ञाः, योगयज्ञाः स्वाध्यायज्ञानयज्ञाः, अपरे प्राणमापाने जुह्वति, अपरे अपानं प्राणे, (अपरे) प्राणायामपरायणाः, अपरे नियताहाराः एते सर्वे यज्ञविदः सनातनं ब्रह्म यान्ति – दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ ४- २५॥ श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ ४- २६॥ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ४- २७॥ द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ४- २८॥ अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४- २९॥ अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ४- ३०॥ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ॥ ४- ३१॥
(35) अखिलं कर्म ज्ञाने परिसमाप्यते – एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ४- ३२॥ श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ४- ३३॥
(36) ज्ञानिनः तत्त्वदर्शिनः यज्ज्ञानं उपदेक्ष्यन्ति तज्ज्ञात्वा – यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ४- ३५॥ अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४- ३६॥ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४- ३७॥ ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४- ३९॥ योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४- ४१॥
(37) योगमातिष्ठ उत्तिष्ठ – तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४- ४२॥

(38) यो न द्वेष्टि न काङ्क्षति स निर्द्वन्द्वः नित्यसंन्यासी बन्धात्प्रमुच्यते – ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ५- ३॥

(39) योगयुक्तः मुनिः नचिरेण ब्रह्म अधिगच्छति – योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ५- ६॥ योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ५- ७॥ नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।

(40) युक्तः पापेन न लिप्यते, नैष्ठिकीं शान्तिमाप्नोति – ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५- १०॥ कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ५- ११॥ युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।

(41) वशी सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन्न कारयन् सुखं आस्ते – सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ ५- १३॥

(42) येषां अज्ञानं नाशितम् तेषां परं ज्ञानं प्रकाशयति – ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ ५- १६॥
(43) ज्ञाननिर्धूतकल्मषाः अपुनरावृत्तिं गच्छन्ति – तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ ५- १७॥
(44) पण्डिताः समदर्शिनः – विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५- १८॥
(45) येषां मनः साम्ये स्थितं तैः सर्गो जितः – इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ॥ ५- १९॥
(46) ते ब्रह्मणि स्थिताः – निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ ५- १९॥

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ ५- २०॥
(47) ब्रह्मयोगयुक्तात्मा अक्षयं सुखमश्नुते – बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ ५- २१॥
(48) बुधः संस्पर्शजेषु भोगेषु न रमते – ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५- २२॥  
(49) युक्तः नरः सुखी – शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ ५- २३॥  
(50) ब्रह्मभूतो योगी ब्रह्मनिर्वाणमधिगच्छति – योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ ५- २४॥

(51) सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणम् लभन्ते – लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ ५- २५॥
(52) यतचेतसाम् यतीनां अभितो ब्रह्मनिर्वाणं वर्तते – कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ ५- २६॥
(53) मोक्षपरायणः मुनिः सदा मुक्त एव – स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ ५- २७॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ ५- २८॥
(54) मां सर्वलोकमहेश्वरम् सर्वभूतानां सुहृदं ज्ञात्वा शान्तिमृच्छति – भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ५- २९॥
(55) यः कर्मफलं अनाश्रितः कार्यं कर्म करोति स संन्यासी च योगी च – अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ ६- १॥

(56) तदा योगारूढः उच्यते – यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ ६- ४॥

(57) जितात्मनः प्रशान्तस्य परमात्मा समाहितः – जितात्मनः प्रशान्तस्य परमात्मा समाहितः ॥ ६- ७॥
(58) समाहितः युक्तः योगी इत्युच्यते – शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ६- ७॥ (59) समबुद्धिः युक्तः योगी विशिष्यते – ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
समलोष्टाश्मकाञ्चनः ॥ ६- ८॥ सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ६- ९॥

(60) योगी एकाकी यतचित्तात्मा युञ्जीत – योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ ६- १०॥
(61) आत्मानं सदा एवं युञ्जन् योगी मत्संस्थाम् निर्वाणपरमां शान्तिं अधिगच्छति – शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ६- ११॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ ६- १२॥ समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ६- १३॥ प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ ६- १४॥ युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ ६- १५॥
(62) कर्मसु युक्तचेष्टस्य योगो भवति दुःखहा – नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ ६- १६॥ युक्ताहारविहारस्य  युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ ६- १७॥ यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ ६- १८॥
(63) किमिति योगसंज्ञितम् – यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ ६- २०॥ सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ ६- २१॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ ६- २२॥ तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ ६- २३॥

(64) एनं प्रशान्तमनसं योगिनं ब्रह्मभूतं सुखमुपैति, एवं युञ्जन् योगी अत्यन्तं सुखमश्नुते – सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ ६- २४॥ शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ६- २५॥ यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ ६- २६॥ प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ ६- २७॥ युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ ६- २८॥

(65) सर्वत्र समदर्शनः सर्वथा वर्तमानोऽपि मयि वर्तते | यः सर्वत्र समं पश्यति सः परमः योगी मतः – सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥६-२९॥ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६-३०॥ सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥६-३१॥ आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥६-३२॥

(66) दुर्निग्रहं चलम् मनः अभ्यासेन वैराग्येण च गृह्यते – असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ६- ३५॥
(67) योगः यतता वश्यात्मना उपायतः अवाप्तुं शक्यः – असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ६- ३६॥

(68) प्रयत्नाद्यतमानः संशुद्धकिल्बिषः अनेकजन्मसंसिद्धः योगी परां गतिम् याति – प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६-४५॥

(69) तस्माद्योगी भवार्जुन – तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी ॥ ६- ४६॥
(70) यो मां श्रद्धावान्भजते स मे युक्ततमो मतः – योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ६- ४७॥

(71) ये मामेव प्रपद्यन्ते ते एतां मम गुणमयीं मायाम् तरन्ति – दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ७- १४॥

(72) सर्वं वासुदेवः इति ज्ञानवान् सुदुर्लभः महात्मा बहूनां जन्मनामन्ते मां प्रपद्यते – बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ ७- १९॥

(73) येषां पुण्यकर्मणाम् जनानां पापं त्वन्तगतं ते द्वन्द्वमोहनिर्मुक्ता दृढव्रताः मां भजन्ते – येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ ७- २८॥

(74) ये मामाश्रित्य जरामरणमोक्षाय यतन्ति ते तत् ब्रह्म कृत्स्नमध्यात्मं अखिलं कर्म च विदुः | ये च मां साधिभूताधिदैवं साधियज्ञं विदुः ते युक्तचेतसः मां प्रयाणकालेऽपि च विदुः – जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥७-२९॥ साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥७-३०॥

(75) अन्तकाले मामेव स्मरन् कलेवरम् मुक्त्वा (मोक्तुं ?) यः प्रयाति स मद्भावं याति – अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥८-५॥

(76) मय्यर्पितमनोबुद्धिः मामेव एष्यसि – तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ८- ७॥
(77) अभ्यासयोगयुक्तेन नान्यगामिना चेतसा अनुचिन्तयन् परमं दिव्यं पुरुषं याति – अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८- ८॥
(78) स तं परं दिव्यम् पुरुषमुपैति – कविं पुराणमनुशासितारमणोरणीयंसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥८-९॥ प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥८-१०॥
(79) तत् पदं ते संग्रहेण प्रवक्ष्ये – यदक्षरं वेदविदो वदन्ति | विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति | तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ८- ११॥

(80) यः मामनुस्मरन् देहं त्यजन् प्रयाति स परमां गतिम् याति – सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूध्न्यार्धायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८- १२॥ ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८- १३॥

(81) नित्ययुक्तस्य योगिनः अहं सुलभः – अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ८- १४॥
(82) महात्मानः मामुपेत्य पुनर्जन्म नाप्नुवन्ति – मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ ८- १५॥
(83) मामुपेत्य पुनर्जन्म न विद्यते – आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ८- १६॥

(84) किमिति परमा गतिः – अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
(85) किमिति परमं धाम – यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ ८- २१॥
(86) कोऽयं परः पुरुषः – पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ ८- २२॥

(87) तत्र प्रयाता ब्रह्मविदो जनाः ब्रह्म गच्छन्ति – अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ ८- २४॥

(88) तत्र योगी चान्द्रमसं ज्योतिः प्राप्य निवर्तते – धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ ८- २५॥

(89) एते शुक्लकृष्णे गती सृती न (इति) जानन् कश्चन योगी न मुह्यति तस्मात्सर्वेषु कालेषु योगयुक्तो भव – शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ ८- २६॥ नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ ८- २७॥  
(90) परं चाद्यम् स्थानम् पुण्यफलमत्येति विदित्वा योगी इदमुपैति – वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥८-२८॥

(91) दैवीं प्रकृतिमाश्रिताः अनन्यमनसो महात्मानः मां भूतादिमव्ययम् ज्ञात्वा भजन्ति – महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥९-१३॥

(91) त्रैविद्या पूतपापाः सोमपाः मां यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते पुण्यमासाद्य दिवि देवभोगानश्नन्ति – त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ ९- २०॥

(92) ये जनाः अनन्याश्चिन्तयन्तो मां पर्युपासते तेषां योगक्षेमं वहाम्यहम् – अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९- २२॥

(93) कर्मबन्धनैः मोक्ष्यसे विमुक्तो मामुपैष्यसि – शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ ९- २८॥
(94) ये तु मां भक्त्या भजन्ति मयि ते तेषु चाप्यहम् – समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ९- २९॥
(95) क्षिप्रं धर्मात्मा भवति शश्वच्छान्तिं निगच्छति मे भक्तः न प्रणश्यति – अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ९- ३०॥ क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९- ३१॥

(96) मन्मना मद्भक्तो मद्याजी भव मां नमस्कुरु । आत्मनमेवं युक्त्वा मत्परायणः मामेवैष्यसि – मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९-३४॥

(97) यो मामजमनादिं च लोकमहेश्वरम् वेत्ति असम्मूढः स सर्वपापैः प्रमुच्यते – यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०- ३॥

(98) सोऽविकम्पेन योगेन युज्यते – एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०- ७॥

(99) भावसमन्विताः बुधा मां भजन्ते तुष्यन्ति च रमन्ति च – अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०- ८॥ मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०- ९॥
(100) तं ददामि बुद्धियोगं येन ते मामुपयान्ति – तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०- १०॥

(101) तेषां अज्ञानजं तमः नाशयामि – तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०- ११॥
(102) मोहः विगतः – मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११- १॥

(103) अनन्यया भक्त्या ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च शक्यः – भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ११- ५४॥
(104) यः मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः सर्वभूतेषु निर्वैरः स मामेति
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ११- ५५॥

(105) ये मनो मय्यावेश्य मां नित्ययुक्ता उपासते ते परया श्रद्धया उपेताः मे युक्ततमाः – मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥ १२- २॥
(106) ये सर्वत्र समबुद्धयः सर्वभूतहिते रताः अक्षरमनिर्देश्यमव्यक्तं सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् इन्द्रियग्रामं सन्नियम्य पर्युपासते ते मामेव प्राप्नुवन्ति – ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥ १२- ३॥
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२- ४॥

(107) ये सर्वाणि कर्माणि मयि संन्यस्य मत्पराः अनन्येनैव योगेन मां ध्यायन्त उपासते तेषाम् मय्यावेशितचेतसाम् मृत्युसंसारसागरात् समुद्धर्ता नचिरात् भवामि – ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ १२- ६॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ १२- ७॥
(108) मय्येव मन आधत्स्व मयि बुद्धिं निवेशय अत ऊर्ध्वं मय्येव निवसिष्यसि – मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ १२- ८॥

(109) चित्तं मयि स्थिरम् समाधातुं न शक्नोषि चेत् अभ्यासयोगेन मामाप्तुं इच्छ – अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ १२- ९॥
(110) अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव – अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १२- १०॥
(111) मद्योगम् कर्तुमशक्तोऽसि सर्वकर्मफलत्यागं कुरु – अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ १२- ११॥
(112) त्यागादनन्तरं शान्तिः – श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२- १२॥
(113) अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च निर्ममो निरहङ्कारः समदुःखसुखः क्षमी सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः – अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १२- १३॥ सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२- १४॥
(114) यः हर्षामर्षभयोद्वेगैर्मुक्तो स च मे प्रियः – यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १२- १५॥
(115) यः मद्भक्तः स मे प्रियः – अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२- १६॥
(116) यः भक्तिमान् स मे प्रियः – यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२- १७॥
(117) अनिकेतः स्थिरमतिः भक्तिमान् नरः मे प्रियः – समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२- १८॥ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२- १९॥
(118) श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः – ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२- २०॥

(119) क्षेत्रं तथा ज्ञानं ज्ञेयं विज्ञाय मद्भक्तः मद्भावायोपपद्यते – इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १३- १९॥

(120) यः पुरुषं प्रकृतिं च गुणैः सह वेत्ति स  सर्वथा वर्तमानोऽपि भूयः न अभिजायते – य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३- २४॥
(121) केचित् ध्यानेन आत्मानमात्मना आत्मनि पश्यन्ति अन्ये साङ्ख्येन योगेन अपरे कर्मयोगेन च अन्ये त्वेवमजानन्तः अन्येभ्य श्रुत्वा उपासते तेऽपि श्रुतिपरायणाः मृत्युमतितरन्त्येव – ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ १३- २५॥ अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ १३- २६॥

(122) सर्वत्र समं समवस्थितमीश्वरम् पश्यन्हि आत्मनात्मानं न हिनस्ति ततः परां गतिम् याति – समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ १३- २९॥

(123) यदा भूतपृथग्भावमेकस्थमनुपश्यति तत एव च विस्तारं  तदा ब्रह्म सम्पद्यते – यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ १३- ३१॥

(124) ये क्षेत्रक्षेत्रज्ञयोरेवमन्तरं भूतप्रकृतिमोक्षं च ज्ञानचक्षुषा विदुः ते परम् यान्ति – क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३- ३५॥

(125) ज्ञानानां उत्तमं ज्ञानं ज्ञात्वा सर्वे मुनयः इतः परां सिद्धिं गताः – परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १४- १॥

(126) इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च – इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ १४- २॥

(127) सत्त्वे प्रवृद्धे देहभृत् यदा प्रलयं याति तदोत्तमविदामलान् लोकान् प्रतिपद्यते – यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४- १४॥

(128) सुकृतस्य कर्मणः फलं सात्त्विकं निर्मलमाहुः सत्त्वात् ज्ञानं सञ्जायते सत्त्वस्था ऊर्ध्वं गच्छन्ति – कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १४- १६॥ सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १४- १७॥ ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १४- १८॥

(129) यदा द्रष्टा गुणेभ्यः अन्यं कर्तारं न अनुपश्यति गुणेभ्यश्च परं वेत्ति सः मद्भावमधिगच्छति –  नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १४- १९॥
(130) एतान् देहसमुद्भवान् त्रीन् गुणानतीत्य देही जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते – गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ १४- २०॥

(131) यः मां अव्यभिचारेण भक्तियोगेन सेवते स गुणान्समतीत्य ब्रह्मभूयाय कल्पते – मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ १४- २६॥

(132) एनं सुविरूढमूलमश्वत्थं दृढेन असङ्गशस्त्रेण छित्त्वा तत्पदं परिमार्गितव्यं यस्मिन्गता भूयः न निवर्तन्ति – ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५- १॥ अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ १५- २॥ न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ १५- ३॥ ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।

(133) निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः सुखदुःखसंज्ञैर्द्वन्द्वैर्विमुक्ताः अमूढाः तदव्ययं पदं गच्छन्ति – निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ १५- ५॥
(134) यद्गत्वा न निवर्तन्ते तन्मम परमं धाम – न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५- ६॥

(135) यः असम्मूढः मामेवं पुरुषोत्तमं जानाति स सर्वविद् मां सर्वभावेन भजति – यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ १५- १९॥

(136) मया उक्तमिदं गुह्यतमं शास्त्रं बुद्ध्वा बुद्धिमान् कृतकृत्यः स्यात् –  इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५- २०॥

(137) एतैः त्रिभिः तमोद्वारैः विमुक्तः नरः आत्मनः श्रेयः आचरति ततो परां गतिं याति – एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥१६-२२॥

(138) तस्मात् कार्याकार्यव्यवस्थितौ ते प्रमाणं शास्त्रं ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमर्हसि – तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६-२४॥

(139) यो यज्ञोऽफलाङ्क्षिभिर्विधिदृष्टो यष्टव्यमेवेति मनः समाधाय इज्यते स सात्त्विकः – अफलाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ १७- ११॥

(140) अफलाकाङ्क्षिभिर्युक्तैः नरैः परया श्रद्धया तप्तं तत्त्रिविधं तपः सात्त्विकं परिचक्षते – श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७- १७॥

(141) यद्दानं देशे काले च पात्रे चानुपकारिणे दातव्यमिति दीयते तद्दानं सात्त्विकं स्मृतम् – दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७-२०॥  

(142) ब्रह्मवादिनाम् विधानोक्ताः यज्ञदानतपःक्रियाः सततमोमित्युदाहृत्य प्रवर्तन्ते – तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१७-२४॥

(143) यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ १८- ५॥

(144) एतानि कर्माणि तु सङ्गं फलानि च त्यक्त्वा कर्तव्यानि – एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ १८- ६॥  

(145) यन्नियतं कर्म कार्यमित्येव सङ्गं फलं चैव त्यक्त्वा क्रियते स सात्त्विकस्त्यागः – कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ १८- ९॥
(146) यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते – न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ १८- ११॥

(147) यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥ १८- १७॥

(148) यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ १८- ४६॥

(149) परमां नैष्कर्म्यसिद्धिं अधिगच्छति ब्रह्म आप्नोति ब्रह्मभूयाय कल्पते मद्भक्तिं लभते शाश्वतं अव्ययं पदमवाप्नोति | मत्प्रसादात्तरिष्यसि – असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ १८- ४९॥ सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ १८- ५०॥ बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ १८- ५१॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ १८- ५२॥ अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ १८- ५३॥ ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ १८- ५४॥ भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ १८- ५५॥ सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ १८- ५६॥ चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ १८- ५७॥ मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ १८- ५८॥
(150) तमेव सर्वभावेन शरणं गच्छ । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् – ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ १८- ६१॥ तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ १८- ६२॥

(151) मामेकं शरणं व्रज । त्वा सर्वपापेभ्यो मोक्षयिष्यामि – मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ १८- ६५॥ सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १८- ६६॥

टिप्पण्यः Notes

  1. अत्र 151-तावत्सु शब्दान्वयेषु 219 श्लोकाः उद्धृताः | संकलने वाचकानां सहमतिः भवेत्द्वा न भवेत् – Compiled here are 151 phrases summarized from 219 verses. Readers may or may not agree with my compilation.
  2. केचन शब्दान्वयाः एकस्यैव तत्त्वस्य निर्देशकाः दृश्यन्ते यथा अनामयं पदम् (7) परं श्रेयः (12) परमाप्नोति (13) मद्भावमागताः (25) ब्रह्मणि स्थितः (46) अव्ययं पदम् – Many phrases sound to be synonymous discussing a common or same thought.
  3. दृश्यते अत्र केषांश्चन तत्त्वानां पुनःपुनःप्रतिपादनं कृतमस्ति – It seems in these verses some concepts have been repeated again and again.
  4. यद्येवमेतेषां शब्दान्वयानां कैश्चन ऊनैः शब्दान्वयैः संकलनं शक्यं प्रायः – If so, maybe, the compilation can be summarized by less number of phrases and verses.
  5. तत्त्वनन्तरं प्रयतव्यम् – That be attempted separately later.
  6. तथापि “श्रेयः परमवाप्स्यथ” इत्येव भगवतो निश्चयो मन्तव्यश्चेत् गीताध्ययनमेतेषां 219-तावतामथवा तेभ्योऽपि ऊनानां श्लोकानामध्ययनेनैव सिद्धं भवेत् | यदि मान्यमेतत् सार्थकोऽयं प्रयासः – Anyway if we take it that श्रेयः परमवाप्स्यथ is the true desire of श्रीकृष्णभगवान्, study of गीता may focus on these 219 or much less number of verses. If this appeals, worthwhile has been this effort.

शुभमस्तु !

-o-O-o-

 

Advertisements

One thought on “|| श्रेयः परमवाप्स्यथ ||

  1. Another labour of love from a prolific Sanskrit scholar. For those not so well-versed in Sanskrit, the English translations you provide are very helpful.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s