ॐ श्रीपरमात्मने नमः |

अथ दशमोऽध्यायः ।
श्रीभगवानुवाच ।
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०- १॥

पदच्छेदैः – अथ दशमः अध्यायः श्री-भगवान् उवाच – भूयः एव महाबाहो श्रुणु मे परमं वचः यत् ते अहं प्रीयमाणाय वक्ष्यामि हित-काम्यया ॥ १०- १॥

अन्वयः – महाबाहो यत् अहं प्रीयमाणाय ते हित-काम्यया वक्ष्यामि (तत्) मे परमं वचः भूयः एव श्रुणु  ॥ १०- १॥

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०- २॥

पदच्छेदैः – न मे विदुः सुर-गणाः प्रभवं न महर्षयः । अहम् आदिः हि देवानां महर्षीणां च सर्वशः ॥ १०- २॥

अन्वयः – न सुर-गणाः न महर्षयः मे प्रभवं विदुः । अहम् देवानां महर्षीणां च सर्वशः हि आदिः ॥ १०- २॥

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०- ३॥

पदच्छेदैः – यः माम् अजम् अन्-आदिम् च वेत्ति लोक-महा-ईश्वरम् । अ-सम्मूढः स मर्त्येषु सर्व-पापैः प्रमुच्यते ॥ १०- ३॥

अन्वयः – यः माम् अजम् अन्-आदिम् लोक-महा-ईश्वरम् च वेत्ति, सः मर्त्येषु अ-सम्मूढः सर्व-पापैः प्रमुच्यते ॥ १०- ३॥

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १०- ४॥

पदच्छेदैः – बुद्धिः ज्ञानम् अ-सम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवः अ-भावः भयम् च अ-भयम् एव च ॥ १०- ४॥

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०- ५॥

पदच्छेदैः – अहिंसा समता तुष्टिः तपः दानम् यशः अ-यशः ।
भवन्ति भावाः भूतानां मत्-तः एव पृथक्-विधाः ॥ १०- ५॥

अन्वयः – बुद्धिः ज्ञानम् अ-सम्मोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः अ-भावः भयम् च अ-भयम् एव च अहिंसा समता तुष्टिः तपः दानम् यशः अ-यशः (एते) भूतानां पृथक्-विधाः भावाः मत्-तः एव भवन्ति ॥ १०- ४॥+॥ १०- ५॥


महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०- ६॥

पदच्छेदैः – महर्षयः सप्त पूर्वे चत्वारः मनवः तथा ।
मत्-भावाः मानसाः जाताः येषां लोके इमाः प्रजाः ॥ १०- ६॥

अन्वयः – लोके इमाः प्रजाः येषां (ते) सप्त पूर्वे महर्षयः तथा चत्वारः मनवः (मम) मानसाः (मयि) जाताः मत्-भावाः ॥ १०- ६॥


एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०- ७॥

पदच्छेदैः – एतां विभूतिं योगं च मम यः वेत्ति तत्त्वतः ।
सः अ-विकम्पेन योगेन युज्यते न अत्र संशयः ॥ १०- ७॥

अन्वयः – यः मम एतां विभूतिं योगं च तत्त्वतः वेत्ति, सः अ-विकम्पेन योगेन युज्यते अत्र संशयः न (अस्ति), (अत्र संशयः न कर्तव्यः) ॥ १०- ७॥

 

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०- ८॥

पदच्छेदैः – अहं सर्वस्य प्रभवः मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधाः भावसमन्विताः ॥ १०- ८॥


मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०- ९॥

पदच्छेदैः – मत्-चित्ताः मत्-गत-प्राणाः बोधयन्तः परस्परम् ।
कथयन्तः च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०- ९॥

अन्वयः – अहं सर्वस्य प्रभवः मत्तः सर्वं प्रवर्तते इति मत्वा भावसमन्विताः बुधाः मां भजन्ते ॥ १०- ८॥ मत्-चित्ताः मत्-गत-प्राणाः मां परस्परम् बोधयन्तः, कथयन्तः च, नित्यं तुष्यन्ति च रमन्ति च ॥ १०- ९॥

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०- १०॥

पदच्छेदैः – तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।

ददामि बुद्धियोगं तं येन माम् उपयान्ति ते ॥१०- १०॥


तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०- ११॥

पदच्छेदैः – तेषाम् एव अनुकम्पा-अर्थम् अहम् अ-ज्ञानजं तमः ।
नाशयामि आत्मभावस्थः ज्ञानदीपेन भास्वता ॥ १०- ११॥

अन्वयः – तेषां सततयुक्तानां प्रीतिपूर्वकम् भजतां तं बुद्धियोगं ददामि येन ते माम् उपयान्ति ॥ १०- १०॥ तेषाम् एव अनुकम्पा-अर्थम् आत्मभावस्थः अहम् भास्वता ज्ञानदीपेन अ-ज्ञानजं तमः नाशयामि ॥ १०- ११॥


     अर्जुन उवाच ।
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १०- १२॥

पदच्छेदैः – अर्जुनः उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् ॥ १०- १२॥


आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०- १३॥

पदच्छेदैः – आहुः त्वाम् ऋषयः सर्वे देवर्षिः नारदः तथा ।
असितः देवलः व्यासः स्वयं च एव ब्रवीषि मे ॥ १०- १३॥

अन्वयः – अर्जुनः उवाच भवान् परं ब्रह्म (भवान्) परमं पवित्रं परं धाम ।
सर्वे ऋषयः देवर्षिः नारदः तथा असितः देवलः व्यासः त्वाम् पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् आहुः | स्वयं एव च मे ब्रवीषि ॥१०-१२॥ +॥ १०- १३॥


सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १०- १४॥

पदच्छेदैः – सर्वम् एतत् ऋतम् मन्ये यत् माम् वदसि केशव ।
न हि ते भगवन् व्यक्तिम् विदुः देवाः न दानवाः ॥ १०- १४॥


स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १०- १५॥

पदच्छेदैः – स्वयम् एव आत्मना आत्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १०- १५॥

अन्वयः – भगवन् केशव यत् एतत् सर्वम् ऋतम् माम् वदसि, मन्ये
ते व्यक्तिम् न हि देवाः विदुः न दानवाः (विदुः) ॥ १०- १४॥ पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते त्वम् स्वयम् एव आत्मना आत्मानं वेत्थ ॥ १०- १५॥


वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १०- १६॥

पदच्छेदैः – वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्मविभूतयः ।
याभिः विभूतिभिः लोकान् इमान् त्वम् व्याप्य तिष्ठसि ॥ १०- १६॥

अन्वयः – याभिः विभूतिभिः इमान् लोकान् व्याप्य त्वम् तिष्ठसि (ताः) दिव्याः आत्मविभूतयः अशेषेण हि वक्तुम् अर्हसि ॥ १०- १६॥


कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०- १७॥

पदच्छेदैः – कथम् विद्याम् अहम् योगिम् त्वाम् सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्यः असि भगवन् मया ॥ १०- १७॥

अन्वयः – सदा परिचिन्तयन् अहम् त्वाम् योगिम् कथम् विद्याम् ।
भगवन् केषु केषु च भावेषु मया चिन्त्यः असि ॥ १०- १७॥


विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १०- १८॥

पदच्छेदैः – विस्तरेण आत्मनः योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिः हि शृण्वतः न अस्ति मे अमृतम् ॥ १०- १८॥

अन्वयः – जनार्दन आत्मनः योगं विभूतिं च भूयः विस्तरेण कथय ।
मे (तत्) अमृतम् शृण्वतः तृप्तिः हि न अस्ति ॥ १०- १८॥


     श्रीभगवानुवाच ।
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०- १९॥

पदच्छेदैः – श्रीभगवान् उवाच  
हन्त ते कथयिष्यामि दिव्याः हि आत्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ न अस्ति अन्तः विस्तरस्य मे ॥ १०- १९॥

अन्वयः – श्रीभगवान् उवाच हन्त कुरुश्रेष्ठ (मे) दिव्याः आत्मविभूतयः प्राधान्यतः हि ते कथयिष्यामि (यतः) मे विस्तरस्य अन्तः न अस्ति ॥ १०- १९॥


अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १०- २०॥

पदच्छेदैः – अहम् आत्मा गुडाकेश सर्वभूत-आशयस्थितः ।
अहम् आदिः च मध्यं च भूतानाम् अन्तः एव च ॥ १०- २०॥

अन्वयः – गुडाकेश सर्वभूत-आशयस्थितः आत्मा अहम् (अस्मि)।
अहम् भूतानाम् आदिः च मध्यं च अन्तः एव च (अस्मि) ॥ १०- २०॥


आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १०- २१॥

पदच्छेदैः – आदित्यानाम् अहं विष्णुः ज्योतिषां रविः अंशुमान् ।
मरीचिः मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥ १०- २१॥

अन्वयः – आदित्यानाम् अहं विष्णुः (अस्मि) ज्योतिषाम् अंशुमान् रविः (अस्मि) । मरुताम् मरीचिः अस्मि अहम् नक्षत्राणाम् शशी (अस्मि) ॥ १०- २१॥


वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १०- २२॥

पदच्छेदैः – वेदानाम् सामवेदः अस्मि देवानाम् अस्मि वासवः ।
इन्द्रियाणाम् मनः च अस्मि भूतानाम् अस्मि चेतना ॥ १०- २२॥

अन्वयः – (अहम्) वेदानाम् सामवेदः अस्मि देवानाम् वासवः अस्मि ।
इन्द्रियाणाम् मनः च अस्मि भूतानाम् चेतना अस्मि ॥ १०- २२॥


रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १०- २३॥

पदच्छेदैः – रुद्राणाम् शङ्करः च अस्मि वित्तेशः यक्षरक्षसाम् ।
वसूनाम् पावकः च अस्मि मेरुः शिखरिणाम् अहम् ॥ १०- २३॥

अन्वयः – रुद्राणाम् शङ्करः च अस्मि यक्षरक्षसाम् वित्तेशः (अस्मि) ।
वसूनाम् पावकः च अस्मि अहम् शिखरिणाम् मेरुः (अस्मि) ॥ १०- २३॥


पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १०- २४॥

पदच्छेदैः – पुरोधसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम् ।
सेनानीनाम् अहम् स्कन्दः सरसाम् अस्मि सागरः ॥ १०- २४॥

अन्वयः – पार्थ पुरोधसाम् मुख्यम् बृहस्पतिम् च माम् विद्धि ।
अहम् सेनानीनाम् स्कन्दः सरसाम् सागरः (च) अस्मि ॥ १०- २४॥


महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १०- २५॥

पदच्छेदैः – महर्षीणाम् भृगुः अहम् गिराम् अस्मि एकम् अक्षरम् ।
यज्ञानाम्  जपयज्ञः अस्मि स्थावराणाम् हिमालयः ॥ १०- २५॥

अन्वयः – अहम् महर्षीणाम् भृगुः अस्मि गिराम् एकम् अक्षरम् (अस्मि) ।
यज्ञानाम्  जपयज्ञः अस्मि स्थावराणाम् हिमालयः (अस्मि) ॥ १०- २५॥


अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १०- २६॥

अन्वयः – (अहम्) सर्ववृक्षाणाम् अश्वत्थः (अस्मि) देवर्षीणाम् च नारदः (अस्मि) । गन्धर्वाणाम् चित्ररथः (अस्मि) (अहम्) सिद्धानाम् कपिलः मुनिः (अस्मि) ॥ १०- २६॥


उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०- २७॥

पदच्छेदैः – उच्चैःश्रवसम् अश्वानाम् विद्धि माम् अमृत-उद्भवम् ।
ऐरावतम् गजेन्द्राणाम् नराणाम् च नराधिपम् ॥ १०- २७॥

अन्वयः – माम् अश्वानाम् अमृत-उद्भवम् उच्चैःश्रवसम् विद्धि ।
(माम्) गजेन्द्राणाम् ऐरावतम् नराणाम् नराधिपम् च (विद्धि) ॥ १०- २७॥


आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०- २८॥

पदच्छेदैः – आयुधानाम् अहम् वज्रम् धेनूनाम् अस्मि कामधुक् ।
प्रजनः च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥ १०- २८॥

अन्वयः – अहम् आयुधानाम् वज्रम् (अस्मि) धेनूनाम् कामधुक् अस्मि ।
(अहम् ) प्रजनः कन्दर्पः च अस्मि सर्पाणाम् वासुकिः (च अहम्) अस्मि ॥ १०- २८॥


अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०- २९॥

पदच्छेदैः – अनन्तः च अस्मि नागानाम् वरुणः यादसाम् अहम् ।
पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम् ॥ १०- २९॥

अन्वयः – नागानाम् च अनन्तः अस्मि अहम् यादसाम् वरुणः (अस्मि) ।
पितॄणाम् च अर्यमा अस्मि अहम् संयमताम् यमः (अस्मि) ॥ १०- २९॥


प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १०- ३०॥

पदच्छेदैः – प्रह्लादः च अस्मि दैत्यानाम् कालः कलयताम् अहम् ।
मृगाणाम् च मृगेन्द्रः अहम् वैनतेयः च पक्षिणाम् ॥ १०- ३०॥

अन्वयः – दैत्यानाम् च प्रह्लादः अस्मि | अहम् कलयताम् कालः (अस्मि) ।
मृगाणाम् च मृगेन्द्रः (अस्मि) | अहम् पक्षिणाम् च वैनतेयः (अस्मि) ॥ १०- ३०॥


पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १०- ३१॥

पदच्छेदैः – पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् ।
झषाणाम् मकरः च अस्मि स्रोतसाम् अस्मि जाह्नवी ॥ १०- ३१॥

अन्वयः – पवताम् पवनः अस्मि | अहम् शस्त्रभृताम् रामः (अस्मि) ।
झषाणाम् च मकरः अस्मि | स्रोतसाम् जाह्नवी अस्मि ॥ १०- ३१॥


सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०- ३२॥

पदच्छेदैः – सर्गाणाम् आदिः अन्तः च मध्यम् च एव अहम् अर्जुन ।
अध्यात्मविद्या विद्यानाम् वादः प्रवदताम् अहम् ॥ १०- ३२॥

अन्वयः – अर्जुन अहम् सर्गाणाम् च आदिः अन्तः मध्यम् च एव ।
(अहम्) विद्यानाम् अध्यात्मविद्या | अहम् प्रवदताम् वादः ॥१०-३२॥


अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०- ३३॥

पदच्छेदैः – अक्षराणाम् अकारः अस्मि द्वन्द्वः सामासिकस्य च ।
अहम् एव अक्षयः कालः धाता अहम् विश्वतोमुखः ॥ १०- ३३॥

अन्वयः – अक्षराणाम् अकारः अस्मि सामासिकस्य च द्वन्द्वः । अहम् एव अक्षयः कालः | अहम् विश्वतोमुखः धाता ॥ १०- ३३॥


मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०- ३४॥

पदच्छेदैः – मृत्युः सर्वहरः च अहम् उद्भवः च भविष्यताम् ।
कीर्तिः श्रीः वाक् च नारीणाम् स्मृतिः मेधा धृतिः क्षमा ॥ १०- ३४॥

अन्वयः – अहम् सर्वहरः मृत्युः च भविष्यताम् उद्भवः च । नारीणाम् च (अहम्) कीर्तिः श्रीः वाक् स्मृतिः मेधा धृतिः क्षमा ॥ १०- ३४॥


बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०- ३५॥

पदच्छेदैः – तथा साम्नाम् बृहत्साम गायत्री छन्दसाम् अहम् ।
मासानाम् मार्गशीर्षः अहम् ऋतूनां कुसुमाकरः ॥ १०- ३५॥

अन्वयः – तथा (अहम्) साम्नाम् बृहत्साम अहम् छन्दसाम् गायत्री ।
अहम् मासानाम् मार्गशीर्षः (अहम्) ऋतूनाम् कुसुमाकरः ॥ १०- ३५॥


द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०- ३६॥

पदच्छेदैः – द्यूतम् छलयताम् अस्मि तेजः तेजस्विनाम् अहम् ।
जयः अस्मि व्यवसायः अस्मि सत्त्वम् सत्त्ववताम् अहम् ॥ १०- ३६॥

अन्वयः – (अहम्) छलयताम् द्यूतम् अस्मि | तेजस्विनाम् तेजः अहम् (अस्मि) । (अहम्) जयः अस्मि व्यवसायः (च) अस्मि | सत्त्ववताम् सत्त्वम् अहम् (अस्मि) ॥ १०- ३६॥


वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०- ३७॥

पदच्छेदैः – वृष्णीनाम् वासुदेवः अस्मि पाण्डवानाम् धनञ्जयः ।
मुनीनाम् अपि अहम् व्यासः कवीनाम् उशना कविः ॥ १०- ३७॥

अन्वयः – (अहम्) वृष्णीनाम् वासुदेवः अस्मि | पाण्डवानाम् धनञ्जयः ।
मुनीनाम् व्यासः अपि अहम् (अस्मि) | (अहम्) कवीनाम् उशना कविः (अस्मि) ॥ १०- ३७॥


दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०- ३८॥

पदच्छेदैः – दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम् ।
मौनम् च एव अस्मि गुह्यानाम् ज्ञानम ज्ञानवताम् अहम् ॥ १०- ३८॥

अन्वयः – (अहम्) दमयताम् दण्डः अस्मि | जिगीषताम् नीतिः अस्मि ।
गुह्यानाम् च मौनम् एव (अहम्) अस्मि | ज्ञानवताम् ज्ञानम् अहम् (अस्मि) ॥ १०- ३८॥


यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०- ३९॥

 

पदच्छेदैः – यत् च अपि सर्वभूतानाम् बीजम् तत् अहम् अर्जुन ।
न तत् अस्ति विना यत् स्यात् मया भूतं चर-अचरम् ॥ १०- ३९॥

 

अन्वयः – अर्जुन अपि च यत् सर्वभूतानाम् बीजम् तत् अहम् (अस्मि) ।
यत् मया विना स्यात् तत् चर-अचरम् भूतम् न अस्ति ॥ १०- ३९॥


नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०- ४०॥

 

पदच्छेदैः – न अन्तः अस्ति मम दिव्यानाम् विभूतीनाम् परन्तप ।
एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥ १०- ४०॥

 

अन्वयः – परन्तप मम दिव्यानाम् विभूतीनाम् अन्तः न अस्ति ।
एषः विभूतेः विस्तरः तु मया उद्देशतः प्रोक्तः ॥ १०- ४०॥


यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०- ४१॥

 

पदच्छेदैः – यत् यत् विभूतिमत् सत्त्वम् श्रीमत् ऊर्जितम् एव वा ।
तत् तत् एव अवगच्छ त्वम् मम तेजः-अंश-सम्भवम् ॥ १०- ४१॥

अन्वयः – त्वम् अवगच्छ (यत्) यत् यत् एव सत्त्वम् विभूतिमत् श्रीमत् ऊर्जितम् वा तत् तत् मम तेजः-अंश-सम्भवम् एव ॥ १०- ४१॥


अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०- ४२॥

पदच्छेदैः – अथवा बहुना एतेन किम् ज्ञातेन तव अर्जुन ।
विष्टभ्य अहम् इदम् कृत्स्नम् एक-अंशेन स्थितः जगत् ॥ १०- ४२॥

अन्वयः – अर्जुन अथवा एतेन बहुना ज्ञातेन तव किम् । अहम् (तु) इदम् कृत्स्नम् जगत् एक-अंशेन विष्टभ्य स्थितः (अस्मि) ॥१०-४२॥


ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥

पदच्छेदैः – ॐ तत्-सत्-इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगः नाम दशमः अध्यायः ॥ १०॥

अन्वयः – ॐ तत्-सत्-इति | श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे (अयम्) दशमः अध्यायः नाम विभूतियोगः ॥ १०॥

-o-O-o-

 

Advertisements