Learning together Sanskrit and GeetA (Chapter 1 verses 14, 15, 16) – Post # 13

Learning together Sanskrit and GeetA (Chapter 1 verses 14, 15, 16) – Post # 13
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकाः  १४, १५, १६) अध्ययनस्य त्रयोदश: (१३) सोपानः ।
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१४||
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ।।१५।।
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोष-मणिपुष्पकौ ।।१६।।
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

ततः श्वेतै: हयै: युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डव: च एव दिव्यौ शङ्खौ प्रदध्मतुः ||१४||
पाञ्चजन्यं हृषीकेशः देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ।।१५।।
अनन्तविजयं राजा कुन्तीपुत्र: युधिष्ठिरः ।
नकुलः सहदेव: च सुघोष-मणिपुष्पकौ ।।१६।।

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ “माधवः पाण्डव: च दिव्यौ शङ्खौ प्रदध्मतुः”  इति प्रधान-वाक्यम् ।

  • २-१-१ क्रियापदम् “प्रदध्मतुः” । कर्तृपदम् “माधवः पाण्डव: च” । कर्मपदं “शङ्खौ” ।

२-२ “हृषीकेशः पाञ्चजन्यं (दध्मौ) ।

  • २-२-१ अध्याहृतं क्रियापदं “दध्मौ” । कर्तृपदं “हृषीकेशः” । कर्मपदं “पाञ्चजन्यम्” ।

२-३ “धनञ्जयः देवदत्तं (दध्मौ)” ।

  • २-३-१ अध्याहृतं क्रियापदं “दध्मौ” । कर्तृपदं “धनञ्जयः” । कर्मपदं “देवदत्तम्” ।

२-४ वृकोदरः भीमकर्मा महाशङ्खं पौण्ड्रं दध्मौ ।

  • २-४-१ क्रियापदं “दध्मौ” । कर्तृपदं “भीमकर्मा” । कर्मपदं “पौण्ड्रम्” ।

२-५ राजा कुन्तीपुत्र: युधिष्ठिरः अनन्तविजयं (दध्मौ)” ।

  • २-५-१ अध्याहृतं क्रियापदं “दध्मौ” । कर्तृपदं “युधिष्ठिरः” । कर्मपदं “अनन्तविजयम्” ।

२ -६ “नकुलः सहदेव: च सुघोष-मणिपुष्पकौ (दध्मतुः)” ।

  • २-६-१ अध्याहृतं क्रियापदं “(दध्मतुः)” । कर्तृपदं “नकुलः सहदेव: च” । कर्मपदं “सुघोष-मणिपुष्पकौ” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ ततः (= then) इति अव्ययम् ।

३-२ श्वेतैः “श्वेत” (= white) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः बहुवचनम् च ।

३-३ हयैः “हय” (= horse) इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।

३-४ युक्ते “युज्” ७ उ. (= to join, to employ) इति धातुः । तस्मात् कर्मणि-प्रयोगवाचकं भूतकालवाचकं च विशेषणम् “युक्त” (= joined) । अत्र पुल्लिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च । स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-५ महति “महत्” (= large, big) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।

३-६ स्यन्दने “स्यन्दन” (= chariot) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

३-७ स्थितौ “स्था” (= to stay) इति धातुः । तस्मात् कर्मणि-प्रयोगवाचकं भूतकालवाचकं च विशेषणम् “स्थित” (= staying at) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः द्विवचनम् च

३-८ माधवः “माधव” (= epithet of Krishna) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-९ पाण्डवः “पाण्डव” (= son of पाण्डु) इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-९-१ पाण्डोः अयम् (= one who is of पाण्डु) इति पाण्डवः ।

३-१० च (= and) इति अव्ययम् ।
३-११ एव “” (= only, also) इति अव्ययम्
३-१२ दिव्यौ “दिव्” १ प (= to shine) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “दिव्य” (= shining, brilliant) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३-१३ शङ्खौ “शङ्ख” (= conch-shell) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३-१४ प्रदध्मतुः “प्र + ध्मा” (= to blow loudly) इति धातुः । तस्य परोक्षभूतकाले प्रथमपुरुषे द्विवचनम् ।
३-१५ पाञ्चजन्यम्  “पाञ्चजन्य” (= name of the conch-shell of Krishna) इति विशेषनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-१६ हृषीकेशः “हृषीकेश” (= an epithet of Krishna) इति सामासिकं पुल्लिङ्गि नाम विशेषनाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१६-१ हृषीकाणां ईशः = हृषीकेशः । षष्ठी-तत्पुरुषः ।
  • ३-१६-२ हृषीकाणाम् “हृषीक” (= body-organ) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ३-१६-३ ईशः “ईश्” २ आ (= to command) इति धातुः । तस्मात् पुल्लिङ्गि नाम “ईश” (= one, who commands) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-१६-४ I wonder whether हृषीकेश also has a derivation from हृषी = pleasing and केश = hair. Hence हृषीकेश = one, who has pleasing hair

३-१७ देवदत्तम्  “देवदत्त” (= name of conch-shell of Arjuna) इति सामासिकं विशेषणम् । पुल्लिङ्गि विशेषनाम अपि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-१७-१ देवेन दत्तः इति देवदत्तः । तृतीया-तत्पुरुषः ।
  • ३-१७-२ देवेन “देव” (= God) इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • ३-१७-३ दत्तः “दा” १ प (= to give) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “दत्त” (= given) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-१७-४ देवदत्त = given by God

३-१८ धनञ्जयः “धनञ्जय” (= an epithet of Arjuna) इति सामासिकं विशेषणम् । पुल्लिङ्गि विशेषनाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१८-१ धनस्य जयः यस्य सः धनञ्जयः । बहुव्रीहिः ।
  • ३-१८-२ धनस्य “धन” (= wealth) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-१८-३ जयः “जि” १ प (= to conquer) इति धातुः । तस्मात् पुल्लिङ्गि नाम “जय” (= victory) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-१८-४ धनञ्जयः = one who acquires wealth by conquests. The definition of धनञ्जयः as given in महाभारतम् is “सर्वान् जनपदान् जित्वा वित्तमादाय केवलम् । मध्ये धनस्य तिष्ठामि तेनाहुर्मा धनञ्जयम् ।।” This means धनञ्जयः is one who conquers areas all around, brings wealth and stands amidst that wealth.

३-१९ पौण्ड्रम्  “पौण्ड्र” (= name of conch-shell of Bheema) इति पुल्लिङ्गि विशेषनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-२० दध्मौ “ध्मा” (= to blow) इति धातुः । तस्य परोक्षभूतकाले प्रथमपुरुषे एकवचनम् ।
३-२१ महाशङ्खम्  “महाशङ्ख” (= big conch-shell) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-२१-१ महान् शङ्खः = महाशङ्खः । कर्मधारयः ।
  • ३ -२१-२ महान् “महत्” (= big, huge, large) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२१-३ शङ्खः “शङ्ख” (= conch-shell) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२२ भीमकर्मा “भीमकर्मन्” (= one, who does frightful acts, or one, who is fearless in performing any task) इति सामासिकं पुल्लिङ्गि नाम विशेषनाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-२२-१ भीमं कर्म यस्य सः = भीमकर्मा । बहुव्रीहिः ।

३-२३ वृकोदरः “वृकोदर” (= one, who has belly like that of a वृक) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-२३-१ वृकस्य इव उदरं यस्य सः वृकोदरः । बहुव्रीहिः ।
  • ३-२३-२ वृकस्य “वृक” (= a wolf, a jackal, a hyena) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-२३-३ उदरम् “उदर” (= belly, stomach) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२४ अनन्तविजयम् “अनन्तविजय” (= name of conch-shell of YodhiShThira, one who signifies success without end) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-२४-१ न अन्तः यस्य सः इति अनन्तः । नञ्-बहुव्रीहिः ।
  • ३-२४-२ अनन्तः विजयः यस्य सः अनन्तविजयः । बहुव्रीहिः ।
  • ३-२४-३ अनन्तः “अनन्त” (= endless) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२४-४ विजयः “वि + जि” १ प (= to win) इति धातुः । तस्मात् पुल्लिङ्गि नाम “विजय” (= victory) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२५ राजा “राजन्” (= king) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-२६ कुन्तीपुत्र: “कुन्तीपुत्र” (= son of कुन्ती) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-२६-१ कुन्त्याः पुत्रः इति कुन्तीपुत्रः । षष्ठी-तत्पुरुषः ।
  • ३-२६-२ कुन्त्याः “कुन्ती” (= name of mother of पाण्डव-s) इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-२६-३ पुत्रः “पुत्र” (= son) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२७ युधिष्ठिरः “युधिष्ठिर” (= an epithet of the eldest PaaNDava, one, who is steadfast in battle) इति सामासिकं पुल्लिङ्गि नाम विशेषनाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-२७-१ युधि स्थिरः इति युधिष्ठिरः । “अलुक्”-सप्तमी-तत्पुरुषः ।
  • ३-२७-२ युधि “युध्” ४ आ (= to fight a war) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “युध्” (= war, battle) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • ३ -२७-३ स्थिरः “स्था” १ प (= to stay, to stay still) इति धातुः । तस्मात् विशेषणम् “स्थिर” (= still, unperturbed) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२८ नकुलः “नकुल” (= name of fourth PaaNDava) इति पुल्लिङ्गि विशेषनाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-२९ सहदेव: “सहदेव” (= name of fifth PaaNDava) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-२९-१ देवेन सह यः सः = सहदेवः । उपपद-बहुव्रीहिः ।
  • ३-२९-२ देवेन “देव” (= God) इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • ३-२९-३ सह (= with) इति अव्ययम् ।
  • ३-२९-४ सहदेव = one, who has company of God

३-३० सुघोष-मणिपुष्पकौ “सुघोष-मणिपुष्पक” (= names of conch-shells of नकुल and सहदेव respectively) इति सामासिकं पुल्लिङ्गि विशेषनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।

  • ३-३०-१ सुघोषः च मणिपुष्पकः च = सुघोष-मणिपुष्पकौ । इतरेतर-द्वन्द्वः ।
  • ३-३०-२ सुष्ठु घोषः यस्य सः सुघोषः । उपपद-बहुव्रीहिः ।
  • ३-३०-३ मणिभिः पुष्पकैः चित्रितः मणि-पुष्पकः । मध्यमपदलोपी समासः ।
  • ३-३०-४ सुष्ठु (= good) विशेषणात्मकं अव्ययम् ।
  • ३-३०-५ घोषः “घुष्” १ प, १० उ (= to make sound) इति धातुः । तस्मात् पुल्लिङ्गि नाम “घोष” (= sound, especially, hoarse sound) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-३०-६ मणिभिः “मणि” (= bead, decorative bead) इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।
  • ३-३०-७ पुष्पकैः “पुष्पक” (= small flower) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।
  • ३-३०-८ चित्रितः “चित्र्” १० प (= to draw, to decorate) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “चित्रित” (= decorated) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ ततः श्वेतै: हयै: युक्ते महति स्यन्दने स्थितौ माधवः पाण्डव: च दिव्यौ शङ्खौ प्रदध्मतुः एव ।
= Then Madhava and PaaNDava (here, Arjuna) also, seated in a large chariot, to which white horses had been yoked, loudly blew their divine conch-shells
  • ४-२ हृषीकेशः पाञ्चजन्यं (दध्मौ) धनञ्जयः च देवदत्तं (दध्मौ)।
= हृषीकेश blew his पाञ्चजन्य (and)  धनञ्जय (i.e. Arjuna) blew his देवदत्त
  • ४-३ वृकोदरः भीमकर्मा महाशङ्खं पौण्ड्रं दध्मौ = Large-bellied Bheema (known for his frightful acts or known for his fearlessness) blew (his) large conch-shell PauNDra
  • ४-४ राजा कुन्तीपुत्र: युधिष्ठिरः अनन्तविजयं (दध्मौ)” = The King YudhiShThira, son of Kunti (blew) his conch-shell Ananta-Vijaya.
  • ४-५ नकुलः सहदेव: च सुघोष-मणिपुष्पकौ (दध्मतुः) = Nakula and Sahadeva blew their Sughosh and MaNi-puShpaka.

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

ततः श्वेतैर्हयैर्युक्ते । वर्णाः ८
महति स्यन्दने स्थितौ । वर्णाः ८
माधवः पाण्डवश्चैव ।  वर्णाः ८
दिव्यौ शङ्खौ प्रदध्मतुः । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ Even the conch-shell of every prominent warrior had a name ! Every conch-shell must have been tuned to give out a special, distinguishing sound. By the distinguishing sound all would know, who has blown his conch-shell and is declaring being all-ready for the war !

६-२ Since conch-shell of every prominent warrior had a name I suspect whether conch-shell of भीष्म-पितामह had the name सिंहनाद. In shloka 12, meaning of the word सिंहनाद was given as “roar as of a lion”. That meaning is correct. But it could as well be name of his conch-shell !

६-३ There are many compound words and many adjectives in these shloka-s. All appropriately bring forth the personalities also. For example, everything about भीम is huge. His conch-shell is also a महाशङ्खः The name of his conch-shell पौण्ड्र has all harsh-sounding consonants, and vowels ! Incidentally the sounds in the letter ड्र make a Hindi word डर which means “fear”, which is inherent in the name भीम ! By the way, भीम is mentioned here, not as this being his proper name, but he is mentioned as भीमकर्मा i.e. one who indulges in frightful actions !

६-४ Out of curiosity about पाञ्चजन्य the name of conch of Shrikrishna, I find following information (Ref. http://www.indianexpress.com/oldStory/22372/) – “…the name Panchajanya may mean many things to many people. But here is the real story of Krishna’s conch, pure and free of other associations, the story that belongs to you and me from way back to forever.

As Nammalwar (‘Our Alwar’) the rock of Tamil Vaishnava mysticism says, “Karpar Ramapiranai allal mattrum karparo?” Learning about Lord Vishnu, why would anyone want to learn about anything else?

The Bhagvat Puran says that Krishna’s great war conch, Panchajanya, emerged in the churning of the Milk Ocean. Another tradition says that a titan, Shankasura, defeated the devas and plunged with the Vedas to the bottom of the sea. Lord Vishnu had to assume his second avatar, Matsya the Fish, to dive down and rescue the holy books and made a conch out of the asura’s skull. The story I grew up with takes us back to Sri Krishna’s student days in Rishi Sandipani’s ashram, where Sudama was his classmate.

They say our Lord was a meek, humble and obedient student who never shirked his chores and who inspired his classmates with great love. He had a wonderful memory and matchless strength. When his studies were completed, it was time to give his teacher gurudakshina. Divining hidden sorrow in Sandipani, he asked him what he would like. Wistfully, the sage asked if Krishna could possibly trace his son, kidnapped long ago by a sea monster called Panchajana. Straightaway, our Lord plumbed the depths of the ocean where he fought and vanquished the beast. Rescuing his guru’s son, he ground the monster’s bones and fashioned a fearful conch, the Paanchajanya—‘derived from Panchajana’— whose sound thereafter struck raw terror in the hearts of evildoers. But the innocent and the repentant feel the magic vibrations of ‘Om’.

One of the loveliest depictions of Panchajanya has to be that of Andal, pronounced Aan-daal, the 9th century Vaishnava mystic, whose love poems are still sung devotedly in the Tamil country. In the collection called Nachiyar Thirumozhi (Bhaktan ka Sri Shabad), she yearningly asks Panchajanya how the Lord’s lips smell. “Karpooram naarumo kamala poo naarumo?” Do they smell of camphor or lotuses, she wonders, envying the conch’s closeness to Krishna.

This passionate appeal seems to work at two levels. There is Andal’s undoubted physical longing for her splendid Lover. But, as the Chandogya Upanishad says, the Lord is “sarvagandah sarvarasah”, all perfumes and all tastes. So her desperate desire for darshan is also the soul’s yearning to merge with the Source of all love, strength and compassion. It is that sea-born Panchajanya whose magic we conjure with the conch in our puja room.”

शुभमस्तु ।

-o-O-o-

Advertisements