Learning together Sanskrit and GeetA (Chapter 1 verse 17, 18) – Post # 14

Learning together Sanskrit and GeetA (Chapter 1 verse 17, 18) – Post # 14
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकाः  १७, १८) अध्ययनस्य चतुर्दश: (१४) सोपानः ।
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१७||
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ।।१८।।
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

काश्य: च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्न: विराट: च सात्यकि: च अपराजितः ||१७||
द्रुपद: द्रौपदेया: च सर्वशः पृथिवीपते ।
सौभद्र: च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ।।१८।।

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ “पृथिवीपते, परमेष्वासः काश्य: च महारथः शिखण्डी च धृष्टद्युम्न: विराट: च अपराजितः सात्यकि: च द्रुपद: द्रौपदेया: च महाबाहुः सौभद्र: च सर्वशः पृथक् पृथक् शङ्खान् दध्मुः”  इति प्रधान-वाक्यम् ।

  • २-१-१ क्रियापदम् “दध्मुः” ।
  • २-१-२ कर्तृपदम् “परमेष्वासः काश्य: च महारथः शिखण्डी च धृष्टद्युम्न: विराट: च अपराजितः सात्यकि: च द्रुपद: द्रौपदेया: च महाबाहुः सौभद्र: च” ।
  • २-१-३ कर्मपदं “शङ्खान्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ काश्य: “काश्य” (= of काशी) इति तद्धितं * विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१-१ काश्याः अयम् इति काश्यः ।
  • ३-१-२ काश्याः “काशी” (= the pace or kingdom of काशी) इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

३-२ च (= and) इति अव्ययम् ।

३-३ परमेष्वासः “परमेष्वास” (= one, who wields an unparalleled bow) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-३-१ परमः इष्वासः यस्य सः परमेष्वासः । बहुव्रीहिः ।
  • ३-३-२ परमः “परम” (= unparalleled) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-३-३ इष्वासः “इष्वास” (= bow) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-४ शिखण्डी “शिखण्डिन्” (= having tuft of hair, son of Drupada*) इति तद्धितं * विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च । *See notes for more information

  • ३-४-१ शिखण्ड + इन् = शिखण्डिन् । इन् = अस्य अस्ति ।
  • ३-४-२ शिखण्ड: “शिखण्ड” (= tuft of hair) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-५ महारथः “महारथ” (= one, who has a big chariot, one who has earned the distinction of being called as महारथ) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-५-१ महान् रथः यस्य सः महारथः । बहुव्रीहिः ।
  • ३-५-२ महान् “महत्” (= large, big) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-५-३ रथः “रथ” (= chariot) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-५-४ As earlier detailed in Post # 4, A महारथ is defined as एको दशसहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्र-शास्त्र-प्रवीणश्च विज्ञेयः स महारथः ।। One who can alone fight against 10,000 archers and who is well-versed with the sciences (and techniques of) various arms and weapons is known as महारथ. Thus, “महारथ” = the title denoting prowess of a warrior.

३-६ धृष्टद्युम्न: “धृष्टद्युम्न” (= son of Drupada*) इति विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च । *See notes for more information

  • ३-६-१ धृष्टम् द्युम्नम् येन सः धृष्टद्युम्न: । बहुव्रीहिः ।
  • ३-६-२ धृष्टम् “धृष्” १ प १० उ (= to challenge) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “धृष्ट” (= challenged) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-६-३ द्युम्नम् “द्युम्न” (= ) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-६-४ धृष्टद्युम्नः = One, whose brilliance challenged brightness itself !

३-७ विराट: “विराट” (= name of king of Matayas) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-८ सात्यकि: “सात्यकि” (= name of charioteer of Krishna, was also an invincible warrior himself) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-९ अपराजितः “अपराजित” (= undefeated) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-९-१ न पराजितः इति अपराजितः । नञ्-तत्पुरुषः ।
  • ३-९-२ पराजितः “परा + जि” १ प (= to defeat) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “पराजित” (= defeated) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-१० द्रुपद: “द्रुपद” (= name of king of पाञ्चाल, father of धृष्टद्युम्न, द्रौपदी and शिखण्डी) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-११ द्रौपदेया: “द्रौपदेय” (= son of द्रौपदी) इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-११-१ द्रौपद्याः अयम् इति द्रौपदेयः । In patriarchal society sons are known by their father’s name. e.g. पाण्डोः अयम् (= one who is of पाण्डु) इति पाण्डवः । But, since द्रौपदी had five husbands, her sons are together mentioned here as द्रौपदेया:

३-१२ सर्वशः “सर्व + शः” (= all as such) इति तद्धितं अव्ययम् ।

  • ३-१२-१ सर्वशः = सर्व + शः ।
  • ३-१२-२ सर्व (= all) इति सर्वनाम ।
  • ३-१२-३ शः (= as such) इति प्रत्ययः । यथा एकशः (= one as such) खण्डशः (= part as such) व्यक्तिशः (= person (or myself) as such) ।

३-१३ पृथिवीपते “पृथिवीपति” (= Lord of the earth, king) इति सामासिकं पुल्लिङ्गि नाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१३-१ पृथिव्याः पतिः पृथिवीपतिः । षष्ठी-तत्पुरुषः ।
  • ३-१३-२ पृथिव्याः “पृथिवी” (= earth) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-१३-३ पतिः “पति” (= husband, Lord) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-१४ सौभद्र: “सौभद्र” (= son of सुभद्रा i.e. अभिमन्यु) इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-१४-१ सुभद्रायाः अयम् इति सौभद्रः । Since अर्जुन had both सुभद्रा and द्रौपदी as his wives, अभिमन्यु being son of सुभद्रा is also known by his mother’s name, hence सौभद्र: ।

३-१५ महाबाहुः “महाबाहु” (= ) इति सामासिकं विशेषणम् । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१५-१ महान्तौ बाहू यस्य सः महाबाहुः । बहुव्रीहिः ।
  • ३-१५-२ महान्तौ “महत्” (= ) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः द्विवचनम् च ।
  • ३-१५-३ बाहू “बाहु” (= ) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः द्विवचनम् च ।

३-१६ शङ्खान् “शङ्ख” (= ) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-१७ दध्मुः “ध्मा” (= to blow) इति धातुः । तस्य परोक्षभूतकाले प्रथमपुरुषे बहुवचनम् ।
३-१८ पृथक् (= ) इति अव्ययम् ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ पृथिवीपते, परमेष्वासः काश्य: च महारथः शिखण्डी च धृष्टद्युम्न: (च) विराट: च अपराजितः सात्यकि: च द्रुपद: (च) द्रौपदेया: च महाबाहुः सौभद्र: च सर्वशः पृथक् पृथक् शङ्खान् दध्मुः ।
= Oh ! Lord of the earth ! the king of Kashi, who wields an unparalleled bow, Shikhandee, who is well-known as one having a large chariot, DhruShtadyumna, (whose brilliance challenges the very concept of splendour) king VirATa, ever-undefeated Saatyakee, king Drupada, sons of Draupadee, (Abhimanyu) large-armed son of Subhadra they, all as such, blew their conches separately (distinguishingly).

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

काश्यश्च परमेष्वासः । वर्णाः ८
शिखण्डी च महारथः । वर्णाः ८
धृष्टद्युम्नो विराटश्च ।  वर्णाः ८
सात्यकिश्चापराजितः । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ When detailing the word काश्य: at ३-१ I used the term तद्धितं * विशेषणम् ।

  • Likewise at ३-१२ सर्वशः is mentioned as तद्धितं अव्ययम् ।
  • What is meant by तद्धितं is a word derived from such another word, which can have a pronoun तत् । Such words are eminently nouns and pronouns, known in Sanskrit grammar as सुबन्त-class of words ।

६-२ Names of these warriors on the side of पाण्डव-s were also mentioned earlier in shloka-s 4, 5, 6. Their repetition here gives an opportunity to know them better. For example,

  • ६-२-१ धृष्टम् द्युम्नम् येन सः धृष्टद्युम्न: । Story of धृष्टद्युम्न is – King द्रुपद performed a यज्ञ The deity of Fire was pleased with it and proffered him धृष्टद्युम्न and द्रौपदी So, as one who emanated from the fire of a यज्ञ it was natural that धृष्टद्युम्न was brilliant. His brilliance was so imposing that it challenged the very concept of splendour !
  • ६-२-२ शिखण्डी Following detail is given in Apte’s dictionary – शिखण्डी was born a girl child of द्रुपद But from her very birth the girl was given out as a male child and was brought up as such. In due course she was married to the daughter of king हिरण्यवर्मन् on knowing that his so-called “son-in-law” was a woman, हिरण्यवर्मन् planned to attack द्रुपद But शिखण्डी contrived, by practicing austere panance, to exchange her sex with a यक्ष and thus averted the calamity on her father.

६-३ Stories of births of various personalities in महाभारतम् present a panorama of science of gynecology !

  • ६-३-१ Births of कर्ण, पाण्डवाः धृष्टद्युम्न द्रौपदी can be eminently called as non-embryonic !
  • ६-३-२ Birth of द्रोण can be termed as surrogate !
  • ६ -३-३ Births of कौरवाः i.e. दुर्योधन and his 99 brothers and sister दुःशला become examples of test-tube babies !
  • ६-३-४ Birth of ऋष्यशृङ्ग can be called as an example of cloning
  • ६-३-५ The story here of शिखण्डी is a story of change of sex

६-४ The panorama of gynecology is just one example of claim of महाभारतम् that “यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ।” i.e. “Whatever is here may be elsewhere also (by adoption or by copying ?). What is not here, would not be anywhere else.” Hence, it is also said, व्यासोच्छिष्टं जगत्सर्वम् । i.e. whatever is there in the world, has already been tasted (spitted out) by व्यास !

शुभमस्तु ।

-o-O-o-

Advertisements