Learning together Sanskrit and GeetA (Chapter 1 verse 19) – Post # 15

Learning together Sanskrit and GeetA (Chapter 1 verse 19) – Post # 15
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकः  १९) अध्ययनस्य पञ्चदश: (१५) सोपानः ।
स घोषो धार्तराष्ट्राणाम् हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ||१९||
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

स: घोष: धार्तराष्ट्राणाम् हृदयानि व्यदारयत् ।
नभ: च पृथिवीं च एव तुमुलः व्यनुनादयन् ||१९||

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ “नभ: च पृथिवीं च एव व्यनुनादयन्”  इति विशेषणात्मक: गौण-वाक्यांशः ।

  • २-१-१ वर्तमानकालवाचकं विशेषणात्मकं  च धातुसाधितम् “व्यनुनादयन्” ।
  • २-१-२ विशेष्यपदम् “घोष:” ।
  • २-१-३ कर्मपदं “नभ: च पृथिवीं च” ।

२-२ “स: तुमुलः घोष: धार्तराष्ट्राणाम् हृदयानि व्यदारयत्” इति प्रधान-वाक्यम् ।

  • २-२-१ क्रियापदम् “व्यदारयत्” ।
  • २-२-२ कर्तृपदम् “घोषः” ।
  • २-२-३ कर्मपदम् “हृदयानि” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ सः “तत्” (= that) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२ घोषः “घोष” (= loud sound) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-३ धार्तराष्ट्राणाम् “धार्तराष्ट्र” (= son of धृतराष्ट्र) इति तद्धितं* विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।

  • ३-३-१ *धृतराष्ट्रस्य अयम् इति धार्तराष्ट्रः ।
  • ३-३-२ धृतराष्ट्रस्य “धृतराष्ट्र” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
    • ३-३-२-१ धृतं राष्ट्रं येन सः (= he who reigned the kingdom) = धृतराष्ट्रः । बहुव्रीहिः । अथवा –
    • ३-३-२-२ धृतः राष्ट्रेण (= he, who was accepted (as King) by the nation)= धृतराष्ट्रः । तृतीया-तत्पुरुषः ।
    • ३-३-२-३ धृतम् “धृ” १ उ ६ आ १० उ (= to be maintained o preserved) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “धृत” (= maintained or preserved) । अत्र नपुम्सकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-३-२-४ राष्ट्रम् “राष्ट्र” (= nation, kingdom, empire) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-३-२-५ धृतः “धृ” १ उ ६ आ १० उ (= to hold, to bear, to carry, to resolve upon) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “धृत” (= borne, resolved upon) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-३-२-६ राष्ट्रेण “राष्ट्र” (= nation, kingdom, empire) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।

३-४ हृदयानि “हृदय” (= heart, chest) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

३-५ व्यदारयत् “वि + दार्” १० प (?) (= to tear) इति धातुः । तस्य अनद्यतनभूतकाले प्रथमपुरुषे एकवचनम् ।

  • ३-५-१ A verb as वि + दार् is not to be found either in the on-line Monier-Williams’ dictionary http://www.ibiblio.org/sripedia/ebooks/mw/0500/mw__0508.html or in Apte’s dictionary with me.
  • ३-५-२ The verb here वि + दार् seems to be derived with causative meaning from the noun दर = gap, tear. In Sanskrit दशम-गणः seems to have a natural flavour for giving causative meaning.
  • ३-५-३ Sanskrit Poets seem to be taking quite some liberty in coining such verbs in दशम-गण e.g. “एरण्डोऽपि द्रुमायते” “वृष्टिभि: आर्द्रयन्ति” “बुद्-बुदायते” “शफरी फर्फरायते” “श्वानवत् गुर्गुरायते mostly derived from nouns such as दर, द्रुम or from an adjective such as आर्द्र or from just the sounds, like बुद् or फर् or गुर् One would not find such verbs in the dictionaries, much less the sounds as बुद् or फर् or गुर्

३-६ नभः “नभस्” (= sky) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-७ च (= and) इति अव्ययम् ।

३-८ पृथिवीम् “पृथिवी” (= earth) इति स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-९ एव (= also*) इति अव्ययम् ।

३-१० तुमुलः “तुमुल” (= tumultuous) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-११ व्यनुनादयन् “वि + अनु + नद्” १ प (= to resound) इति धातुः । तस्य प्रयोजकात् वर्तमानकालवाचकं विशेषणम् “व्यनुनादयन्” (= resounding, reverberating) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ नभ: च पृथिवीं च एव व्यनुनादयन् स: तुमुलः घोष: धार्तराष्ट्राणाम् हृदयानि व्यदारयत् ।
= That sound, which rent all the sky and even the earth reverberating, caused the hearts of sons of DhRutaraaShTra to be torn

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

स घोषो धार्तराष्ट्राणाम् । वर्णाः ८
हृदयानि व्यदारयत् । वर्णाः ८
नभश्च पृथिवीं चैव ।  वर्णाः ८
तुमुलो व्यनुनादयन् । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ The अन्वय of this shloka is interesting. Entire second line is adjectival, qualifying the noun घोषः in the first line. Since in a syntax, adjective has to precede the noun, it comes to mind whether the lines could have exchanged their order.

६-२ The common style of reciting a shloka in अनुष्टुभ् छन्दः would be to say it by four quarters. So, one would begin, saying “स घोषो धार्तराष्ट्राणाम्” That gives room for a misconception whether the घोष: was धार्तराष्ट्राणाम्. Actually the word धार्तराष्ट्राणाम् is adjectival to the word हृदयानि in the next quarter !

६-३ Also the word “तुमुलः” by its analysis as विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च । is considered in the अन्वय: above as adjectival to घोषः

  • ६-३-१ It could as well be तुमुलम् without faulting the meter. Then it would become adverbial to the धातुसाधितं “व्यनुनादयन्” । कथं व्यनुनादयन् ? तुमुलम् व्यनुनादयन् । Then, for doing अन्वय it does not become necessary to shift it nearer to घोषः in the first line.
  • ६-३-२ For most adjectives विशेषणानि their द्वितीया विभक्तिः makes them usable as adverbs i.e. as क्रियाविशेषणानि
  • ६ -३-३ In the case of many scriptures, especially those, which got passed down from generation to generation over thousands of years, it is natural that difference in wordings पाठभेदाः would creep in.
  • ६-३-४ If somebody with come forth saying, version known to him reads तुमुलम् व्यनुनादयन्, that also should be acceptable.

६-४ In नभश्च पृथिवीं चैव for the word एव (=also) seems to be more appropriate here than its most common meaning as एव = only.

६-५ It is interesting that the word व्यनुनादयन् has the causative sense in it. As such, nothing makes a noise by itself. Noise is caused to be emitted or noise is caused to happen in a thing, by externally imposed vibrations. Noise is caused to happen in strings of guitar only by striking on them. Lighter be a thing, it is easier to make noise to happen in it. So, it was no wonder that noise engulfed all the air, all the sky at the battlefield. But the घोषः was so tumultuous that the whole earth seemed to be so shaken, that the whole earth also started making noise ! That is how एव (= also) seems to be very forceful, poetic and intelligent use of the word एव !

६-६ When discussing with my wife, especially in the context of the phrase above, “noise is caused to happen in a thing, by externally imposed vibrations”, it transpired that in the realms of philosophy, they speak of अनाहत नाद (= unstruck sound), which is said to be highly rich and very elevating spiritual experience !

शुभमस्तु ।

-o-O-o-

Advertisements