संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकः २०+) अध्ययनस्य षोडश: (१६) सोपानः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ||२०||
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनु: उद्यम्य पाण्डवः ||२०||
हृषीकेशं तदा वाक्यं इदं आह महीपते ।
स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?
२-१ “(पाण्डवः) धार्तराष्ट्रान् व्यवस्थितान् दृष्ट्वा” इति क्रियाविशेषणात्मक: गौण-वाक्यांशः ।
- २-१-१ भूतकालवाचकं क्रियाविशेषणात्मकं धातुसाधितम् “दृष्ट्वा” ।
- २-१-२ अध्याहृतं कर्तृपदम् “(पाण्डवः)” ।
- २-१-३ कर्मपदं “धार्तराष्ट्रान्” ।
२-२ “शस्त्रसंपाते प्रवृत्ते” इति “सति-सप्तमी”-प्रयोगात्मकः गौण-वाक्यांशः ।
- २-२-१ भूतकालवाचकं विशेषणात्मकं धातुसाधितम् “प्रवृत्ते” ।
- २-२-२ कर्तृपदम् “शस्त्रसंपाते” ।
- २-२-३ “यदा शस्त्रसंपातः प्रवृत्तः तदा” इत्यर्थः ।
२-३ “(पाण्डवः) धनु: उद्यम्य” इति क्रियाविशेषणात्मक: गौण-वाक्यांशः ।
- २-३-१ भूतकालवाचकं क्रियाविशेषणात्मकं धातुसाधितम् “उद्यम्य” ।
- २-३-२ अध्याहृतं कर्तृपदम् “(पाण्डवः)” ।
- २-३-३ कर्मपदं “धनुः” ।
२-४ “पाण्डवः हृषीकेशं वाक्यम् आह” प्रधान-वाक्यम् ।
- २-४-१ क्रियापदं “आह” ।
- २-४-२ कर्तृपदं “पाण्डवः” ।
- २-४-३ पुरुषवाचकं कर्मपदं “हृषीकेशं” ।
- २-४-४ अन्यं कर्मपदं “वाक्यम्” ।
Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
३-१ अथ (= So, and then) इति अव्ययम् ।
३-२ व्यवस्थितान् “वि + अव + स्था ” (= to settle down into order, to disturb) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “व्यवस्थित” (= set into order, disturbed) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-३ दृष्ट्वा “दृश्” १ प (= to see) इति धातुः । तस्मात् भूतकालवाचकं त्वान्तं क्रियाविशेषणम् “दृष्ट्वा” (= on seeing) ।
३-४ धार्तराष्ट्रान् “धार्तराष्ट्र” (= son of धृतराष्ट्र) इति तद्धितं* विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
- ३-४-१ *धृतराष्ट्रस्य अयम् इति धार्तराष्ट्रः ।
- ३-४-२ धृतराष्ट्रस्य “धृतराष्ट्र” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
- ३-४-२-१ धृतं राष्ट्रं येन सः (= he who reigned the kingdom) = धृतराष्ट्रः । बहुव्रीहिः । अथवा –
- ३-४-२-२ धृतः राष्ट्रेण (= he, who was accepted (as King) by the nation)= धृतराष्ट्रः । तृतीया-तत्पुरुषः ।
- ३-४-२-३ धृतम् “धृ” १ उ ६ आ १० उ (= to be maintained o preserved) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “धृत” (= maintained or preserved) । अत्र नपुम्सकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- ३-४-२-४ राष्ट्रम् “राष्ट्र” (= nation, kingdom, empire) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- ३-४-२-५ धृतः “धृ” १ उ ६ आ १० उ (= to hold, to bear, to carry, to resolve upon) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “धृत” (= borne, resolved upon) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- ३-४-२-६ राष्ट्रेण “राष्ट्र” (= nation, kingdom, empire) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।
३-५ कपिध्वजः “कपिध्वज” (= one having monkey on his flag) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ३-५-१ कपिः ध्वजे यस्य सः कपिध्वजः । बहुव्रीहिः ।
- ३-५-२ कपिः “कपि” (= monkey, epithet of Hanuman) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ३-५-३ ध्वजे “ध्वज” (= flag) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
३-६ प्रवृत्ते “प्र + वृत्” १ आ (= to motivate, commence) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “प्रवृत्त” (= motivated, commenced) । अत्र पुल्लिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
३-७ शस्त्रसंपाते “शस्त्रसंपात” (= clash of arms) इति सामासिकं पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
- ३-७-१ शस्त्राणां संपातः शस्त्रसंपातः । षष्ठी-तत्पुरुषः ।
- ३-७-२ शस्त्राणाम् “शस्” १ प (= to cut) इति धातुः । तस्मात् उपकरण-वाचकं नपुंसकलिङ्गि नाम “शस्त्र” (= weapon, arm) । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
- ३-७-३ संपातः “सम् + पत्” १ प (= to clash) इति धातुः । तस्य प्रयोजकात् पुल्लिङ्गि नाम “संपात” (= clash) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-८ धनुः “धनु” (= bow) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-९ उद्यम्य “उत् + यम्” १ प (= to pick up) इति धातुः । तस्मात् भूतकालवाचकं ल्यबन्तं क्रियाविशेषणात्मकं अव्ययम् “उद्यम्य” (= on picking up) ।
३-१० पाण्डवः “पाण्डव” (= son of Pandu) इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ३-१०-१ पाण्डोः अयम् (= one who is of पाण्डु) इति पाण्डवः ।
३-११ हृषीकेशम् “हृषीकेश” (= an epithet of Krishna) इति सामासिकं पुल्लिङ्गि नाम विशेषनाम अपि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
- ३-११-१ हृषीकाणां ईशः = हृषीकेशः । षष्ठी-तत्पुरुषः ।
- ३-११-२ हृषीकाणाम् “हृषीक” (= body-organ) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
- ३-११-३ ईशः “ईश्” २ आ (= to command) इति धातुः । तस्मात् पुल्लिङ्गि नाम “ईश” (= one, who commands) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ३-११-४ I wonder whether हृषीकेश also has a derivation from हृषी = pleasing and केश = hair. Hence हृषीकेश = one, who has pleasing hair
३-१२ तदा (= then) इति अव्ययम् ।
३-१३ वाक्यम् “वाक्य” (= sentence, utterance) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-१४ इदम् (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-१५ आह “अह्” (= to say) इति अनियमितः धातुः । तस्य परोक्षभूते प्रथमपुरुषे एकवचनम् ।
३-१६ महीपते “महीपति” (= surface of earth) इति सामासिकं पुल्लिङ्गि वा नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
- ३-१६-१ मह्याः पतिः महीपतिः । षष्ठी-तत्पुरुषः ।
- ३-१६-२ मह्याः “मही” (= earth) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
- ३-१६-३ पतिः “पति” (= husband, Lord) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।
- ४-१ महीपते अथ धार्तराष्ट्रान् व्यवस्थितान् दृष्ट्वा शस्त्रसंपाते प्रवृत्ते धनु: उद्यम्य पाण्डवः हृषीकेशं इदम् वाक्यम् आह ।
Exercise 5 In what meter is this verse composed ?
To decipher the meter we have to set the verse into four quarters –
धार्तराष्ट्रान् कपिध्वजः । वर्णाः ८
प्रवृत्ते शस्त्रसंपाते । वर्णाः ८
धनुरुद्यम्य पाण्डवः । वर्णाः ८
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.
Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।
६–१ The अन्वय here is interesting. There are three गौण-वाक्यांशाः all composed by use of धातुसाधितानि – one त्वान्त, one ल्यबन्त and one “सति-सप्तमी”-प्रयोगात्मक:
६-२ This comment was prompted by my own misreading of the word महीपते as महीतले So, I have to delete this comment. Thanks of course to Shri. H. N. Bhat for pointing the grave mistake !
६-३ The word “व्यवस्थितान्” however appeals to be interesting, because it can have two meanings (= set into order, disturbed), which are opposite of each other. This is out of meanings deriving from the prefixes वि and अव
- ६-३-१ The prefix वि can lend interpretations as either विशेष or विरुद्ध
- ६-३-२ Also with the prefix अव, the verb स्था can lend अवस्था which can mean “state, which has settled down” (hence, “set order”) or “lower state” (hence “disturbed state”)
- ६ -३-३ Most commentators have however adopted the meaning व्यवस्थित = set into order.
-o-O-o-