Learning together Sanskrit and GeetA (Chapter 1 verses ’21 to 23) – Post # 17

Learning together Sanskrit and GeetA (Chapter 1 verses ’21 to 23) – Post # 17
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकाः ‘२१ तः २३) अध्ययनस्य सप्तदश: (१७) सोपानः ।
अर्जुन उवाच –
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ।।२१।।
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ।।२२।।
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ।।२३।।
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

अर्जुन: उवाच –
सेनयो: उभयो: मध्ये रथं स्थापय मे अच्युत ।।२१।।
यावत् एतान् निरीक्षे अहं योद्धुकामान् अवस्थितान् ।
कै: मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे ।।२२।।
योत्स्यमानान् अवेक्षे अहं ये एते अत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धे: युद्धे प्रिय-चिकीर्षवः ।।२३।।

Exercise 2 (a) Paraphrase the clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.

स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु

  • के अत्र वाक्यांशाः ?
  • कानि संबन्ध-सूचकानि ?
  • कानि क्रियापदानि वा धातुसाधितानि ?
  • कानि अत्र कर्तृपदानि ?
  • कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

  • २-१-१ अर्जुनः उवाच
  • २-१-२ अच्युत, उभयो: सेनयो: मध्ये मे रथं (तावत्) स्थापय
  • २-१-३ यावत् अहं एतान् अत्र अवस्थितान् योद्धुकामान् निरीक्षे
  • २-१-४ ये एते धार्तराष्ट्रस्य दुर्बुद्धे: युद्धे प्रिय-चिकीर्षवः समागताः
  • २-१-५ (यावत्) अहं (तान्) योत्स्यमानान् अवेक्षे (च)
  • २-१-६ कै: सह मया अस्मिन् रण-समुद्यमे योद्धव्यम्

२-२ वाक्यांशानां विश्लेषणानि

२-२-१ “अर्जुनः उवाच”  इति प्रधान-वाक्यांशः ।

  • २-२-१-१ क्रियापदम् “उवाच” ।
  • २-२-१-२ कर्तृपदम् “अर्जुनः” ।

२--२ “अच्युत, उभयो: सेनयो: मध्ये मे रथं (तावत्) स्थापय” इति कर्मपदवाचकः गौण-वाक्यांशः ।

  • २-२-२-१ क्रियापदम् “स्थापय” ।
  • २-२-२-२ अध्याहृतं कर्तृपदम् “(त्वम्)” ।
  • २-२-२-३ कर्मपदं “रथम्” ।

२-२-३ “यावत् अहं एतान् अत्र अवस्थितान् योद्धुकामान् निरीक्षे” इति क्रियाविशेषणात्मक: गौण-वाक्यांशः ।

  • २-२-३-१ संबन्धसूचकं क्रियाविशेषणात्मकं  अव्ययम् “यावत्” ।
  • २-२-३-२ क्रियापदं “निरीक्षे”
  • २-२-३-३ कर्तृपदम् “अहम्” ।
  • २-२-३-४ कर्मपदं “एतान्” ।

२-२-४ ये एते धार्तराष्ट्रस्य दुर्बुद्धे: युद्धे प्रिय-चिकीर्षवः समागताः ।

  • २-२-४-१ विशेषणात्मकं धातुसाधितं “समागताः” ।
  • २-२-४-२ संबन्धसूचक-पदं “ये” ।
  • २-२-४-३ संबन्धितं विशेष्य-पदं (२-२-३)-वाक्यांशे “एतान्”

२-२-५ “(यावत्) अहं (तान्) योत्स्यमानान् अवेक्षे (च)” इति क्रियाविशेषणात्मक: गौण-वाक्यांशः ।

  • २-२-५-१ अध्याहृतं संबन्धसूचकं क्रियाविशेषणात्मकं  अव्ययम् “(यावत्)” ।
  • २-२-५-२ क्रियापदं “अवेक्षे” ।
  • २-२-५-३ कर्तृपदं “अहम्”
  • २-२-५-४ कर्मपदं “(तान्) योत्स्यमानान्” ।

२-२-६ “कै: सह मया अस्मिन् रण-समुद्यमे योद्धव्यम्” इति विशेषणात्मकः गौण-वाक्यांशः ।

  • २-२-६-१ संबन्धसूचकं सर्वनाम “कैः सह” ।
  • २-२-६-२ विशेषणात्मकं कर्मणि-प्रयोगान्वितं धातुसाधितं “योद्धव्यम्” ।
  • २-२-६-३ कर्तृपदं “मया” ।
  • २-२-६-४ संबन्धितं विशेष्य-पदं (२-२-५)-वाक्यांशे “(तान्) योत्स्यमानान्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ अर्जुनः “अर्जुन” (= name of third पाण्डव) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२ उवाच “वच्” (= to say, to speak) इति धातुः । तस्य परोक्ष-भूतकाले प्रथमपुरुषे एकवचनम् ।

३-३ सेनयो: “सेना” (= army) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः द्विवचनम् च ।

३-४ उभयो: “उभय” (= both, two together, couple) इति विशेषणम् । अत्र स्त्रीलिङ्गि “उभया” । तस्य षष्ठी विभक्तिः द्विवचनम् च ।

३-५ मध्ये (= in the middle) इति अव्ययम् ।

३-६ रथम् “रथ” (= chariot) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-७ स्थापय “स्था” (= to stand) इति धातुः । तस्य प्रयोजकस्य आज्ञार्थे मध्यम-पुरुषे एकवचनम् ।

३-८ मे “अस्मद्” (= pronoun of first person, “I, we”) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

३-९ अच्युत (= not unsettled, steadfast)  इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-९-१ न च्युतः अच्युतः । नञ्-तत्पुरुषः ।
  • ३-९-२ च्युतः “च्यु” १ आ (= to fall down) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “च्युत” (= unsettled, fallen down) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-१० यावत् (= until, for as long as) इति संबन्धसूचकं अव्ययम् ।
३-११ एतान् “एतत्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-१२ निरीक्षे “निर् + ईक्ष्” १ आ (= to watch, to observe) इति धातुः । तस्य वर्तमानकाले उत्तमपुरुषे एकवचनम् ।
३-१३ अहम् “अस्मद्” (= pronoun of first person, “I, we”) इति सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१४ योद्धुकामान् “योद्धुकाम” (= one, who is desiring to fight) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

  • ३-१४-१ योद्धुम् कामः यस्य सः योद्धुकाम: । बहुव्रीहिः ।
  • ३-१४-२ Since much of योद्धुम् is retained in the formation of this compound word, it is very close to being a अलुक् समास ।

३-१५ अवस्थितान् “अव + स्था” (= to set into order) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “अवस्थित” (= set into order) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् ।
३-१६ कै: “किम्” (= what, which, who) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः बहुवचनम् च ।
३-१७ मया “अस्मद्” (= pronoun of first person, “I, we”) इति सर्वनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
३-१८ सह (= with) इति अव्ययम् ।
३-१९ योद्धव्यम् “युध्” ४ प (= to fight, to battle) इति धातुः । तस्मात् “तव्य”-प्रत्ययान्तं विध्यर्थि विशेषणम् “योद्धव्य” (= ) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-२० अस्मिन् “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
३-२१ रण-समुद्यमे “रण-समुद्यम” (= task of war undertaken together) इति सामासिकं पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ३-२१-१ रणस्य समुद्यमः रण-समुद्यमः । षष्ठी-तत्पुरुषः ।
  • ३-२१-२ रणस्य “रण” (= war) इति नपुंसकलिङ्गि अथवा पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-२१-३ समुद्यमः “सम् + उत् + यम्” १ प (= to undertake task together) इति धातुः । तस्मात् पुल्लिङ्गि नाम “समुद्यम” (= task undertaken together) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२२ योत्स्यमानान् “योत्स्यमान” (= worthy of fight) इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

  • ३-२२-१ योद्धुं योग्यता योत्स्यता = worthiness of fighting against
  • ३-२२-२ योत्स्यतायाः मानः यस्य सः योत्स्यमानः । बहुव्रीहिः । (= one who has worthiness of fighting against)
  • ३-२२-३ योद्धुम् “युध्” ४ प (= to fight, to battle) इति धातुः । तस्मात् “तुम्”-प्रत्ययान्तं अव्ययम् “योद्धुम्” (= for fighting) ।
  • ३-२२-४ Mr. G. Gangadharan Nair and Meera Hari comment that योत्स्यमान is future participle of verb “युध्” Hence योत्स्यमानाः = ये योत्स्यन्ते ते Those who will fight

३-२३ अवेक्षे “अव + ईक्ष्” १ आ (= to discern) इति धातुः । तस्य वर्तमानकाले उत्तमपुरुषे एकवचनम् ।
३-२४ ये “यत्” (= who, which) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-२५ एते “एतत्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-२६ अत्र (= here) इति अव्ययम् ।
३-२७ समागताः “सम् + आ + गम्” १ प (= to gather, to assemble) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “समागत” (= gathered, assembled) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-२८ धार्तराष्ट्रस्य “धार्तराष्ट्र” (= son of धृतराष्ट्र) इति तद्धितं* विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

  • ३-२८-१ *धृतराष्ट्रस्य अयम् इति धार्तराष्ट्रः ।
  • ३-२८-२ धृतराष्ट्रस्य “धृतराष्ट्र” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
    • ३-२८-२-१ धृतं राष्ट्रं येन सः (= he who reigned the kingdom) = धृतराष्ट्रः । बहुव्रीहिः । अथवा –
    • ३-२८-२-२ धृतः राष्ट्रेण (= he, who was accepted (as King) by the nation)= धृतराष्ट्रः । तृतीया-तत्पुरुषः ।
    • ३-२८-२-३ धृतम् “धृ” १ उ ६ आ १० उ (= to be maintained o preserved) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “धृत” (= maintained or preserved) । अत्र नपुम्सकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-२८-२-४ राष्ट्रम् “राष्ट्र” (= nation, kingdom, empire) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-२८-२-५ धृतः “धृ” १ उ ६ आ १० उ (= to hold, to bear, to carry, to resolve upon) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “धृत” (= borne, resolved upon) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-२८-२-६ राष्ट्रेण “राष्ट्र” (= nation, kingdom, empire) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।

३-२९ दुर्बुद्धे: “दुर्बुद्धि” (= one with vicious mind) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनं च ।

  • ३-२९-१ दुः + बुद्धिः = दुर्बुद्धिः । दुः = दुष्ट (दुष्टा) । दुष्टा बुद्धिः यस्य सः दुर्बुद्धिः । उपपद-बहुव्रीहिः ।
  • ३-२९-२ दुष्टा “दुष्” ४ प (= to fault, to malign) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “दुष्ट” । अत्र स्त्रीलिङ्गि “दुष्टा” (= faulted, maligned) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२९-३ बुद्धिः “बुध्” १ प ४ आ (= to know) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “बुद्धि” (= knowledge, intellect) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-३० युद्धे “युध्” ४ प (= to fight, to battle) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “युद्ध” (= ) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
३-३१ प्रिय-चिकीर्षवः “प्रिय-चिकीर्षु” (= one, who is desirous of deriving pleasure) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-३१-१ प्रियस्य चिकीर्षु प्रिय-चिकीर्षु । षष्ठी-तत्पुरुषः ।
  • ३-३१-२ प्रियस्य “प्री” ९ उ (= to please) इति धातुः । तस्मात् विध्यर्थि विशेषणम् “प्रिय” । अत्र नपुंसकलिङ्गि नाम (= likeable, what gives pleasure) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-३१-३ चिकीर्षु “कृष्” १ प (= to draw, to derive) इति धातुः । तस्मात् इच्छार्थि विशेषणम् “चिकीर्षु” (= desirous of deriving) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-३१-४ Meera Hari comments that कर्तुं इच्छु: चिकीर्षु: Hence, प्रियचिकीर्षव: meaning ” they who are eager to carry out the wishes”

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ अर्जुनः उवाच = Arjuna said
  • ४-२ अच्युत, उभयो: सेनयो: मध्ये मे रथं (तावत्) स्थापय = Oh, you the steadfast one, please place my chariot in the middle of the two armies for so long as
  • ४-३ यावत् अहं एतान् अत्र अवस्थितान् योद्धुकामान् निरीक्षे = I shall see these warriors here
  • ४-४ ये एते धार्तराष्ट्रस्य दुर्बुद्धे: युद्धे प्रिय-चिकीर्षवः समागताः = who have assembled desirous of deriving pleasure, in this battle of the vicious-minded son of धृतराष्ट्र
  • ४-५ (यावत्) अहं (तान्) योत्स्यमानान् अवेक्षे (च) = (and for so long as) I shall discern who are appropriate for me to be fighting against
  • ४-६ कै: सह मया अस्मिन् रण-समुद्यमे योद्धव्यम् = with whom I should fight in this battle

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

सेनयोरुभयोर्मध्ये । वर्णाः ८
रथं स्थापय मेऽच्युत । वर्णाः ८
यावदेतान्निरीक्षेऽहं ।  वर्णाः ८
योद्धुकामानवस्थितान् । वर्णाः ८
कैर्मया सह योद्धव्यम् । वर्णाः ८
अस्मिन् रणसमुद्यमे । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ The अन्वय here is interesting. There are as many six clauses here. many composed by use of धातुसाधितानि – one “तव्य”-प्रत्ययान्त and a couple of them with भूतकालवाचकं विशेषणम्

६-२ Use of prefixes निर् and अव with the verb ईक्ष् bring forth how the verb ईक्ष् implies in its meaning not just seeing, but making also a mental note.

६-३ The derivation of the words योत्स्यमानान् and प्रिय-चिकीर्षवः seem to be very complex. I hope, I have detailed them right.

शुभमस्तु ।

-o-O-o-

Advertisements