Learning together Sanskrit and GeetA (Chapter 1 verses 24 + 25) – Post # 18

Learning together Sanskrit and GeetA (Chapter 1 verses 24 + 25) – Post # 18
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकाः २४ + २५) अध्ययनस्य अष्टदश: (१८) सोपानः ।

संजय उवाच –
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ।।२४।।
भीष्मद्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ।।२५।।
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

संजय: उवाच –
एवं उक्तः हृषीकेशः गुडाकेशेन भारत ।
सेनयो: उभयो: मध्ये स्थापयित्वा रथोत्तमम् ।।२४।।
भीष्मद्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्य एतान् समवेतान् कुरून् इति ।।२५।।

Exercise 2 (a) Paraphrase the clauses

2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.

स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु

  • के अत्र वाक्यांशाः ?
  • कानि संबन्ध-सूचकानि ?
  • कानि क्रियापदानि वा धातुसाधितानि ?
  • कानि अत्र कर्तृपदानि ?
  • कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

  • २-१-१ संजयः उवाच भारत,
  • २-१-२ गुडाकेशेन एवं उक्तः हृषीकेशः
  • २-१-३ रथोत्तमम् उभयो: सेनयो: मध्ये भीष्मद्रोण-प्रमुखतः सर्वेषां महीक्षिताम् च (प्रमुखतः) स्थापयित्वा
  • २-१-४ पार्थ एतान् समवेतान् कुरून् पश्य
  • २-१-५ इति उवाच

२-२ वाक्यांशानां विश्लेषणानि

२-२-१ “संजयः उवाच”  इति प्रधान-वाक्यांशः ।

  • २-२-१-१ क्रियापदम् “उवाच” ।
  • २-२-१-२ कर्तृपदम् “संजयः” ।
  • २-२-१-३ संबोधनात्मकं पदं “भारत” ।

२--२ “गुडाकेशेन एवं उक्तः” इति विशेषणात्मकः गौण-वाक्यांशः ।

  • २-२-२-१ कर्मणि-प्रयोगान्वितं धातुसाधितम् “उक्तः” ।
  • २-२-२-२ तृतीया-विभक्ति-युतं कर्तृपदम् “गुडाकेशेन” ।
  • २-२-२-३ विशेष्यपदं “हृषीकेशः” (२-१-५)-वाक्यांशे ।

२-२-३ “रथोत्तमम् उभयो: सेनयो: मध्ये भीष्मद्रोण-प्रमुखतः सर्वेषां महीक्षिताम् च (प्रमुखतः) स्थापयित्वा” इति क्रियाविशेषणात्मक: गौण-वाक्यांशः ।

  • २-२-३-१ संबन्धसूचकं क्रियाविशेषणात्मकं  धातुसाधितम् “स्थापयित्वा” ।
  • २-२-३-२ अध्याहृतं कर्तृपदम् “(हृषीकेशः)”
  • २-२-३-३ कर्मपदं “रथोत्तमम्” ।

२-२-४ “पार्थ एतान् समवेतान् कुरून् पश्य” इति कर्मपदवाचकः गौण-वाक्यांशः ।

  • २-२-४-१ क्रियापदं “पश्य” ।
  • २-२-४-२ अध्याहृतं कर्तृपदं “(त्वम्)” ।
  • २-२-४-३ कर्मपदं “कुरून्” ।
  • २-२-४-४ संबोधनात्मकं पदं “पार्थ” ।

२-२-५ “इति हृषीकेशः उवाच” इति कर्मपदवाचक: गौण-वाक्यांशः ।

  • २-२-५-१ संबन्धसूचकं कर्मपदात्मकं  अव्ययम् “इति” ।
  • २-२-५-२ क्रियापदं “उवाच” ।
  • २-२-५-३ कर्तृपदं “हृषीकेशः” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ संजयः “संजय” (= name of charioteer of धृतराष्ट्र) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२ उवाच “वच्” २ प (= to say, to speak) इति धातुः । तस्य परोक्ष-भूतकाले प्रथमपुरुषे एकवचनम् ।

३-३ एवम् (= thus) इति अव्ययम् ।

३-४ उक्तः “वच्” २ प (= to say, to speak) इति धातुः । तस्मात् कर्मणि-प्रयोगान्वितं भूतकालवाचकं विशेषणम् “उक्त” (= one, who is spoken to) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-५ हृषीकेशः “हृषीकेश” (= an epithet of Krishna) इति सामासिकं पुल्लिङ्गि नाम विशेषनाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-५-१ हृषीकाणां ईशः = हृषीकेशः । षष्ठी-तत्पुरुषः ।
  • ३-५-२ हृषीकाणाम् “हृषीक” (= body-organ) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ३-५-३ ईशः “ईश्” २ आ (= to command) इति धातुः । तस्मात् पुल्लिङ्गि नाम “ईश” (= one, who commands) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-५-४ हृषीकेश also has a derivation from हृषी = pleasing and केश = hair. Hence हृषीकेश = one, who has pleasing hair

३-६ गुडाकेशेन “गुडाकेश” (= an epithet of अर्जुन) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि नाम अपि । तस्य तृतीया विभक्तिः एकवचनम् च ।

  • ३-६-१ I wonder whether the word is derived as
    • गुडः केशेषु यस्य सः (बहुव्रीहिः) one, who has tied his hair around a ball since गुडः means a ball
    • गुडाः इव केशाः यस्य सः one, who has hair like cotton. This meaning derives, when गुडा is taken to mean cotton and in turn hair being white in color.
    • I am thankful to many people who have given following explanation. – “Meera Hari <balasaraswathi.hari@gmail.com> wrote – गुडाकेशस्य  विग्रहवाक्यं एवं भवेत् इति चिन्तयामि “गुडाकाया:  (sloth sleep) ईश: -he, who has subjugated sleep
    • Dr. Hari Narayana Bhat B.R., EFEO, PONDICHERRY has very kindly provided a very detailed explanation as follows – गुडाकायाः = निद्रायाः, ईशः – तेन, जितालस्येन, सर्वत्र सावधानेन, अर्जुनेन। इति मधुसूदनसरस्वती;
      गुडाका = निद्रा, तस्या: ईशेन – जितनिद्रेण, इति श्रीधरस्वामी;
      “निद्रा गुडाका प्रोक्ता प्रमीला मृत्युतन्द्रिका” इति कोशः।
      अर्जुनेन यदेन्द्रकीलके विनिद्रेण तपस्तप्तं तदा पशुपतिना गुडाकेशो ऽयमित्युक्तमिति पुराणान्तरे।
      गुडाकेशेन =  युद्धोद्योगलक्षणकेशबन्धविशिष्टेन। अत्र निश्चितयुद्धत्वेन तदर्जुननिर्देश इति भाव इति हंसयोगिभाष्यम्।
      गुडाः = कुटिलाः, केशाः यस्येति विग्रहः साधुः, “मुखं मुकुन्दस्य गुडालकावृत्तम्”” इति भागवतात् (१.१०.१७);
      गुडैः स्निग्धैस्तथा कृष्णैरभिन्नग्रैस्तथैव हि। केशैर्न चातिबहुलैर्मृदुभिः पार्थिवो भवेत्॥ इति च कोशः।
      “गुडा गुडिका” = स्नुही-वृक्षः इति मेदिनीकोशः, उशीरी इति राजनिघण्टुश्च। गुडाशब्देन समासे उपर्युक्तो ऽर्थो दुर्लभः।
      गुडयति = संकोचयति जडीकरोति देहेन्द्रियाणि, इति यो ऽवस्थाविशेषः, स गुडः, तम्, आकायति (कै गै – शब्दे) = जृम्भणशब्देन प्रकाशयति – इति गुडाका = आलस्यम्; गुडाम् = आलस्यावस्थाम्, कायतीति वा; (गुडा + क+आ) इति उपरिव्याख्यानाधारा व्युत्पत्तिः।

      “गुड् | तु० सेट् प० | गुड रक्षायाम् ६. ९७” इति धातोर्वा, अप्रत्यये, गु | भ्वा० अनिट् आ० | गुङ् अव्यक्ते शब्दे १. ११०० |

      इति धातोः,  गवते = अव्यक्तं शब्दं करोति इति उणादिप्रत्ययेन ड-प्रत्ययेन निष्पन्नः गुडशब्दः, नानार्थकः, विंशत्यधिकार्थेषु रूढः, तस्य केशशब्देन समासे गुडकेश इत्येव स्यात्. न तु गुडा-केश इति।

३-७ भारत (= descendant of भरत) इति पुल्लिङ्गि विशेषनाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-७-१ भरतस्य अयम् इति भारतः । One, whose forefather was King Bharat.
  • ३-७-२ Alternate name of India is भारतदेशः and is said to derive from King Bharat having ruled the spread of India. King Bharat was son of Dushyanta and Shakuntala. Since Dushyanta lost al memory of his love-marriage गान्धर्व-विवाह with Shakuntala, she looked after her son in the jungles. Since childhood was fearless and valorous, which was in evidence when, even as a child he would play even with cubs of lions

३-८ सेनयोः  “सेना” (= army) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः द्विवचनम् च । “अस्मद्” (= pronoun of first person, “I, we”) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

३-९ उभयो: “उभय” (= both, two together, couple) इति विशेषणम् । अत्र स्त्रीलिङ्गि “उभया” । तस्य षष्ठी विभक्तिः द्विवचनम् च ।

  • Dr. Hari Narayana Bhat B.R., EFEO, PONDICHERRY has very kindly provided a very detailed correction as follows -उभशब्दः सर्वनामसंज्ञकः, नित्यं द्विवचनान्तः, उभौ इति, तस्य स्त्रीलिङ्गे, उभे इति, तयोरिति षष्ठी – “उभयोः” इति । and not उभय which will be generally used in singular or plural. उभयं तत् संमतमेव; उभये देवमनुष्याः;  and not dvivacanam
  • उभौ अवयवौ यस्य अवयविनः सः उभयो मणिः । उभय; उभयशब्दस्य द्विवचनं नास्तीति कैयटः, अस्तीति हरदत्तः ।
  • Referring to Apte’s dictionary I find that both उभ and उभय are mentioned and detailed separately and both are mentioned as pronouns just as said by Dr. Bhat “उभशब्दः सर्वनामसंज्ञकः”
  • In respect of pronoun उभय the dictionary mentions its feminine form स्त्रीलिङ्गि to be उभयी So my mention as अत्र स्त्रीलिङ्गि “उभया” is certainly wrong. Also षष्ठी विभक्तिः द्विवचनम् of उभया, if at all valid, will become उभययोः not उभयोः So, with the correction provided by Dr. Bhat the analysis at (३-९) should read
  • उभयो: “उभ” इति सर्वनाम । अत्र स्त्रीलिङ्गि “उभे” । तस्य षष्ठी विभक्तिः द्विवचनम् च ।

३-१० मध्ये (= in the middle) इति अव्ययम् ।
३-११ स्थापयित्वा “स्था” (= to stand) इति धातुः । तस्य प्रयोजकात् भूतकालवाचकं अव्ययम् “स्थापयित्वा” (= on setting) ।
३-१२ रथोत्तमम् “रथोत्तम” (= the best of chariots) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-१२-१ उत्तमः रथः रथोत्तमः । कर्मधारयः ।
  • ३-१२-२ उत्तमः “उत्तम” (= the best) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-१२-३ रथः “रथ” (= chariot) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • Dr. Hari Narayana Bhat B.R., EFEO, PONDICHERRY has very kindly provided an alternative रथेषु उत्तमः – रथोत्तमः । “पुरुषोत्तम”-वत् समासः ।

३-१३ भीष्मद्रोण-प्रमुखतः (= in front of भीष्म and द्रोण) इति सामासिकं अव्ययम् ।

  • ३-१३-१ भीष्मः च द्रोणः च = भीष्मद्रोणौ । इतरेतर-द्वन्द्वः ।
  • ३-१३-२ भीष्मद्रोणयोः प्रमुखतः इति भीष्मद्रोण-प्रमुखतः । अव्ययीभावः ।
  • ३-१३-३ भीष्मः “भीष्म” (= name of grand-father of कौरव-s and पाण्डव-s) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-१३-४ द्रोणः “द्रोण” (= name of teacher of कौरव-s and पाण्डव-s) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-१३-५ प्रमुखतः (= in front of, facing) इति सामासिकं अव्ययम् ।
    • ३-१३-५-१ मुखम् प्रति = प्रमुखम् । अव्ययीभावः ।
    • ३-१३-५-२ “तः” = “यथा भवेत् तथा” (= as will become) अव्ययात्मकः प्रत्ययः ।
    • ३-१३-५-३ यथा प्रमुखं भवेत् तथा = प्रमुखतः ।
  • Dr. Hari Narayana Bhat B.R., EFEO, PONDICHERRY commented –

३-१४ सर्वेषाम् (= all) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
३-१५ महीक्षिताम् “महीक्षित्” (= ruler) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।

  • ३-१५-१ महीं क्षयति इति महीक्षित् । उपपद-तत्पुरुषः ।
  • ३-१५-२ महीम् “मही” (= earth) इति स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३-१५-३ क्षित् “क्षि” १ प (= to reign, to rule) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “क्षित्” (= ruler) ।

३-१६ पार्थ (= an epithet of Arjuna) इति पुल्लिङ्गि विशेषनाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।
३-१७ पश्य “दृश्” १ प (= to see) इति धातुः । तस्य आज्ञार्थे मध्यम-पुरुषे एकवचनम् ।
३-१८ एतान् “एतत्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-१९ समवेतान् “सम् + अव + इ” २ प (= to descend together) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “समवेत” (= he, who has descended along with others) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनं च ।
३-२० कुरून् “कुरु” (= descendant of कुरु family) इति पुल्लिङ्गि विशेषनाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-२१ इति (= thus, so) इति अव्ययम् ।

Exercise 4 Arrange the passage in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ संजयः उवाच भारत, =  Sanjaya said
  • ४-२ गुडाकेशेन एवं उक्तः हृषीकेशः = Hrusheekesha, who was thus spoken to by Arjuna
  • ४-३ रथोत्तमम् उभयो: सेनयो: मध्ये भीष्मद्रोण-प्रमुखतः सर्वेषां महीक्षिताम् च (प्रमुखतः) स्थापयित्वा = on placing the chariot in the middle of the two armies and facing BheeShma, Drona and all the rulers
  • ४-४ पार्थ एतान् समवेतान् कुरून् पश्य = Hey Paartha, see these descendants of Kuru, who have condescended here.
  • ४-५ इति उवाच = said so.
  • ४-६ By rearranging the syntax of English translation –
Sanjaya said to the King (addressing him as Bhaarata), “हृषीकेश (i.e. Krishna)upon having been so told by Gudaakesha (i.e. Arjuna) placed the chariot in the middle of the two armies facing BheeShma, Drona and all the rulers and said this to Arjuna, “Hey Paartha (i.e. Arjuna), “see these descendants of Kuru, who have condescended here.”

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

एवमुक्तो हृषीकेशो । वर्णाः ८
गुडाकेशेन भारत । वर्णाः ८
सेनयोरुभयोर्मध्ये ।  वर्णाः ८
स्थापयित्वा रथोत्तमम् । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ The अन्वय here is interesting. The verb उवाच is used twice. It makes the main clause in संजयः उवाच and it is in a subclause, in हृषीकेशः उवाच

६-२ All narration in Sanskrit is direct. There is no indirect narration.

६-३ Absence of indirect narration makes it important to understand the अन्वय and inter-relationships between clauses.

शुभमस्तु ।

-o-O-o-

Advertisements