Learning together Sanskrit and GeetA (Chapter 1 verses 26, 27+) – Post # 19

Learning together Sanskrit and GeetA (Chapter 1 verses 26, 27+) – Post # 19
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकौ २६ + २७) अध्ययनस्य एकोनविंशतितमः (१९) सोपानः ।

तत्रापश्यत्स्थितान् पार्थः पितॄनथ पितामहान् ।
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन्स्तथा ।।२६।।
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेय सर्वान् बन्धूनवस्थितान् ।।२७।।
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

तत्र अपश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् ।
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् तथा ।।२६।।

श्वशुरान् सुहृद: च एव सेनयो: उभयो: अपि ।
तान् समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान् ।।२७।।
कृपया परया आविष्टः विषीदन् इदम् अब्रवीत् ।

Exercise 2 (a) Paraphrase the clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.

स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु

  • के अत्र वाक्यांशाः ?
  • कानि संबन्ध-सूचकानि ?
  • कानि क्रियापदानि वा धातुसाधितानि ?
  • कानि अत्र कर्तृपदानि ?
  • कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

  • २-१-१ पार्थः तत्र उभयो: सेनयो: अपि स्थितान् पितॄन् अथ पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् तथा सखीन् श्वशुरान् सुहृद: च एव अपश्यत् ।
  • २-१-२ तान् सर्वान् बन्धून् अवस्थितान् समीक्ष्य
  • २-१-३ परया कृपया आविष्टः सः विषीदन् कौन्तेयः इदम् अब्रवीत् ।

२-२ वाक्यांशानां विश्लेषणानि

२-२-१ “पार्थः तत्र उभयो: सेनयो: अपि स्थितान् पितॄन् अथ पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् तथा सखीन् श्वशुरान् सुहृद: च एव अपश्यत्”  इति प्रधान-वाक्यांशः ।

  • २-२-१-१ क्रियापदम् “अपश्यत्” ।
  • २-२-१-२ कर्तृपदम् “पार्थः” ।
  • २-२-१-३ कर्मपदसमुच्चयः “पितॄन् अथ पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् तथा सखीन् श्वशुरान् सुहृद: च” ।

२--२ “तान् सर्वान् बन्धून् अवस्थितान् समीक्ष्य” इति क्रियाविशेषणात्मकः गौण-वाक्यांशः ।

  • २-२-२-१ भूतकालवाचकं  धातुसाधितम् “समीक्ष्य” ।
  • २-२-२-२ अध्याहृतं कर्तृपदम् “सः” ।
  • २-२-२-३ कर्मपदसमुच्चयः “तान् सर्वान् बन्धून्” ।

२-२-३ “परया कृपया आविष्टः” इति विशेषणात्मक: गौण-वाक्यांशः ।

  • २-२-३-१ कर्मणि-प्रयोगान्वितं भूतकालवाचकं विशेषणात्मकं  धातुसाधितम् “आविष्टः” ।
  • २-२-३-२ अध्याहृतं कर्तृपदम् “सः”
  • २-२-३-३ तृतीया-विभक्तियुतं कर्मपदं “कृपया” ।

२-२-४ “सः विषीदन् कौन्तेयः इदम् अब्रवीत्” इति प्रधान-वाक्यांशः ।

  • २-२-४-१ क्रियापदं “अब्रवीत्” ।
  • २-२-४-२ कर्तृपदं “कौन्तेयः” ।
  • २-२-४-३ कर्मपदं “इदम्” ।
  • २-२-४-४ कर्तृपदविस्तारः “सः विषीदन्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ तत्र (= there) इति अव्ययम् ।

३-२ अपश्यत् “दृश्” १ प. (= to see, to sight) इति धातुः । तस्य अनद्यतन-भूतकाले प्रथमपुरुषे एकवचनम् ।

३-३ स्थितान् “स्था” १ प. (= to stand) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “स्थित” (= one, who has stood) । अत्र तस्य द्वितीया विभक्तिः बहुवचनम् च ।

३-४ पार्थः “पार्थ” (= an epithet of Arjuna) इति तद्धितं पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-४-१ पृथायाः अयम् इति पार्थः ।
  • ३-४-२ पृथायाः “पृथा” (= name of कुन्ती) इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

३-५ पितॄन् “पितृ” (= father) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

३-६ अथ (= as also) इति अव्ययम् ।

३-७ पितामहान् “पितामह” (= grandfather) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

३-८ आचार्यान् “आचार्य” (= teacher, precept) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

३-९ मातुलान् “मातुल” (= maternal) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

३-१० भ्रातॄन् “भ्रातृ” (= brother) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-११ पुत्रान् “पुत्र” (= son) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-१२ पौत्रान् “पुत्र” (= grandson) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-१३ सखीन् “सखी” (= friend) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-१४ तथा (= also) इति अव्ययम् ।
३-१५ श्वशुरान् “श्वशुर” (= father-in-law) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-१६ सुहृद: “सुहृद्” (= a close friend) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

  • ३-१६-१ सुष्ठु हृद् यस्य सः सुहृत् । उपपद-तत्पुरुषः ।
  • ३-१६-२ सुष्ठु (= good) इति विशेषणात्मकं अव्ययम् ।
  • ३-१६-३ हृद् (= mind, heart) इति नपुंसकलिङ्गि नाम । This word does not have declensions in first five cases and is optionally substituted by हृदय But the compounded word such as सुहृद् has declensions, for example सुहृद: being declension of second case plural द्वितीया विभक्तिः बहुवचनम् च ।

३-१७ च (= and) इति अव्ययम् ।
३-१८ एव (= also, only) इति अव्ययम् ।
३-१९ सेनयो: “सेना” (= army) इति स्त्रीलिङ्गि नाम । तस्य सप्तमी विभक्तिः द्विवचनम् च ।
३-२० उभयो: “उभ” (= both, two together, couple) इति द्विवचनात्मकं विशेषणम् । अत्र स्त्रीलिङ्गि “उभे” । तस्य सप्तमी  विभक्तिः द्विवचनम् च ।
३-२१ अपि (= also) इति अव्ययम् ।
३-२२ तान् तत् (= that) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-२३ समीक्ष्य “सम् + ईक्ष्” १ आ (= to overview) इति धातुः । तस्मात् भूतकालवाचकं क्रियाविशेषणात्मकं अव्ययम् “समीक्ष्य” (= on overviewing)
३-२४ सः तत् (= that)) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-२५ कौन्तेयः “कौन्तेय” (= son of कुन्ती) इति तद्धितं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-२५-१ कुन्त्याः अयम् इति कौन्तेयः ।
  • ३-२५-२ कुन्त्याः “कुन्ती” (= name of princess of the kingdom known as कुन्ति) इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-२५-३ Apte’s dictionary gives following information about कुन्ती mentioning “name of पृथा, daughter of a यादव named शूर, adopted as daughter by King “कुन्तिभोज” She was the first wife of पाण्डु the prince of हस्तिनापुर As he was prevented by a curse from having progeny, पाण्डु allowed her to make use of a boon, she had acquired from sage दुर्वास, by means of which, any God, whom she would like to invoke would bless her with a son. She invoked धर्म (i.e. यम), वायु and इन्द्र and had युधिष्ठिर भीम and अर्जुन respectively. She also had कर्ण, when she had invoked deity सूर्य in her virginhood to test the efficacy of the boon.

३-२६ सर्वान् “सर्व” (= all) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-२७ बन्धून् “बन्धु” (= relative) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-२८ अवस्थितान् (= to settle down) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “अवस्थित” (= one, who has settled down) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-२९ कृपया “कृपा” (= compassion) इति स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
३-३० परया “पर” (= extreme) इति विशेषणम् । अत्र स्त्रीलिङ्गि “परा” । तस्य तृतीया विभक्तिः एकवचनम् च ।
३-३१ आविष्टः “आ + विष्” ३ उ (= ) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “आविष्ट” (= ) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-३२ विषीदन् “वि + सद्” १ प (= to be despirited, to be sorrowful) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “विषीदन्” (= despondent) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-३२-१ Apte’s dictionary explains – the स् of सद् changes to ष् when the prefix उपसर्ग has ending vowel इ or उ except प्रति. Here the prefix वि has ending vowel इ

३-३३ इदम् (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-३४ अब्रवीत् “ब्रू” २ उ (= to say) इति धातुः । तस्य अनद्यतन-भूतकाले प्रथमपुरुषे एकवचनम् ।

Exercise 4 Arrange the verses in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ पार्थः तत्र उभयो: सेनयो: अपि स्थितान् पितॄन् अथ पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् तथा सखीन् श्वशुरान् सुहृद: च एव अपश्यत् । =  There Paartha (i.e. Arjuna) saw among both the armies fathers, grandfathers, precepts, maternals, brothers, sons, grandsons, friends, fathers-in-law, intimate friends.
  • ४-२ तान् सर्वान् बन्धून् अवस्थितान् समीक्ष्य = On seeing all relatives (and acquaintances) settled (for war)
  • ४-३ परया कृपया आविष्टः सः विषीदन् कौन्तेयः इदम् अब्रवीत् । = overcome by extreme compassion and rent with grief Kaunteya (i.e. Arjuna) said this –

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

तत्रापश्यत्स्थितान् पार्थः । वर्णाः ८
पितॄनथ पितामहान् । वर्णाः ८
आचार्यान् मातुलान् भ्रातॄन् ।  वर्णाः ८
पुत्रान् पौत्रान् सखीन्स्तथा । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ Although clauses (२-२-१) and (२-२-४) have been identified as main clauses प्रधान-वाक्यांश-s considering that they follow the true main clause “संजयः उवाच” in Post # 18, in that context they are sub-clauses.

६-२ These verses, especially the words परया कृपया आविष्टः and सः विषीदन् कौन्तेयः are the starting point of the background, which prompted the whole of Geetaa to happen.

६-३ The mention of Arjuna as गुडाकेश (meaning ‘ever alert’) in the previous verses and mention here of his becoming परया कृपया आविष्टः and विषीदन् become sort of a poetic paradox !

शुभमस्तु ।

-o-O-o-

Advertisements