Learning together Sanskrit and GeetA (Chapter 1 verses -31 to 35)

Learning together Sanskrit and GeetA (Chapter 1 verses -31 to 35)
गीतान्वेषणं प्रथमाध्यायस्य (1-31-तः 1-35-पर्यन्तानां) श्लोकानाम् ।
न च श्रेयोऽनुपश्यामि हत्त्वा स्वजनमाहवे ।।३१।।
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा ।।३२।।
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।।३३।।
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ।।३४।।
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ।।३५।।
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
न च श्रेयः अनुपश्यामि हत्त्वा स्वजनं अाहवे ।।३१।।
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं न: राज्येन गोविंद किं भोगै: जीवितेन वा ।।३२।।
येषां अर्थे काङ्क्षितं न: राज्यं भोगाः सुखानि च ।
ते इमे अवस्थिता: युद्धे प्राणान् त्यक्त्वा धनानि च ।।३३।।
आचार्याः पितरः पुत्रा: तथा एव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिन: तथा ।।३४।।
एतान् न हन्तुम् इच्छामि घ्नत: अपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ।।३५।।

Exercise 2 (a) Paraphrase the clauses

2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.

स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु

  • के अत्र वाक्यांशाः ?
  • कानि संबन्ध-सूचकानि ?
  • कानि क्रियापदानि वा धातुसाधितानि ?
  • कानि अत्र कर्तृपदानि ?
  • कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

  • २-१-१ अाहवे स्वजनं हत्त्वा श्रेयः न अनुपश्यामि च ।
  • २-१-२ कृष्ण, (अहम्) विजयं न काङ्क्षे, न च राज्यं (काङ्क्षे), (न) च सुखानि (काङ्क्षे)
  • २-१-३ गोविंद, न: राज्येन किं, भोगै: किं, वा जीवितेन (किं) ।
  • २-१-४ येषां अर्थे न: राज्यं भोगाः सुखानि च काङ्क्षितं ।
  • २-१-५ ते इमे आचार्याः पितरः पुत्रा: तथा पितामहाः एव च मातुलाः श्वशुराः पौत्राः श्यालाः तथा संबन्धिन: प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिता: ।
  • २-१-६ मधुसूदन, (अहम्) घ्नत: अपि, नु महीकृते किं, त्रैलोक्यराज्यस्य हेतोः अपि एतान् हन्तुम् न इच्छामि ।

२-२ वाक्यांशानां विश्लेषणानि

२-२-१ “अाहवे स्वजनं हत्त्वा”  इति गौण-वाक्यांशः ।

  • २-२-१-१ क्रियाविषेशणात्मकं धातुसाधितम् “हत्त्वा” ।
  • २-२-१-२ धातुसाधितस्य कर्मपदम् “स्वजनं” ।

२--२ “कृष्ण, (अहम्) विजयं न काङ्क्षे, न च राज्यं (काङ्क्षे), (न) च सुखानि (काङ्क्षे)” इति नकारात्मकाः प्रधान-वाक्यांशाः ।

  • २-२-२-१ क्रियापदम् “काङ्क्षे” एकदा स्पष्टं, द्वयोः अध्याहृतम् ।
  • २-२-२-२ सर्वत्र अध्याहृतं कर्तृपदं “(अहम्)” ।
  • २-२-२-३ कर्मपदानि “विजयं, राज्यं, सुखानि” ।
  • २-२-२-४ संबोधन-पदं “कृष्ण” ।

२-२-३ “गोविंद, न: राज्येन किं (भवति), भोगै: किं (भवति), वा जीवितेन (किं भवति)” इति प्रश्नार्थकाः प्रधान-वाक्यांशाः ।

  • २-२-३-१ अध्याहृतं क्रियापदम् “भवति” ।
  • २-२-३-२ कर्तृपदम् “किम्” ।

२-२-४ “येषां अर्थे न: राज्यं भोगाः सुखानि च (एतत् सर्वं) काङ्क्षितं” इति गौण-वाक्यांशः ।

  • २-२-४-१ विशेषणात्मकं धातुसाधितम् “काङ्क्षितम्” ।
  • २-२-४-२ अध्याहृतं विशेष्यपदं “(एतत् सर्वम्)” ।
  • २-२-४-३ विशेषणात्मकं संबन्धसूचकं “येषाम्” ।

२-२-५ “ते इमे आचार्याः पितरः पुत्रा: तथा पितामहाः एव च मातुलाः श्वशुराः पौत्राः श्यालाः तथा संबन्धिन: प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिता: (सन्ति)” इति प्रधान-वाक्यांश: ।

  • २-२-५-१ अत्र “प्राणान् धनानि च त्यक्त्वा” इति क्रियाविषेशणात्मक: गौण-वाक्यांशः ।
    • २-२-५-१-१ क्रियाविषेशणात्मकं धातुसाधितम् “त्यक्त्वा” ।
    • २-२-५-१-२ धातुसाधितस्य कर्मपदे “प्राणान् धनानि च” ।
  • २-२-५-२ प्रधान-वाक्यांशे अध्याहृतं क्रियापदम् “सन्ति” ।
  • २-२-५-३ प्रधान-वाक्यांशे कर्तृपदानि “आचार्याः पितरः पुत्रा: तथा पितामहाः एव च मातुलाः श्वशुराः पौत्राः श्यालाः तथा संबन्धिन:”
  • २-२-५-४ (२-२-४)-गौण-वाक्यांशेन सह संबन्धसूचकं पदं “ते”

२-२-६ “मधुसूदन, (अहम्) घ्नत: अपि, नु महीकृते किं, त्रैलोक्यराज्यस्य हेतोः अपि एतान् हन्तुम् न इच्छामि” इति नकारात्मकः प्रधान-वाक्यांशः ।

  • २-२-६-१ अत्र “घ्नतः अपि” इति विशेषणात्मकः गौण-वाक्यांशः ।
    • २ -२-६-१-१ कर्मणि-प्रयोगान्वितं भूतकालवाचकं विशेषणात्मकम् धातुसाधितं “घ्नतः”
    • २-२-६-१-२ विशेष्यपदं “(अहम्)” ।
    • २-२-६-१-३ “(यदि अहम्) घ्नतः (तदा) अपि” एवं क्रियाविशेषणात्मकम् पर्यायि विश्लेषणमपि ।
  • २-२-६-२ नकारात्मकं क्रियापदं “न इच्छामि” ।
  • २-२-६-३ अध्याहृतं कर्तृपदं “अहम्” ।
  • २-२-६-४ कर्मपदं “हन्तुम्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ न (= no, not) इति अव्ययम् ।

३-२ च (= and) इति अव्ययम् ।

३-३ श्रेयः “श्रि” १ उ (= to go to, to resort to) इति धातुः । तस्मात् “यस्”-प्रत्ययेन योग्यतादर्शकं विशेषणम् “श्रेयस्” (= what is worth resorting to, what is beneficial) । अत्र नपुंसकलिङ्गि नाम “श्रेयस्” (= benefit, propriety) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-४ अनुपश्यामि “अनु + दृश्” १ प. (= to see, to sight) इति धातुः । तस्य वर्तमानकाले उत्तमपुरुषे एकवचनम् ।

३-५ हत्त्वा “हन्” २ प (= to strike, to attack, to kill) इति धातुः । तस्मात् भूतकालवाचकं क्रियाविशेषणात्मकं “त्वा”-न्तं अव्ययम् “हत्त्वा” (= on killing, or by killing) ।

३-६ स्वजनम् “स्वजन” (= relatives, acquaintances) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-६-१ स्वस्य जनः स्वजनः । षष्ठी-तत्पुरुषः ।
  • ३-६-२ स्वस्य “स्व” (= self) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-६-३ जनः “जन” (= persons) इति समूहवाचकम् पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-७ आहवे “आ + ह्वे” १ उ (= to give a call, to challenge) इति धातुः । तस्मात् पुल्लिङ्गि नाम “आहव” (= challenge, battle) । तस्य सप्तमी विभक्तिः एकवचनम् च ।

३-८ काङ्क्षे “काङ्क्ष्” १ प (also आत्मनेपदी in epics, here it is आत्मनेपदी only) (= to expect, to wish, to desire) इति धातुः । तस्य वर्तमानकाले उत्तमपुरुषे एकवचनम् ।

३-९ विजयम् “वि + जि” १ प (= to conquer, to defeat, to vanquish) इति धातुः । तस्मात् पुल्लिङ्गि नाम “विजय” (= victory) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-१० कृष्ण (= Krishna) इति पुल्लिङ्गि विशेषनाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१०-१ There are different derivations for the word कृष्ण
    • ३-१०-१-१ Most common derivation is कृष्ण (= black) इति विशेषणम् ।
    • ३-१०-१-२ Another derivation is from कृष् १ प (= to drag, to pull, to tear) ६ प (= to plough) इति धातुः । तस्मात् विशेषणम् “कृष्ण” (= one, who drags; one, who ploughs) ।

३-११ राज्यम् “राज्” १ उ (= ) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “राज्य” (= place, which is ruled over by a king, kingdom, state) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • We also have here राज्येन, which तृतीया विभक्तिः एकवचनम् च ।

३-१२ सुखानि “सुख” (= pleasure, happiness) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया प्रथमा विभक्तिः बहुवचनम् च ।

३-१३ किम् (= what) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१४ नः “अस्मद्” (= pronoun of first person, i.e. I, we) इति सर्वनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।

३-१५ गोविन्द (= one, who tends the cows) इति सामासिकं विशेषणम् । अत्र प्रायः पुल्लिङ्गि नाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१५-१ गाः विन्दति इति गोविन्दः । उपपद-तत्पुरुषः ।
  • ३-१५-२ गाः “गो” (= cow) इति स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
  • ३-१५-३ विन्दति “विद्” ६ उ (= to know, to care for, to tend) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

३-१६ भोगैः “भुज्” ७ उ (= to enjoy) इति धातुः । तस्मात् पुल्लिङ्गि नाम “भोग” (= enjoyment) । तस्य तृतीया विभक्तिः बहुवचनम् च ।
३-१७ जीवितेन “जीव्” १ प (= to live) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् । अत्र नपुंसकलिङ्गि नाम “जीवित” (= life, living) । तस्य तृतीया विभक्तिः एकवचनम् च ।
३-१८ वा (= or) इति अव्ययम् ।
३-१९ येषाम् “यत्” (= which, who, what) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
३-२० अर्थे “अर्थ” (= purpose, benefit, interest) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
३-२१ काङ्क्षितम् “काङ्क्ष्” १ प (also आ in epics, e.g. here) (= to expect, to wish, to desire) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “काङ्क्षित” (= what is desired) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-२२ भोगाः “भुज्” ७ उ (= to enjoy) इति धातुः । तस्मात् पुल्लिङ्गि नाम “भोग” (= enjoyment) । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-२३ ते “तत्” (= that) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-२४ इमे “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-२५ अवस्थिताः “अव + स्था” १ प. (= to settle down) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “अवस्थित” (= one, who has settled down) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-२६ युद्धे “युद्ध” (= war, battle) इति नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
३-२७ प्राणान् “प्राण” (= breath of life) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-२८ त्यक्त्वा “त्यज्” १ प (= to leave, to sacrifice) इति धातुः । तस्मात् भूतकालवाचकं क्रियाविशेषणात्मकं “त्वा”-न्तं अव्ययम् “त्यक्त्वा” (= by sacrificing) ।
३-२९ धनानि “धन” (= wealth) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-३० आचार्याः “आचार्य” (= teacher, precept) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-३१ पितरः “पितृ” (= father) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-३२ पुत्राः “पुत्र” (= son) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-३३ तथा (= likewise) इति अव्ययम् ।
३-३४ एव (= also, only) इति अव्ययम् ।
३-३५ पितामहाः “पितामह” (= grandfather) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-३६ मातुलाः “मातुल” (= maternal) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-३७ श्वशुराः “श्वशुर” (= father-in-law) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-३८ पौत्राः “पौत्र” (= grandson) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-३९ श्यालाः “श्याल” (= wife’s brother, brother-in-law) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-४० संबन्धिनः “सम् + बन्ध्” ९ प (= to bond) इति धातुः । तस्मात् विशेषणम् संबन्धिन्” (= one, who establishes a bond, relative) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-४०-१ In a marital relationship, relations on the side of the bride and bridegroom are called संबन्धिनः of each other.

३-४१ एतान् “एतद्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-४२ हन्तुम् “हन्” २ प (= to kill) इति धातुः । तस्मात् उद्देशार्थं क्रियाविशेषणात्मकं तुमन्तं अव्ययम् “हन्तुम्” (= ) ।
३-४३ इच्छामि “इच्छ” (= to wish for, to desire) इति धातुः । तस्य वर्तमानकाले उत्तमपुरुषे एकवचनम् ।
३-४४ घ्नत: “हन्” २ प (= to kill, to attack) इति धातुः । तस्मात् कर्मणि-प्रयोगान्वितं भूतकालवाचकं विशेषणम् “घ्नत” (= one, who is attacked) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-४४-१ घ्नत seems to be an uncommon भूतकालवाचकं विशेषणम् from the धातु “हन्”. Common भूतकालवाचकं विशेषणम् from the धातु “हन्” is “हत”
  • ३-४४-२ Some explanation of this uncommon form घ्नत is found in Apte’s dictionary explaining the word विघ्न as विहन् क suggesting that विघ्न is derived by adding the suffix क to विहन्. So, if one derives विघ्न from विहन् one would derive घ्न as हन् क

३-४५ अपि (= also, even) इति अव्ययम् ।
३-४६ मधुसूदन (= he, who killed the demon, named Madhu) इति सामासिकं पुल्लिङ्गि विशेषनाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-४६-१ मधुनः सूदनः इति मधुसूदनः । षष्ठी-तत्पुरुषः ।
  • ३-४६-२ मधुनः “मधु” (= sweet) इति विशेषणम् । परन्तु अत्र पुल्लिङ्गि विशेषनाम (= name of a demon) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-४६-३ सूदनः “सूद्” १ आ १० उ (= to kill) इति धातुः । तस्मात् विशेषणम् “सूदन” (= one, who kills) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-४७ त्रैलोक्यराज्यस्य “त्रैलोक्यराज्य” (= reign over all three worlds) इति सामासिकं नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

  • ३-४७-१ त्रयाणां लोकानां समूहः = त्रैलोक्यम् । द्विगु-समासः ।
  • ३-४७-२ त्रैलोक्यस्य राज्यम् त्रैलोक्यराज्यम् । षष्ठी-तत्पुरुषः ।
  • ३-४७-३ त्रयाणाम् “त्रि” (= three) इति संख्यावाचकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ३-४७-४ लोकानाम् “लोक” (= people, populace, world) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ३-४७-५ त्रैलोक्य connotes the trinity of (1) heavens स्वर्ग, (2) the earth पृथ्वी and (3) the nether world पाताल

३-४८ हेतोः “हेतु” (= purpose, objective) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
३-४९ नु (= indeed) इति अव्ययम् ।
३-५० महीकृते “महीकृत” (= for the sake of (all) the world) इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ३-५०-१ मह्यै कृतम् इति महीकृतम् । चतुर्थी-तत्पुरुषः । or मह्याः कृते महीकृते । षष्ठी-तत्पुरुषः ।
  • ३-५०-२ मह्यै “मही” (= earth, world) इति स्त्रीलिङ्गि नाम । तस्य चतुर्थी विभक्तिः एकवचनम् च ।
  • ३-५०-३ कृतम् “कृ” ८ उ (= to do) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “कृत” (= done) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-५०-४ कृते (= for the sake of) इति अव्ययम् ।
  • ३-५०-५ I am not sure whether at ३-५०-१ identifying मह्याः कृते महीकृते as a compound of षष्ठी-तत्पुरुषः type is correct or not. In तत्पुरुष-type compounds, the second component would usually be noun or adjective. Here the second component कृते is an indeclinable. With that it may be a compound of अव्ययीभाव-type.
  • ३-५०-६ Also, in the meaning of कृते as “for the sake of” the preposition “of” is implicit. But when deciphering the compound, the word मही needs to be detailed in sixth case, which becomes repetition of “of”

Exercise 4 Arrange the verses in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ अाहवे स्वजनं हत्त्वा श्रेयः न अनुपश्यामि च । = I do not see any propriety or benefit in killing relatives and close acquaintances in this battle
  • ४-२ कृष्ण, (अहम्) विजयं न काङ्क्षे, न च राज्यं (काङ्क्षे), (न) च सुखानि (काङ्क्षे) = Oh Krishna, I do not desire eiter victory or empire or pleasures
  • ४-३ गोविंद, न: राज्येन किं (भवति), भोगै: किं (भवति), वा जीवितेन (किं भवति) = Oh Govind (you, who is so kind even to cows), what is good of our having the kingdom, or the pleasures or even by surviving ?
  • ४-४ येषां अर्थे न: राज्यं भोगाः सुखानि च (एतत् सर्वं) काङ्क्षितं = All those for whom we would desire the kingdom, the pleasures and enjoyments
  • ४-५ ते इमे आचार्याः पितरः पुत्रा: तथा पितामहाः एव च मातुलाः श्वशुराः पौत्राः श्यालाः तथा संबन्धिन: प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिता: (सन्ति) = they all – precepts, fathers, sons, grandfathers, maternal relatives, fathers-in-law, grandsons, schoolmates, relatives – are standing here in the battle-field, leaving (ready to sacrifice) their wealth and (their very) lives
  • ४-६ मधुसूदन, (अहम्) घ्नत: अपि, नु महीकृते किं, त्रैलोक्यराज्यस्य हेतोः अपि एतान् हन्तुम् न इच्छामि = Oh Madhusoodana (you, who vanquished the demon Madhu) whether for the sake of the whole world or even for the sake of authority over all the three worlds, I would not like to kill them, even if I shall be attacked,

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –
न काङ्क्षे विजयं कृष्ण । वर्णाः ८
न च राज्यं सुखानि च । वर्णाः ८
किं नो राज्येन गोविंद ।  वर्णाः ८
किं भोगैर्जीवितेन वा । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ In the verses of previous post # 20, symptoms of an attack of hysteria suffered by Arjuna, i.e. physical symptoms were mentioned. But here Arjuna is proposing justifications for his reluctance to fight the war. So, even when overcome with attack of hysteria, mentally he seems to be alert enough to advance justifications.

६-२ Ever since I memorized this अध्याय, I have recited it umpteen number of times. But now that I am studying it in such detail, I am surprised that of the line अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते the order of the phrases just gets reversed. When doing अन्वय the phrase to come first should be नु महीकृते किं, then त्रैलोक्यराज्यस्य हेतोः अपि

I guess, it is natural for human mind that what comes last makes a lasting impression. So, here, when reciting अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते, it is महीकृते, which comes last and seems to make somewhat more lasting impression than त्रैलोक्यराज्यस्य हेतोः But महीकृते is of course a smaller objective than त्रैलोक्यराज्यस्य हेतोः अपि. Hence when doing अन्वय, the order of the phrases has to be reversed !

It is the specialty of Sanskrit, that because of declensions, every word gets a stand-alone identity. That gives a liberal liberty to the poets to strew the words in any order. It also brings importance to doing अन्वय, importance to arranging the words in proper syntax and/or in proper order to derive the appropriate meaning.

The liberal liberty afforded to the poets has also facilitated much of Sanskrit literature having been composed in verses.

Verses make it easy for the memory, reciting and singing. Maybe, in India the rich tradition of memory-training, singing and music has its genre from the fact that much of Sanskrit literature was composed in verses.

६-३ Here Arjuna addresses Krishna by three names – कृष्ण, गोविंद and मधुसूदन. In the verses in the previous post, Arjuna addressed as कृष्ण and केशव As mentioned in the previous post, these multiple addresses possibly signify an ardent appeal and/or an emphasis for his justifications.

शुभमस्तु ।

-o-O-o-

Advertisements