Learning together Sanskrit and GeetA (Chapter 1 verses 36 to 39)

Learning together Sanskrit and GeetA (Chapter 1 verses 36 to 39)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकाः ३६ तः ३९) अध्ययनस्य द्वाविंशतितमः (२) सोपानः ।

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ।।३६।।
तस्मान्नार्हा वयं हन्तुम् धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्त्वा सुखिनः स्याम माधव ।।३७।।
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ।।३८।।
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ।।३९।।
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन ।
पापम् एव आश्रयेत् अस्मान् हत्त्वा एतान् आततायिनः ।।३६।।
तस्मात् न अर्हा: वयं हन्तुम् धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्त्वा सुखिनः स्याम माधव ।।३७।।
यदि  अपि एते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ।।३८।।
कथं न ज्ञेयम् अस्माभिः पापात् अस्मात् निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भि: जनार्दन ।।३९।।
Exercise 2 (a) Paraphrase the clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.

स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु

  • के अत्र वाक्यांशाः ?
  • कानि संबन्ध-सूचकानि ?
  • कानि क्रियापदानि वा धातुसाधितानि ?
  • कानि अत्र कर्तृपदानि ?
  • कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

  • २-१-१ जनार्दन, धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात् ?
  • २-१-२ एतान् आततायिनः हत्त्वा पापम् एव अस्मान् आश्रयेत् ।
  • २-१-३ तस्मात् स्वबान्धवान् धार्तराष्ट्रान् हन्तुम् वयं न अर्हा: ।
  • २-१-४ माधव, स्वजनं हि हत्त्वा कथं सुखिनः स्याम ?
  • २-१-५ यदि अपि लोभोपहतचेतसः एते कुलक्षयकृतं दोषं मित्रद्रोहे पातकम् च न पश्यन्ति
  • २-१-६ जनार्दन, अस्मात् पापात् निवर्तितुम् कुलक्षयकृतं दोषं प्रपश्यद्भि: अस्माभिः कथं न ज्ञेयम् ?

२-२ वाक्यांशानां विश्लेषणानि

२-२-१ “जनार्दन, धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात्”  इति प्रश्नार्थकः प्रधान-वाक्यांशः ।

  • २-२-१-१ अकर्मकं क्रियापदं “स्यात्” ।
  • २-२-१-२ कर्तृपदं “प्रीतिः” ।
  • २-२-१-३ क्रियाविषेशणात्मकं धातुसाधितम् “निहत्य” ।
    • २-२-१-३-१ धातुसाधितस्य कर्मपदम् “धार्तराष्ट्रान्” ।
  • २-२-१-४ संबोधनपदं “जनार्दन” ।

२--२ “एतान् आततायिनः हत्त्वा पापम् एव अस्मान् आश्रयेत्” इति प्रधान-वाक्यांशः ।

  • २-२-२-१ क्रियापदम् “आश्रयेत्” ।
  • २-२-२-२ कर्तृपदं “पापम्” ।
  • २-२-२-३ कर्मपदम् “अस्मान्” ।
  • २-२-२-४ “एतान् आततायिनः हत्त्वा” इति क्रियाविशेषणात्मकः गौण-वाक्यांशः ।
    • २-२-२-४-१ क्रियाविशेषणात्मकम् धातुसाधितं “हत्त्वा” ।
    • २-२-२-४-२ धातुसाधितस्य कर्मपदम् “आततायिनः” ।

२-२-३ “तस्मात् स्वबान्धवान् धार्तराष्ट्रान् हन्तुम् वयं अर्हा: न (स्मः)” इति नकारात्मकः प्रधान-वाक्यांशः ।

  • २-२-३-१ अध्याहृतं अकर्मकं क्रियापदम् “(स्मः)” ।
  • २-२-३-२ कर्तृपदम् “वयम्” ।
  • २-२-३-३ पूरकपदं “अर्हा:” ।
  • २-२-३-४ “स्वबान्धवान् धार्तराष्ट्रान् हन्तुम्” इति क्रियाविशेषणात्मकः गौण-वाक्यांशः ।
    • २-२-३-४-१ क्रियाविशेषणात्मकम् धातुसाधितं “हन्तुम्” ।
    • २-२-३-४-२ धातुसाधितस्य कर्मपदम् “धार्तराष्ट्रान्” ।

२-२-४ “माधव, स्वजनं हि हत्त्वा (वयम्) कथं सुखिनः स्याम” इति प्रश्नार्थकः प्रधान-वाक्यांशः ।

  • २-२-४-१ क्रियापदम् “स्याम” ।
  • २-२-४-२ अध्याहृतं कर्तृपदम् “(वयम्)” ।
  • २-२-४-३ “स्वजनं हि हत्त्वा” इति क्रियाविशेषणात्मकः गौण-वाक्यांशः ।
    • २-२-४-३-१ क्रियाविशेषणात्मकम् धातुसाधितं “हत्त्वा” ।
    • २-२-४-३-२ धातुसाधितस्य कर्मपदम् “स्वजनम्” ।
  • २-२-४-४ संबोधनपदं “माधव” ।

२-२-५ “यदि अपि लोभोपहतचेतसः एते कुलक्षयकृतं दोषं मित्रद्रोहे पातकम् च न पश्यन्ति” इति गौण-वाक्यांश: ।

  • २-२-५-१ नकारात्मकं क्रियापदम् “न पश्यन्ति” ।
  • २-२-५-२ कर्तृपदं “एते” ।
  • २-२-५-३ कर्मपदे “दोषं पातकम् च”
  • २-२-५-४ संबन्धसूचकं पदं “यद्यपि”

२-२-६ “जनार्दन, अस्मात् पापात् निवर्तितुम् कुलक्षयकृतं दोषं प्रपश्यद्भि: अस्माभिः कथं न ज्ञेयम् (भवति)” इति प्रश्नार्थकः प्रधान-वाक्यांशः ।

  • २-२-६-१ नकारात्मकं अकर्मकं च अध्याहृतं क्रियापदं “न (भवति)” ।
  • २-२-६-२ “अस्मात् पापात् निवर्तितुम्” इति कर्तृपदात्मकः गौण-वाक्यांशः ।
    • गौण-वाक्यांशे धातुसाधितं “निवर्तितुम्” ।
  • २-२-६-३ पूरकपदं “ज्ञेयम्” ।
  • २-२-६-४ संबोधनपदं “जनार्दन” ।
  • २-२-६-५ अत्र “कुलक्षयकृतं दोषं प्रपश्यद्भि:” इति विशेषणात्मकः गौण-वाक्यांशः अपि ।
    • २-२-६-५-१ गौण-वाक्यांशे वर्तमानकालवाचकं धातुसाधितं “प्रपश्यद्भि:”
    • २-२-६-५-२ धातुसाधितस्य कर्मपदं “दोषम्” ।
    • २-२-६-५-३ विशेष्यपदं प्रधान-वाक्यांशे “अस्माभिः” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ निहत्य “नि हन्” २ प (= to strike, to attack, to kill) इति धातुः । तस्मात् भूतकालवाचकं क्रियाविशेषणात्मकं ल्यबन्तं अव्ययम् “निहत्य” (= on killing, or by killing) ।

३-२ धार्तराष्ट्रान् “धार्तराष्ट्र” (= son of धृतराष्ट्र) इति तद्धितं* विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

  • ३-२-१ *धृतराष्ट्रस्य अयम् इति धार्तराष्ट्रः ।
  • ३-२-२ धृतराष्ट्रस्य “धृतराष्ट्र” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
    • ३-२-२-१ धृतं राष्ट्रं येन सः (= he who reigned the kingdom) = धृतराष्ट्रः । बहुव्रीहिः । अथवा –
    • ३-२-२-२ धृतः राष्ट्रेण (= he, who was accepted (as King) by the nation)= धृतराष्ट्रः । तृतीया-तत्पुरुषः ।
    • ३-२-२-३ धृतम् “धृ” १ उ ६ आ १० उ (= to be maintained o preserved) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “धृत” (= maintained or preserved) । अत्र नपुम्सकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-२-२-४ राष्ट्रम् “राष्ट्र” (= nation, kingdom, empire) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-२-२-५ धृतः “धृ” १ उ ६ आ १० उ (= to hold, to bear, to carry, to resolve upon) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “धृत” (= borne, resolved upon) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-२-२-६ राष्ट्रेण “राष्ट्र” (= nation, kingdom, empire) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।

३-३ नः “अस्मद्” (= pronoun of first person, i.e. I, we) इति सर्वनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।

  • ३-३-१ In these verses this word is also in other declensions as –
    • अस्मान् – द्वितीया विभक्तिः बहुवचनम् च ।
    • वयम् – प्रथमा विभक्तिः बहुवचनम् च ।
    • अस्माभिः – तृतीया विभक्तिः बहुवचनम् च ।

३-४ का “किम्” (= what) इति सर्वनाम । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-५ प्रीतिः “प्री” ९ उ (= to love, to have affection) इति धातुः । तस्मात् भाववाचकं स्त्रीलिङ्गि नाम “प्रीति” (= affection, love) । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-६ स्यात् “अस्” २ प (= to be) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

  • ३-६-१ In these verses this word is also in other declensions as –
    • स्याम – विध्यर्थे उत्तमपुरुषे बहुवचनम् ।

३-७ जनार्दन (= one, who hurts people, an epithet of Krishna) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-७-१ जनस्य अर्दनम् येन सः जनार्दनः । बहुव्रीहिः ।
  • ३-७-२ जनस्य “जन” (= people) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-७-३ अर्दनम् “अर्-द्” १प (= to afflict, to torment, to hurt) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “अर्दन” (= pain, affliction, hurting) । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-७-४ It is confusing how a word meaning “one, who hurts people” becomes also an epithet of Krishna.

३-८ पापम् “पाप” (= sin) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • In these verses this word is also in other declensions as –
    • पापात् – पञ्चमी विभक्तिः एकवचनं च ।

३-९ एव (= also, only) इति अव्ययम् ।

३-१० आश्रयेत् “आ + श्रि” १ उ (= to go to, to resort to) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् च ।

३-११ हत्त्वा हन् “२ प (= to strike, to attack, to kill) इति धातुः । तस्मात् भूतकालवाचकं क्रियाविशेषणात्मकं त्वान्तं अव्ययम् “हत्त्वा” (= on killing, or by killing) ।

३-१२ एतान् “एतद्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

  • In these verses this word is also in other declensions as –
    • एते – पुल्लिङ्गि, प्रथमा विभक्तिः बहुवचनम् च ।

३-१३ आततायिनः “आततायिन्” (= one, who indulges in excessive action) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-१४ तस्मात् “तत्” (= that) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

  • ३-१४-१ अत्र क्रियाविशेषणार्थि  (= therefore) ।

३-१५ न (= no, not) इति नकारात्मकं अव्ययम् ।
३-१६ अर्हा: “अर्-ह्” १ प (= to deserve, to merit) इति धातुः । तस्मात् विशेषणम् “अर्ह” (= eligible) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-१७ हन्तुम् हन्” २ प (= to strike, to attack, to kill) इति धातुः । तस्मात् क्रियाविशेषणात्मकं तुमन्तं अव्ययम् “हन्तुम्” (= to kill, for killing) ।
३-१८ स्वबान्धवान् “स्वबान्धव” (= own relative, kin) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

  • ३-१८-१ स्वस्य बन्धुः स्वबन्धुः । षष्ठी-तत्पुरुषः ।
  • ३-१८-२ स्वस्य “स्व” (= self) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-१८-३ बन्धुः “बन्धु” (= brother, relative) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-१९ स्वजनम् “स्वजन” (= relatives, acquaintances) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-१९-१ स्वस्य जनः स्वजनः । षष्ठी-तत्पुरुषः ।
  • ३-१९-२ स्वस्य “स्व” (= self) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-१९-३ जनः “जन” (= persons) इति समूहवाचकम् पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२० हि (= because, only) इति अव्ययम् ।
३-२१ कथम् (= how) इति अव्ययम् ।
३-२२ सुखिनः “सुखिन्” (= happy) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-२३ माधव (= one who is honey-like sweet, an epithet of Krishna) इति विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-२३-१ मधु इव इति माधवः ।

३-२४ यद्यपि (= यदि + अपि) (= even if) इति अव्ययम् ।
३-२५ पश्यन्ति “दृश्” १ प (= to see) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।
३-२६ लोभोपहतचेतसः “लोभोपहतचेतस्” (= mind blinded by greed) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-२६-१ लोभेन उपहतम् इति लोभोपहतम् । तृतीया-तत्पुरुषः ।
  • ३-२६-२ लोभोपहतं चेतः यस्य सः लोभोपहतचेतस् । बहुव्रीहिः ।
  • ३-२६-३ लोभेन “लुभ्” ४ प (= to entice) इति धातुः । तस्मात् भाववाचकं पुल्लिङ्गि नाम “लोभ” (= enticement, greed) । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • ३-२६-४ उपहतम् “उप + हन् “२ प (= to strike, to attack) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “उपहत” (= overcome) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२६-५ चेतः “चेतस्” (= mind) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२७ कुलक्षयकृतम् “कुलक्षयकृत” (= causing annihilation of lineage) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-२७-१ कुलस्य क्षयः कुलक्षयः । षष्ठी-तत्पुरुषः ।
  • ३-२७-२ कुलक्षयः कृतः येन सः कुलक्षयकृतः । बहुव्रीहिः ।
  • ३-२७-३ कुलस्य “कुल” (= family, lineage) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-२७-४ क्षयः “क्षि” १, ५, ९ प (= to destroy) इति धातुः । तस्मात् पुल्लिङ्गि नाम “क्षय” (= destruction, annihilation) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२७-५ कृतः “कृ” ८ उ (= to do) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “कृत” (= done) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२८ दोषम् “दुष्” ४ प (= to mar, to default) इति धातुः । तस्मात् पुल्लिङ्गि नाम “दोष” (= fault) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-२९ मित्रद्रोहे “मित्रद्रोह” (= subversion of friendship) इति सामासिकं पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ३-२९-१ मित्रस्य द्रोहः मित्रद्रोहः । षष्ठी-तत्पुरुषः ।
  • ३-२९-२ मित्रस्य “मित्र” (= friend) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-२९-३ द्रोहः “द्रुह्” ४ प (= to subvert) इति धातुः । तस्मात् पुल्लिङ्गि नाम “द्रोह” (= subversion, treachery) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-३० च (= and) इति अव्ययम् ।
३-३१ पातकम् “पत्” १ प (= to fall) इति धातुः । तस्य प्रयोजकात् विशेषणम् तथा प्रायः नपुंसकलिङ्गि नाम अपि “पातक” (= what causes falling from grace) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-३२ ज्ञेयम् “ज्ञा” ९ उ (= to know) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् तथा प्रायः नपुंसकलिङ्गि नाम अपि “ज्ञेय” (= what should be known or understood or thought of) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-३३ अस्मात् “इदम्” (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य पञ्चमी विभक्तिः एकवचनं च ।
३-३४ निवर्तितुम् “नि + वृत्” १ आ (= to withdraw, to stay away) इति धातुः । तस्मात् क्रियाविशेषणात्मकं तुमन्तं अव्ययम् “निवर्तितुम्” (= staying away) ।
३-३५ प्रपश्यद्भि: “प्र + “दृश्” १ प (= to see clearly) इति धातुः । तस्मात् कर्तरी-वर्तमानकालवाचकं विशेषणम् “प्रपश्यत्” (= one, who is seeing clearly) । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः बहुवचनम् च ।

Exercise 4 Arrange the verses in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ जनार्दन, धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात् ? = Oh Janardan, what pleasure will it be on killing sons of Dhrutarashtra ?
  • ४-२ एतान् आततायिनः हत्त्वा पापम् एव अस्मान् आश्रयेत् । = By killing these, who are indulging in excessive action, only sin will be with us
  • ४-३ तस्मात् स्वबान्धवान् धार्तराष्ट्रान् हन्तुम् वयं न अर्हा: । = Therefore we should not kill the sons of Dhrutarashtra, who are (after all) are our own kins.
  • ४-४ माधव, स्वजनं हि हत्त्वा कथं सुखिनः स्याम ? = Oh Madhav, how can we be happy on killing our own people ?
  • ४-५ यदि अपि लोभोपहतचेतसः एते कुलक्षयकृतं दोषं मित्रद्रोहे पातकम् च न पश्यन्ति = Even if these, who are overcome with greed and do not see the sin devolving from faults of destroying the lineage and of subversion of friendship,
  • ४-६ जनार्दन, कुलक्षयकृतं दोषं प्रपश्यद्भि: अस्माभिः अस्मात् पापात् निवर्तितुम् कथं न ज्ञेयम् ? = oh Janardan, how come we, who can see the faults of destruction of lineage, do not understand staying away from the sin ?

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

निहत्य धार्तराष्ट्रान्नः । वर्णाः ८
का प्रीतिः स्याज्जनार्दन । वर्णाः ८
पापमेवाश्रयेदस्मान् ।  वर्णाः ८
हत्वैतानाततायिनः । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ In the verses of previous post # 21, Arjuna advanced the argument of futility of fighting and killing close relatives and respectable elders. Aspirations of ruling the whole world or even all the three worlds meant nothing to him.

६-२ In the verses here, he continues with the argument adding, how the fighting becomes a sinful act.

६-३ Here Arjuna addresses Krishna as जनार्दन and माधव. This adds to the list of addresses noted earlier, viz. कृष्ण, गोविंद and मधुसूदन in post # 21, केशव in post # 20, the mention as हृषीकेश in post # 18, as अच्युत in post # 17.

शुभमस्तु ।

-o-O-o-

Advertisements