Learning together Sanskrit and GeetA (Chapter 1 verses 40 to 44)

Learning together Sanskrit and GeetA (Chapter 1 verses 40 to 44)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकाः ४० तः ४४) अध्ययनस्य त्रिविंशतितमः (२३) सोपानः ।

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नं अधर्मोऽभिभवत्युत ।।४०।।
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ।।४१।।
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ।।४२।।
दोषैरेतैर्कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ।।४३।।
उत्सन्नकुलधर्माणाम् मनुष्याणाम् जनार्दन ।
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ।।४४।।

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नं अधर्म: अभिभवति उत ।।४०।।
अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ।।४१।।
सङ्कर: नरकाय एव कुलघ्नानां कुलस्य च ।
पतन्ति पितर: हि एषां लुप्तपिण्डोदकक्रियाः ।।४२।।
दोषै: एतै: कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्मा: च शाश्वताः ।।४३।।
उत्सन्नकुलधर्माणाम् मनुष्याणाम् जनार्दन ।
नरके अनियतं वास: भवति इति अनुशुश्रुम ।।४४।।

Exercise 2 (a) Paraphrase the clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु

* के अत्र वाक्यांशाः ?
* कानि संबन्ध-सूचकानि ?
* कानि क्रियापदानि वा धातुसाधितानि ?
* कानि अत्र कर्तृपदानि ?
* कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

  • २-१-१ कुलक्षये सनातनाः कुलधर्माः प्रणश्यन्ति ।
  • २-१-२ धर्मे नष्टे कृत्स्नं कुलं अधर्म: अभिभवति उत ।
  • २-१-३ कृष्ण, अधर्माभिभवात् कुलस्त्रियः प्रदुष्यन्ति ।
  • २-१-४ वार्ष्णेय, स्त्रीषु दुष्टासु वर्णसङ्करः जायते ।
  • २-१-५ सङ्कर: कुलघ्नानां कुलस्य च नरकाय एव (भवति) ।
  • २-१-६ लुप्तपिण्डोदकक्रियाः एषां पितर: पतन्ति हि ।
  • २-१-७ कुलघ्नानां एतै: वर्णसङ्करकारकैः दोषै: शाश्वताः जातिधर्माः कुलधर्मा: च उत्साद्यन्ते ।
  • २-१-८ जनार्दन, उत्सन्नकुलधर्माणाम् मनुष्याणाम् नरके अनियतं वास: भवति इति अनुशुश्रुम ।

२-२ वाक्यांशानां विश्लेषणानि

२-२-१ “कुलक्षये सनातनाः कुलधर्माः प्रणश्यन्ति”  इति प्रधान-वाक्यांशः ।

  • २-२-१-१ अकर्मकं क्रियापदं “प्रणश्यन्ति” ।
  • २-२-१-२ कर्तृपदं “कुलधर्माः” ।

२-२-२ “धर्मे नष्टे कृत्स्नं कुलं अधर्म: अभिभवति उत” इति प्रधान-वाक्यांशः ।

  • २-२-२-१ क्रियापदम् “अभिभवति” ।
  • २-२-२-२ कर्तृपदं “अधर्म:” ।
  • २-२-२-३ कर्मपदम् “कुलम्” ।
  • २-२-२-४ अत्र “धर्मे नष्टे” इति सति-सप्तमी-प्रयोगान्वितः गौण-वाक्यांशः ।

२-२-२-४-१ सप्तमी-विभक्ति-युतं धातुसाधितं “नष्टे” ।
२-२-२-४-२ धातुसाधितस्य सप्तमी-विभक्ति-युतं कर्तृपदम् “धर्मे” ।

  • २-२-२-५ उद्गारवाचकं “उत” ।

२-२-३ “कृष्ण, अधर्माभिभवात् कुलस्त्रियः प्रदुष्यन्ति” इति प्रधान-वाक्यांशः ।

  • २-२-३-१ अकर्मकं क्रियापदम् “प्रदुष्यन्ति” ।
  • २-२-३-२ कर्तृपदम् “कुलस्त्रियः” ।
  • २-२-३-३ संबोधनपदं “कृष्ण” ।

२-२-४ “वार्ष्णेय, स्त्रीषु दुष्टासु वर्णसङ्करः जायते” इति प्रधान-वाक्यांशः ।

  • २-२-४-१ क्रियापदम् “जायते” ।
  • २-२-४-२ कर्तृपदम् “वर्णसङ्करः” ।
  • २-२-४-३ “स्त्रीषु दुष्टासु” इति सति-सप्तमी-प्रयोगान्वितः गौण-वाक्यांशः ।
  • २-२-४-३-१ सप्तमी-विभक्ति-युतं धातुसाधितं “दुष्टासु” ।
  • २-२-४-३-२ धातुसाधितस्य सप्तमी-विभक्ति-युतं कर्तृपदम् “स्त्रीषु” ।
  • २-२-४-४ संबोधनपदं “वार्ष्णेय” ।

२-२-५ “सङ्कर: कुलघ्नानां कुलस्य च नरकाय एव (भवति)” इति प्रधान-वाक्यांश: ।

  • २-२-५-१ अध्याहृतं अकर्मकं क्रियापदम् “(भवति)” ।
  • २-२-५-२ कर्तृपदं “सङ्कर:” ।

२-२-६ “लुप्तपिण्डोदकक्रियाः एषां पितर: पतन्ति हि” इति प्रधान-वाक्यांशः ।

  • २-२-६-१ अकर्मकं क्रियापदं “पतन्ति” ।
  • २-२-६-२ कर्तृपदं “पितर:”

२-२-७ “कुलघ्नानां एतै: वर्णसङ्करकारकैः दोषै: शाश्वताः जातिधर्माः कुलधर्मा: च उत्साद्यन्ते”

  • २-२-७-१ कर्मणि-प्रयोगान्वितं क्रियापदं “उत्साद्यन्ते” ।
  • २-२-७-२ कर्तृपदे “जातिधर्माः कुलधर्मा: च” ।

२-२-८ “जनार्दन, उत्सन्नकुलधर्माणाम् मनुष्याणाम् नरके अनियतं वास: भवति इति अनुशुश्रुम” इति गौण-वाक्यांश-युतः प्रधानवाक्यांशः ।

  • २-२-८-१ प्रधान-वाक्यांशे क्रियापदं “अनुशुश्रुम” ।
  • २-२-८-२ प्रधान-वाक्यांशे अध्याहृतं कर्तृपदं “(वयम्)” ।
  • २-२-८-३ प्रधान-वाक्यांशस्य कर्मपद-भावकः गौण-वाक्यांशः “उत्सन्नकुलधर्माणाम् मनुष्याणाम् नरके अनियतं वास: भवति इति” ।
  • २-२-८-३-१ गौण-वाक्यांशे क्रियापदं “भवति” ।
  • २-२-८-३-२ गौण-वाक्यांशे कर्तृपदं “वास:” ।
  • २-२-८-३-३ संबन्धसूचकपदं “इति” ।
  • २-२-८-४ प्रधान-वाक्यांशे संबोधनपदं “जनार्दन” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

I have been taking the words in the order they appear after सन्धि-विच्छेद i.e. after breaking the conjugations in Exercise 1. I think it would be more in order to take them in the order they come, in paraphrasing the clauses, i.e. by अन्वय in Exercise 2. By this, any implicit अध्याहृत words, revealing during अन्वय will also not be left out of study.

१ कुलक्षये सनातनाः कुलधर्माः प्रणश्यन्ति ।

३-१ कुलक्षये “कुलक्षय” (= annihilation of family or of lineage) इति सामासिकं पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ३-१-१ कुलस्य क्षयः कुलक्षयः । षष्ठी-तत्पुरुषः ।
  • ३-१-२ कुलस्य “कुल” (= family, lineage) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
  • ३-१-३ क्षयः “क्षि” १, ५, ९ प (= to destroy) इति धातुः । तस्मात् पुल्लिङ्गि नाम “क्षय” (= destruction, annihilation) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२ सनातनाः “सनातन” (= ancient) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-३ कुलधर्माः “कुलधर्म” (= rituals and traditions to be practised in a family) इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

* ३-३-१ कुलस्य धर्मः कुलधर्मः । षष्ठी-तत्पुरुषः ।
* ३-३-२ धर्मः “धर्म” (= rituals and traditions to be practised ) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-४ प्रणश्यन्ति “प्र + नश्” ४ प (= to annihilate) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।

२ धर्मे नष्टे कृत्स्नं कुलं अधर्म: अभिभवति उत ।

३-५ धर्मे “धर्म” (= rituals and traditions to be practised ) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनं च ।

३-६ नष्टे “नश्” ४ प (= to destroy) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “नष्ट” (= what is destroyed) । अत्र पुल्लिङ्गि । तस्य सप्तमी विभक्तिः एकवचनं च ।
३-७ कृत्स्नम् “कृत्स्न” (= all, entire) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनं च ।

३-८ कुलम् “कुल” (= family, lineage) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च ।

३-९ अधर्म: “अधर्म” (= non-righteousness) इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-९-१ न धर्मः अधर्मः । नञ्-तत्पुरुषः ।

३-१० अभिभवति “अभि + भू” १ प (= to prevail) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् च ।

३-११ उत (= is it not ?) इति उद्गारवाचकं अव्ययम् ।

३ कृष्ण, अधर्माभिभवात् कुलस्त्रियः प्रदुष्यन्ति ।

३-१२ कृष्ण (= Krishna) इति पुल्लिङ्गि विशेषनाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१२-१ There are different derivations for the word कृष्ण
    • ३-१२-१-१ Most common derivation is कृष्ण (= black) इति विशेषणम् ।
    • ३-१२-१-२ Another derivation is from कृष् १ प (= to drag, to pull, to tear) ६ प (= to plough) इति धातुः । तस्मात् विशेषणम् “कृष्ण” (= one, who drags; one, who ploughs) ।

३-१३ अधर्माभिभवात् “अधर्माभिभव” (= prevalance of non-righteousness) इति सामासिकं पुल्लिङ्गि नाम । तस्य पञ्चमी विभक्तिः एकवचनं च ।

  • ३-१३-१ अधर्मस्य अभिभवः अधर्माभिभवः । षष्ठी-तत्पुरुषः ।
  • ३-१३-२ अभिभवः “अभि + भू” १ प (= to prevail) इति धातुः । तस्मात् पुल्लिङ्गि नाम “अभिभव” (= prevalance) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-१४ कुलस्त्रियः “कुलस्त्री” (= lady of the house) इति सामासिकं स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-१५ प्रदुष्यन्ति “प्र + दुष्” ४ प (= to be maligned) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।

४ वार्ष्णेय, स्त्रीषु दुष्टासु वर्णसङ्करः जायते ।

३-१६ वार्ष्णेय (= descendant of वृष्णी) तद्धितं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१६-१ वृष्णी-वंशीयः इति वार्ष्णेयः । वृष्णी was a renowned fore-father of the lineage in which Krishna was born. Hence his epithet वार्ष्णेय.
  • ३-१६-२ वृष्णि also means a cloud, a ray of light. So, वार्ष्णेय would also mean one, who has the color of a cloud or one, who has the brilliance of a ray of light.

३-१७ स्त्रीषु “स्त्री” (= lady) इति स्त्रीलिङ्गि नाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
३-१८ दुष्टासु “दुष्” ४ प (= to be maligned) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “दुष्ट” । अत्र स्त्रीलिङ्गि “दुष्टा” (= maligned) । तस्य सप्तमी विभक्तिः बहुवचनम् च

३-१९ वर्णसङ्करः “वर्णसङ्कर” (= mix-up of castes and creeds) इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१९-१ वर्णस्य सङ्करः वर्णसङ्करः । षष्ठी-तत्पुरुषः ।
  • ३-१९-२ वर्णस्य “वर्ण” (= caste and/or creed) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-१९-३ सङ्करः “सम् + कृ” (= to mix up) इति धातुः । तस्मात् पुल्लिङ्गि नाम “सङ्कर” (= mix-up) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२० जायते “जन्” ४ आ (= to be born, to be caused, to happen) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

५ सङ्कर: कुलघ्नानां च नरकाय एव (भवति)

३-२१ कुलघ्नानां “कुलघ्न” (= one who causes destruction of family) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-२१-१ कुलम् हन्ति इति कुलघ्नः । उपपद-तत्पुरुषः ।
  • ३-२१-२ हन्ति हन् “२ प (= to strike, to attack, to kill, destroy) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

३-२२ कुलस्य “कुल” (= family, lineage) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
३-२३ च (= and) इति अव्ययम् ।
३-२४ नरकाय “नरक” (= nether world) इति पुल्लिङ्गि नाम । तस्य चतुर्थी विभक्तिः एकवचनम् च ।
३-२५ एव (= only) इति अव्ययम् ।
३-२६ भवति “भू” १ प (= to be, to become) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् च ।

६ लुप्तपिण्डोदकक्रियाः एषां पितर: पतन्ति हि ।

३-२७ लुप्तपिण्डोदकक्रियाः “लुप्तपिण्डोदकक्रिय” (= one who is deprived of being offered respects) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-२७-१ पिण्डं च उदकम् च पिण्डोदकम् । समाहार-द्वंद्वः ।
  • ३-२७-२ पिण्डोदकस्य क्रिया पिण्डोदकक्रिया । षष्ठी-तत्पुरुषः ।
  • ३-२७-३ पिण्डोदकक्रिया लुप्ता यस्मै सः लुप्तपिण्डोदकक्रियः । बहुव्रीहिः ।
  • ३-२७-४ पिण्डम् “पिण्ड” (= ball of rice) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२७-५ उदकम् “उदक” (= water) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२७-६ क्रिया “कृ” ८ उ (= to do, to perform) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “क्रिया” (= a ritual) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२७-७ लुप्ता “लुप्” ६ उ (= to vanish) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “लुप्त” । अत्र स्त्रीलिङ्गि “लुप्ता” (= what is lost) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२८ एषाम् “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
३-२९ पितर: “पितृ” (= father, fore-father) इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-३० पतन्ति “पत्” १ प (= to fall, to fall down ) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।
३-३१ हि (= certainly) इति अव्ययम् ।

७ कुलघ्नानां एतै: वर्णसङ्करकारकैः दोषै: शाश्वताः जातिधर्माः कुलधर्मा: च उत्साद्यन्ते ।

३-३२ एतै: “एतत्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः बहुवचनम् च ।

३-३३ वर्णसङ्करकारकैः “वर्णसङ्करकारक” (= one who causes mix-up of castes and creeds to happen) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः बहुवचनम् च ।

  • ३-३३-१ वर्णस्य सङ्करः वर्णसङ्करः । षष्ठी-तत्पुरुषः ।
  • ३-३३-२ वर्णसङ्करस्य कारकः वर्णसङ्करकारक: । षष्ठी-तत्पुरुषः ।
  • ३-३३-३ कारकः “कारक” (= one who causes) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-३४ दोषै: “दुष्” ४ प (= to mar, to default) इति धातुः । तस्मात् पुल्लिङ्गि नाम “दोष” (= fault) । तस्य तृतीया विभक्तिः बहुवचनम् च ।

३-३५ शाश्वताः “शाश्वत” (= permanent, eternal) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-३६ जातिधर्माः “जातिधर्म” (= rituals and traditions of a caste in which one is born) इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-३६-१ जातेः धर्मः जातिधर्म: । षष्ठी-तत्पुरुषः ।
  • ३-३६-२ जातेः “जन्” ४ आ (= to be born) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “जाति” (= caste related to the family in which one is born) । तस्य षष्ठी विभक्तिः एकवचनम् च ।

३-३७ कुलधर्मा: “कुलधर्म” (= rituals and traditions of a family or lineage) इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-३७-२ कुलस्य धर्मः कुलधर्मः । षष्ठी-तत्पुरुषः ।

३-३८ उत्साद्यन्ते “उत् + सद्” १ प (= to uproot) इति धातुः । तस्य प्रयोजकस्य कर्मणि-प्रयोगे वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।

८ जनार्दन, उत्सन्नकुलधर्माणाम् मनुष्याणाम् नरके अनियतं वास: भवति इति अनुशुश्रुम ।

३-३९ जनार्दन, (= one, who hurts people, an epithet of Krishna) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-३९-१ जनस्य अर्दनम् येन सः जनार्दनः । बहुव्रीहिः ।
  • ३-३९-२ जनस्य “जन” (= people) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-३९-३ अर्दनम् “अर्-द्” १प (= to afflict, to torment, to hurt) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “अर्दन” (= pain, affliction, hurting) । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-३९-४ It is confusing how a word meaning “one, who hurts people” becomes also an epithet of Krishna.

३-४० उत्सन्नकुलधर्माणाम् “उत्सन्नकुलधर्म” (= one who has suffered uprooting of family rituals and traditions) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।

  • ३-४०-१ उत्सन्नाः कुलधर्माः यस्य सः । बहुव्रीहिः ।
  • ३-४०-२ उत्सन्नाः “उत् + सद्” १ प (= to uproot) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “उत्सन्न” (= what has suffered uprooting) । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-४१ मनुष्याणाम् “मनुष्य” (= man) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
३-४२ अनियतम् “अनियत” (= indefinite) इति अव्ययात्मकं सामासिकं विशेषणम् ।

  • ३-४२-१ न नियतं अनियतम् । नञ्-तत्पुरुषः ।
  • ३-४२-२ नियतम् “नि + यम्” १ प (= to define) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “नियत” (= deined, definite) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा वा द्वितीया विभक्तिः एकवचनम् च ।

३-४३ वास: “वस्” १ प (= to stay, to dwell, to reside) इति धातुः । तस्मात् पुल्लिङ्गि नाम “वास” (= staying, residence) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-४४ इति (= thus, all this) अव्ययम् ।
३-४५ अनुशुश्रुम “अनु + श्रु” ५ प (= to get to know) इति धातुः । तस्य परोक्षभूतकाले उत्तमपुरुषे बहुवचनम् ।

Exercise 4 Arrange the verses in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ कुलक्षये सनातनाः कुलधर्माः प्रणश्यन्ति = When lineage is annihilated, ancient family-traditions, (which have descended down generations together) will get destroyed.
  • ४-२ धर्मे नष्टे कृत्स्नं कुलं अधर्म: अभिभवति उत । = When righteous practices (and traditions) are destroyed, non-righteousness spreads across entire the lineage.
  • ४-३ कृष्ण, अधर्माभिभवात् कुलस्त्रियः प्रदुष्यन्ति । = Oh Krishna, by spread of non-righteousness, chastity of ladies is offended.
  • ४-४ वार्ष्णेय, स्त्रीषु दुष्टासु वर्णसङ्करः जायते । = Oh VArShNeya (descendant of lineage of वृष्णी) when chastity of ladies is offended, genetic mix-up takes place.
  • ४-५ सङ्कर: कुलघ्नानां कुलस्य च नरकाय एव (भवति) । = Genetic mix-up leads to nether worlds, not only those who caused the annihilation of family and lineage, but the entire family and lineage is led to nether worlds
  • ४-६ लुप्तपिण्डोदकक्रियाः एषां पितर: पतन्ति हि । = Deprived of the offerings of respects, the souls of ancestors also fall (into the nether worlds).
  • ४-७ कुलघ्नानां एतै: वर्णसङ्करकारकैः दोषै: शाश्वताः जातिधर्माः कुलधर्मा: च उत्साद्यन्ते । = Due to the offenses committed by those responsible for annihilation of family and lineage, eternal family traditions and traditions of societal class get uprooted.
  • ४-८ जनार्दन, उत्सन्नकुलधर्माणाम् मनुष्याणाम् नरके अनियतं वास: भवति इति अनुशुश्रुम । = Oh Janardan, we have been told that persons whose family traditions have suffered annihilation, become destined to stay in nether worlds indefinitely.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we have to set the verse into four quarters –

कुलक्षये प्रणश्यन्ति । वर्णाः ८
कुलधर्माः सनातनाः । वर्णाः ८
धर्मे नष्टे कुलं कृत्स्नं ।  वर्णाः ८
अधर्मोऽभिभवत्युत । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

६-१ Having advanced the arguments of (1) futility of fighting and aspirations (2) fighting being a sinful act here Arjuna advances the argument (3) of war causing –

  • end of family-traditions and rituals
  • ladies suffering malignment and society suffering genetic mix-up
  • spread of unrighteousness
  • gory punishment of being banished to nether worlds,
  • not only for oneself but resulting into
    • no upliftment for the souls of departed ancestors also.

The argument that war causes ladies to suffer malignment and society to suffer genetic mix-up seems to be a very strong argument. In 1950’s American troops stayed in Vietnam much longer after the war. One wonders how much of Vietnamese population today is of true Vietnamese origin.

In grouping the verses when taking them together for study in these posts I thought it good to take them in conceptual groups.

६-२ The arguments here present concepts, conventions – one may call them superstitious beliefs, which were then prevalent. The phrase पिण्डोदकक्रियाः refers to rituals mandated to be practiced for 13 days after passing away of a family relative and also every year in respectful memory of departed ancestors. These rituals are believed to help upliftment of the souls of departed ancestors. Some of these rituals are practised even today. One is supposed to know the names of both paternal and maternal ancestors of at least past 3 generations.

  • This brings forth how “family” as an important social institution has been deeply rooted in Indian culture. The rituals and conventions are forthright manifestation of that.
  • I feel pity for the near collapse of “family” as important social institution, especially in western world, what with rampant divorces.
    • I came across a couple, where the husband had a son from his previous wife and the wife had a daughter from her previous husband. The son knew that his ‘mom’ was not his real genetic mother and the daughter knew that her ‘dad’ was not her real genetic father.
    • I would believe that previous marriages of both were love-marriages. I wonder what this flimsy concept of love is, that you love a person ardently today and after some time you cannot even tolerate the person, rather hate the person so much that you better be divorced (?!)

६-३ After all these arguments of अर्जुन to justify his not wanting to fight, it became the task of  कृष्ण to remove the fallacies implicit in these arguments – prevalent not only in mind of अर्जुन but which can become misconceptions in minds of people at any time.

६-४ Here Arjuna addresses Krishna as कृष्ण, वार्ष्णेय and जनार्दन. This adds वार्ष्णेय to the list of addresses noted earlier, viz. जनार्दन and माधव in post # 22, कृष्ण, गोविंद and मधुसूदन in post # 21, केशव in post # 20, as also the mention as हृषीकेश in post # 18, as अच्युत in post # 17.


शुभमस्तु ।

-o-O-o-

Advertisements