Learning together Sanskrit and GeetA (Chapter 1 verses 45 to 47)

Learning together Sanskrit and GeetA (Chapter 1 verses 45 to 47)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकाः ४५ तः ४७) अध्ययनस्य चतुर्विंशतितमः (२
) सोपानः ।

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुम् स्वजनमुद्यताः ।।४५।।
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ।।४६।।
सङ्जय उवाच
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ।।४७।।

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


अहो बत महत् पापं कर्तुं व्यवसिता: वयम् ।
यत् राज्यसुखलोभेन हन्तुम् स्वजनम् उद्यताः ।।४५।।
यदि माम् अप्रतीकारम् अशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा: रणे हन्यु: तत् मे क्षेमतरं भवेत् ।।४६।।
सङ्जय: उवाच
एवम् उक्त्वा अर्जुनः संख्ये रथोपस्थ: उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ।।४७।।

अत्र सन्धयः

  1. महत्पापम् = महत् + पापम् (व्यञ्जनसन्धिः)
  2. व्यवसिता वयम् = व्यवसिता: + वयम् (विसर्गसन्धिः)
  3. यद्राज्यसुखलोभेन = यत् + राज्यसुखलोभेन (व्यञ्जनसन्धिः)
  4. स्वजनमुद्यताः = स्वजनम् + उद्यताः (व्यञ्जनसन्धिः)
  5. मामप्रतीकारमशस्त्रम् = माम् + अप्रतीकारम् + अशस्त्रम् (व्यञ्जनसन्धिः) + (व्यञ्जनसन्धिः)
  6. धार्तराष्ट्रा रणे = धार्तराष्ट्रा: + रणे (विसर्गसन्धिः)
  7. हन्युस्तन्मे = हन्यु: + तत् + मे (विसर्गसन्धिः) + (व्यञ्जनसन्धिः)
  8. सङ्जय उवाच = सङ्जय: + उवाच (विसर्गसन्धिः)
  9. एवमुक्त्वार्जुनः = एवम् + उक्त्वा + अर्जुनः (व्यञ्जनसन्धिः) + (स्वरसन्धिः)
  10. रथोपस्थ उपाविशत् = रथोपस्थ: + उपाविशत् (विसर्गसन्धिः)
  • Shri. Gangadhar Nair has kindly provided an optional  as रथोपस्थे + उपाविशत् = रथोपस्थ उपाविशत् ( अच्सन्धिः ) . उपस्थ means lap, here the part of the cart where the traveller or fighter has to sit.( Arjuna who was standing to view his enemies and to fight sat down in dismay in the seat.)
  • My reaction to this comment is – Most pictures about गीतोपदेश show अर्जुन having got down from the chariot. Comment of Shri. Nair raises a curiosity about where अर्जुन got down, whether in his seat inside the chariot or down to the ground on the side of the chariot. If he was so weak “न शक्नोम्यवस्थातुम्” then he could have collapsed down to his seat and not could not have got down from the chariot.
  • But since he had recovered enough to indulge into long arguments justifying his non-willingness to fight, and also considering that the seat of the fighter is somewhat at a higher level than that of the charioteer, अर्जुन would not have been so indecent to stay put at his seat when putting forth his arguments to श्रीकृष्ण
Exercise 2 (a) Paraphrase the clauses

2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.

स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु

* के अत्र वाक्यांशाः ?
* कानि संबन्ध-सूचकानि ?
* कानि क्रियापदानि वा धातुसाधितानि ?
* कानि अत्र कर्तृपदानि ?
* कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

* २-१-१ अहो बत यत् राज्यसुखलोभेन स्वजनम् हन्तुम् वयम् उद्यताः
* २-१-२ (तत्) महत् पापं कर्तुं (वयम्) व्यवसिता: ।
* २-१-३ यदि रणे शस्त्रपाणयः धार्तराष्ट्रा: अशस्त्रं अप्रतीकारम् माम् हन्यु:
* २-१-४ तत् मे क्षेमतरं भवेत् ।
* २-१-५ सङ्जय: उवाच ।
* २-१-६ एवम् उक्त्वा ।
* २-१-७ सशरं चापं विसृज्य ।
* २-१-८ शोकसंविग्नमानसः अर्जुनः संख्ये रथोपस्थ: उपाविशत् ।

२-२ वाक्यांशानां विश्लेषणानि

२-२-१ “अहो बत यत् राज्यसुखलोभेन स्वजनम् हन्तुम् वयम् उद्यताः (स्मः)”  इति गौण-प्रधान-वाक्यांशः ।

  • २-२-१-१ अध्याहृतं अकर्मकं क्रियापदं “(स्मः)” ।
  • २-२-१-२ कर्तृपदं “वयम्” ।
  • २-२-१-३ “राज्यसुखलोभेन उद्यताः” इति पूरकार्थी गौण-वाक्यांशः ।
    • २-२-१-३-१ अत्र “उद्यताः” इति कर्मणि-भूतकालवाचकं धातुसाधितम् ।
    • २-२-१-३-२ धातुसाधितस्य तृतीया-विभक्तियुतं कर्तृपदं “राज्यसुखलोभेन” ।
  • २-२-१-४ अत्र “स्वजनम् हन्तुम्” इति गौण-वाक्यांशः ।
    • २-२-१-४-१ क्रियाविषेशणात्मकम् धातुसाधितम् “हन्तुम्” ।
    • २-२-१-४-२ धातुसाधितस्य कर्मपदं “स्वजनम्” ।
  • २-२-१-५ संबन्धसूचक-पदं “यत्” ।
  • २-२-१-६ उद्गारवाचके पदे “अहो बत” ।

२-२-२ “(तत्) महत् पापं कर्तुं (वयम्) व्यवसिता: (स्मः)” इति प्रधान-वाक्यांशः ।

  • २-२-२-१ अध्याहृतं अकर्मकं क्रियापदं “(स्मः)” ।
  • २-२-२-२ अध्याहृतं कर्तृपदं “(वयम्)” ।
  • २-२-२-३ “व्यवसिता:” इति पूरकार्थी धातुसाधितम् गौण-वाक्यांशः ।कर्मपदम् “कुलम्” ।
  • २-२-२-४ अत्र “महत् पापं कर्तुम्” इति क्रियाविषेशणात्मक: गौण-वाक्यांशः ।
    • २-२-२-४-१ तुमन्तं धातुसाधितं “कर्तुम् ।
    • २-२-२-४-२ धातुसाधितस्य कर्मपदम् “पापम्” ।
  • २-२-२-५ अध्याहृतं संबन्धसूचकं “(तत्)” ।

२-२-३ “यदि रणे शस्त्रपाणयः धार्तराष्ट्रा: अशस्त्रं अप्रतीकारम् माम् हन्यु:” इति गौण-वाक्यांशः ।

  • २-२-३-१ क्रियापदम् “हन्यु:” ।
  • २-२-३-२ कर्तृपदम् “धार्तराष्ट्रा:” ।
  • २-२-३-३ कर्मपदं “माम्” ।
  • २-२-३-४ संबन्धसूचकं “यदि” ।

२-२-४ “तत् मे क्षेमतरं भवेत्” इति प्रधान-वाक्यांशः ।

  • २-२-४-१ क्रियापदम् “भवेत्” ।
  • २-२-४-२ कर्तृपदम् “तत्” ।
  • २-२-४-३ पूरकपदं “क्षेमतरम्” ।

२-२-५ “सङ्जय: उवाच” इति प्रधान-वाक्यांश: ।

  • २-२-५-१ क्रियापदम् “उवाच” ।
  • २-२-५-२ कर्तृपदं “सङ्जय:” ।

२-२-६ “एवम् उक्त्वा” इति गौण-वाक्यांशः ।

  • २-२-६-१ धातुसाधितं “उक्त्वा” ।
  • २-२-६-२ कर्मपदमिव अव्ययम् “एवम्” ।

२-२-७ “सशरं चापं विसृज्य” इति गौण-वाक्यांश: ।

  • २-२-७-१ धातुसाधितं “विसृज्य” ।
  • २-२-७-२ धातुसाधितस्य कर्मपदम् “चापम्” ।

२-२-८ “शोकसंविग्नमानसः अर्जुनः संख्ये रथोपस्थ: उपाविशत्” इति प्रधानवाक्यांशः ।

  • २-२-८-१ अकर्मकं क्रियापदं “उपाविशत्” ।
  • २-२-८-२ कर्तृपदं “अर्जुनः” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

I have been taking the words in the order they appear after सन्धि-विच्छेद i.e. after breaking the conjugations in Exercise 1. I think it would be more in order to take them in the order they come, in paraphrasing the clauses, i.e. by अन्वय in Exercise 2. By this, any implicit अध्याहृत words, revealing during अन्वय will also not be left out of study.

१ अहो बत यत् राज्यसुखलोभेन स्वजनम् हन्तुम् वयम् उद्यताः (स्मः)

३-१ अहो (= Oh) इति उद्गारवाचकं अव्ययम् ।
३-२ बत (= God !) इति उद्गारवाचकं अव्ययम् ।

  • अहो बत = Oh God !

३-३ यत् (= what) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनं च ।
३-४ राज्यसुखलोभेन “राज्यसुखलोभ” इति सामासिकं पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।

  • ३-४-१ राज्यस्य सुखं राज्यसुखम् । षष्ठी-तत्पुरुषः ।
  • ३-४-२ राज्यसुखस्य लोभः राज्यसुखलोभः । षष्ठी-तत्पुरुषः ।
  • ३-४-३ राज्यस्य “राज्” १ उ (= to shine, to rule) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “राज्य” (= reign, power, authority) । तस्य षष्ठी विभक्तिः एकवचनं च ।
  • ३-४-४ सुखम् “सुख” (= pleasure) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-४-५ लोभः “लुभ्” ४ प (= to attract, to entice) इति धातुः । तस्मात् पुल्लिङ्गि नाम “लोभ” (= attraction, enticement, greed) । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-४-६ राज्यसुखलोभः = enticement or greed of the pleasures of power to rule

३-५ स्वजनम् “स्वजन” (= relatives, acquaintances) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-५-१ स्वस्य जनः स्वजनः । षष्ठी-तत्पुरुषः ।
  • ३-५-२ स्वस्य “स्व” (= self) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-५-३ जनः “जन” (= persons) इति समूहवाचकम् पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-६ हन्तुम् “हन्” २ प (= to strike, to attack, to kill) इति धातुः । तस्मात् क्रियाविशेषणात्मकं तुमन्तं अव्ययम् “हन्तुम्” (= to kill, for killing) ।
३-७ वयम् “अस्मद्” (= pronoun of first person, i.e. I, we) इति सर्वनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-८ उद्यताः “उत् + यम्” १ प (= to be busy, to get busy, to be motivated) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “उद्यत” (= motivated) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-९ स्मः “अस्” २ प (= to be) इति धातुः । तस्य वर्तमानकाले उत्तमपुरुषे बहुवचनम् ।

२ (तत्) महत् पापं कर्तुं (वयम्) व्यवसिता: ।

३-१० तत् (= that) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनं च ।
३-११ महत् (= big, large) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनं च ।
३-१२ पापम् “पाप” (= sin) नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च ।
३-१३ कर्तुम् “कृ” ८ उ (= to do) इति धातुः । तस्मात् तुमन्तं अव्ययम् “कर्तुम्” (= for doing) ।
३-१४ व्यवसिता: “वि + अव + सि” ५, ९ उ (= to bind oneself to, to become engaged in) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “व्यवसित” (= one, who is engaged in) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३ यदि रणे शस्त्रपाणयः धार्तराष्ट्रा: अशस्त्रं अप्रतीकारम् माम् हन्यु:

३-१५ यदि (= if) इति अव्ययम् ।
३-१६ रणे “रण” (= battle, war) इति नपुंसकलिङ्गि नाम । तस्य
३-१७ शस्त्रपाणयः इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-१७-१ शस्त्रम् पाणौ यस्य सः शस्त्रपाणिः । बहुव्रीहिः ।
  • ३-१७-२ शस्त्रम् “शस्त्र” (= weapon) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-१७-३ पाणौ “पाणि” (= hand) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • ३-१७-४ शस्त्रपाणिः = one, who is wielding weapon in his hand

३-१८ धार्तराष्ट्रा: “धार्तराष्ट्र” (= son of धृतराष्ट्र) इति तद्धितं* विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-१८-१ *धृतराष्ट्रस्य अयम् इति धार्तराष्ट्रः ।
  • ३-१८-२ धृतराष्ट्रस्य “धृतराष्ट्र” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
    • ३-१८-२-१ धृतं राष्ट्रं येन सः (= he who reigned the kingdom) = धृतराष्ट्रः । बहुव्रीहिः । अथवा –
    • ३-१८-२-२ धृतः राष्ट्रेण (= he, who was accepted (as King) by the nation)= धृतराष्ट्रः । तृतीया-तत्पुरुषः ।
    • ३-१८-२-३ धृतम् “धृ” १ उ ६ आ १० उ (= to be maintained o preserved) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “धृत” (= maintained or preserved) । अत्र नपुम्सकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-१८-२-४ राष्ट्रम् “राष्ट्र” (= nation, kingdom, empire) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-१८-२-५ धृतः “धृ” १ उ ६ आ १० उ (= to hold, to bear, to carry, to resolve upon) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “धृत” (= borne, resolved upon) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-१८-२-६ राष्ट्रेण “राष्ट्र” (= nation, kingdom, empire) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।

३-१९ अशस्त्रम् “अशस्त्र” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१९-१ न शस्त्रं यस्य सः अशस्त्रः । नञ्-बहुव्रीहिः ।
  • ३-१९-२ अशस्त्रः = one, who is not wielding any weapon

३-२० अप्रतीकारम् “अप्रतीकार” इति सामासिकं विशेषणम् । अत्र

  • ३-२०-१ न प्रतीकारः यस्य सः अप्रतीकारः । नञ्-बहुव्रीहिः ।
  • ३-२०-२ प्रतीकारः “प्रति + कृ” ८ उ (= to react, to resist) इति धातुः । तस्मात् पुल्लिङ्गि नाम “प्रति (ती)-कार” (= resistance, reaction) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२०-३ अप्रतीकारः = one, who does not offer any resistance

३-२१ माम् “अस्मद्” (= pronoun of first person, i.e. I, we) इति सर्वनाम । तस्य द्वितीया विभक्तिः एकवचनं च ।
३-२२ हन्यु: “हन्”२ प (= to strike, to attack, to kill, destroy) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे बहुवचनम् ।

४ तत् मे क्षेमतरं भवेत् ।

३-२३ तत् (= that) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-२४ मे  “अस्मद्” (= pronoun of first person, i.e. I, we) इति सर्वनाम । तस्य चतुर्थी विभक्तिः एकवचनं च ।
३-२५ क्षेमतरं “क्षेम” (= doing good, welfare) इति विशेषणम् तथा नाम अपि अत्र तरभावात्मकं विशेषणम् “क्षेमतर” (= more beneficial) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-२६ भवेत् “भू” १ प (= to be, to become) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

५ सङ्जय: उवाच ।

३-२७ सङ्जय: “सम् + जि” १ प (= to win comprehensively) इति धातुः । तस्मात् पुल्लिङ्गि विशेषनाम “सङ्जय” (= he who wins comprehensively, name of the charioteer of धृतराष्ट्र) । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-२८ उवाच “वच्” २ प (= to say, to speak, to tell) इति धातुः । तस्य परोक्षभूते प्रथमपुरुषे एकवचनम् ।

६ एवम् उक्त्वा ।

३-२९ एवम् (= thus) इति अव्ययम् ।
३-३० उक्त्वा “वच्” २ प (= to say, to speak, to tell) इति धातुः । तस्मात् भूतकालवाचकं त्वान्तं अव्ययम् “उक्त्वा” (= ) ।

७ सशरं चापं विसृज्य ।

३-३१ सशरं “सशर” इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-३१-१ शरेण सह सशरम् । उपपद-तत्पुरुषः ।
  • ३-३१-२ शरेण “शर” (= arrow)  पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • ३-३१-३ सह (= with) इति अव्ययम् ।
  • ३-३१-४ सशरम् = with arrow

३-३२ चापम् “चाप” (= bow) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-३३ विसृज्य “वि + सृज्” ४ आ ६ प (= to leave out, to put away) इति धातुः । तस्मात् भूतकालवाचकं ल्यबन्तं अव्ययम् “विसृज्य” (= on putting away) ।

८ शोकसंविग्नमानसः अर्जुनः संख्ये रथोपस्थ: उपाविशत् ।

३-३४ शोकसंविग्नमानसः “शोकसंविग्नमानस” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-३४-१ शोकेन संविग्नं शोकसंविग्नम् । तृतीया-तत्पुरुषः ।
  • ३-३४-२ शोकसंविग्नम् मानसं यस्य सः शोकसंविग्नमानसः । बहुव्रीहिः ।
  • ३-३४-३ शोकेन “शुक्” १ प (= to go, to move) इति धातुः । तस्मात् पुल्लिङ्गि नाम “शोक” (= grief of separation, sorrow) । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • ३-३४-४ संविग्नम् “सम् + विक् (?)” ?? (= to pervade) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “संविग्न” (= pervaded) अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च । Shri. Gangadharan Nair has very kindly provided a good clarification – “संविग्न is the क्तान्त of the root विज् ( ओ विजी भयचलनयोः )। It means agitated, confused, or tense. Similar is the word उद्विग्नः। उद्वेगः or संवेगः = tension, mental agitation.” By the clarification given by Shri. Nair, संविग्नम् “सम् + विज्” ४ आ ६ प (= to be agitated, to be afflicted) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “संविग्न” (=afflicted)
  • ३-३४-५ मानसम् “मानस” (= mind) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-३४-६ शोकसंविग्नमानसः = one, whose mind is pervaded with sorrow

३-३५ अर्जुनः “अर्जुन” (= name of third पाण्डव) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-३६ संख्ये “संख्य” (= war, battle) इति नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
३-३७ रथोपस्थ: “रथोपस्थ” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-३७-१ रथं उपस्थः रथोपस्थः । षष्ठी-तत्पुरुषः ।
  • ३-३७-२ रथम् “रथ” (= chariot) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३-३७-३ उपस्थः “उप + स्था” (= to stay near) इति धातुः । तस्मात् तद्धितं विशेषणम् “उपस्थ” (= staying near) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-३७-४ रथोपस्थः = beside of the chariot

३-३८ उपाविशत् “उप + विश्” ६ प (= to sit down) इति धातुः । तस्य अनद्यतनभूतकाले प्रथमपुरुषे एकवचनम् ।

Exercise 4 Arrange the verses in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ अहो बत यत् राज्यसुखलोभेन स्वजनम् हन्तुम् वयम् उद्यताः = Oh God ! Given that we are motivated to indulge in killing our kith and kin due to the enticement (or greed) of pleasures of power and authority
  • ४-२ (तत्) महत् पापं कर्तुं (वयम्) व्यवसिता: = we are indulging in committing a big sin
  • ४-३ यदि रणे शस्त्रपाणयः धार्तराष्ट्रा: अशस्त्रं अप्रतीकारम् माम् हन्यु: = If these (well-) armed sons of Dhrutarashtra would attack and kill me (even when) I shall be unarmed and not offering any resistance whatsoever
  • ४-४ तत् मे क्षेमतरं भवेत् = that will be only better for me
  • ४-५ सङ्जय: उवाच = Sanjaya said (told or narrated further to Dhrutarashtra)
  • ४-६ एवम् उक्त्वा = By saying so
  • ४-७ सशरं चापं विसृज्य = by abandoning his bow and arrow
  • ४-८ शोकसंविग्नमानसः अर्जुनः संख्ये रथोपस्थ: उपाविशत् = with his mind overwhelmed with grief, there on the battle-field Arjuna knelt down beside the chariot.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we have to set the verse into four quarters –

अहो बत महत्पापं । वर्णाः ८
कर्तुं व्यवसिता वयम् । वर्णाः ८
यद्राज्यसुखलोभेन ।  वर्णाः ८
हन्तुम् स्वजनमुद्यताः । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

६-१ These three verses are the last three verses of first chapter. With Arjuna having cast away his bow and arrow and having knelt down beside the chariot becomes the fitting conclusion of the chapter.

६-२ But every chapter has sort of a signing off signature, which is of course rich with meaning. That signing off signature merits a study of itself. That will be studied next.


शुभमस्तु ।

-o-O-o-

Advertisements