Learning together Sanskrit and GeetA (Chapter 1 Epilogue)

Learning together Sanskrit and GeetA (Chapter 1 Epilogue)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः
अध्ययनस्य अध्याय-समाप्ति-विषयकः पञ्चविंशतितमः (२५) सोपानः ।

ॐ तत्सदिति
श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ।

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


ॐ तत् सत्
इति श्रीमत्-भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे
श्रीकृष्ण-अर्जुनसंवादे अर्जुन-विषाद-योग: नाम प्रथम: अध्यायः ।

अत्र सन्धयः

  1. तत्सदिति  = तत् सत् इति (व्यञ्जनसन्धिः)
  2. श्रीमद्भगवद्गीतासु = श्रीमत्-भगवत्-गीतासु (व्यञ्जनसन्धिः)
  3. श्रीकृष्णार्जुनसंवादे = श्रीकृष्ण-अर्जुनसंवादे (स्वरसन्धिः)
  4. अर्जुनविषादयोगो नाम = अर्जुन-विषाद-योग: नाम (विसर्गसन्धिः)
  5. प्रथमोऽध्यायः = प्रथम: अध्यायः (विसर्गसन्धिः)
Exercise 2 (a) Paraphrase the clauses

2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.

स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु

* के अत्र वाक्यांशाः ?
* कानि संबन्ध-सूचकानि ?
* कानि क्रियापदानि वा धातुसाधितानि ?
* कानि अत्र कर्तृपदानि ?
* कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

  • २-१-१ ॐ तत् सत्
  • २-१-२ इति
  • २-१-३ श्रीमत्-भगवत्-गीतासु उपनिषत्सु
  • २-१-४ ब्रह्म-विद्यायां
  • २-१-५ योग-शास्त्रे
  • २-१-६ श्रीकृष्ण-अर्जुनसंवादे
  • २-१-७ अर्जुन-विषाद-योग:
  • २-१-८ नाम
  • २-१-९ प्रथम: अध्यायः

२-२ वाक्यांशानां विश्लेषणानि

२-२-१ “ॐ तत् सत्”  इति महावाक्यम् ।
२-२-२ “नाम श्रीमत्-भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुनसंवादे इति अर्जुन-विषाद-योग: प्रथम: अध्यायः” इति प्रधान-वाक्यांशः ।

  • २-२-२-१ क्रियापदात्मकं अव्ययम् “इति” ।
  • २-२-२-२ कर्तृपदं “अध्यायः” ।

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

१ “ॐ तत् सत्” ।

३-१ ॐ इति एकाक्षरं ब्रह्म !

  • ३-१-१ ॐ इति “ज्ञेयमेतत् !” एवं निर्देशः अपि ।

३-२ तत् (= that) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-२-१ “तत्” इति परमतत्त्वस्य निर्देशः अपि ।

३-३ सत् “अस्” २ प (= to be, to exist) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “सत्” (= existing, truthful) ।अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-३-१ “सत्” (= truthful, good, noble) इति उपसर्गः अपि यथा ‘सद्विचारः’, ‘सज्जनः’, ‘सत्त्वम्’ एताविधेषु शब्देषु ।
  • ३-३-२ “सत्” इति परमात्मतत्त्वस्य अस्तित्वस्य धारणायाः अनुमोदनं आग्रहः अपि ! From one more perspective, “सत्” is the endorsement and assertion of the concept of existence of the supreme or ultimate principle.

२ नाम श्रीमत्-भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुनसंवादे इति अर्जुन-विषाद-योग: प्रथम: अध्यायः

३-४ नाम (= really) इति अव्ययम् ।

  • When reciting the phrase “अर्जुनविषादयोगो नाम प्रथमोऽध्यायः” I was always thinking that the word नाम is citing the name of the अध्याय to be “अर्जुनविषादयोग”
  • However when doing grammatical analysis in this study here, it comes to mind that for the meaning “name of this first अध्याय is “अर्जुनविषादयोग”, the phrase could rather be अर्जुनविषादयोगनामा प्रथमोऽध्यायः
  • It seems, the word नाम standing separately can only be an indeclinable “नाम (= really) इति अव्ययम्”
  • By this logic the syntax and meaning can be rather put as नाम (अयं) प्रथमः अध्यायः अर्जुनविषादयोगः = Really, this first chapter is (details) अर्जुनविषादयोगः. Note, अर्जुनविषाद is also worth a study as a योगः.
  • It is well acknowledged in श्रीमद्भागवतम् (७-५-२३) that आत्मनिवेदनम् is an important type of भक्ति among नवविधा nine types of भक्ति-s. Here अर्जुनविषाद is नाम really आत्मनिवेदनम् by अर्जुन.

३-५ श्रीमत्-भगवत्-गीतासु ” इति सामासिकं विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य सप्तमी विभक्तिः बहुवचनम् च ।

  • ३-५-१ श्रीमान् च भगवान् च इति श्रीमद्भगवान् । समाहार-द्वंद्वः ।
  • Shri. Gangadharan Nair has commented “…. श्रीमान् च असौ भगवान् च श्रीमद्भगवान् । It is not समाहारद्वन्द्व, it is कर्मधारय.
  • ३-५-२ श्रीमद्भगवता गीता इति श्रीमद्भगवद्गीता । तृतीया-तत्पुरुषः ।
  • ३-५-३ श्रीमान् “श्रीमत्” (= full of glory, glorious) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-५-४ भगवान् “भगवत्” (= full of brilliance) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • Apte’s dictionary gives 18 different meanings of the word “भग”. ‘Brilliance’ is one of the 18 meanings.
  • ३-५-५ गीता “गै” १ प (= to sing) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “गीत” । अत्र स्त्रीलिङ्गि “गीता” (= sung) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-५-६ श्रीमद्भगवद्गीता = श्रीमता भगवता गीता = sung by Him who is glorious and brilliant

३-६ उपनिषत्सु “उप + नि + सद्” १ अथवा ६ प (= to sit beside) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् प्रायः स्त्रीलिङ्गि नाम अपि “उपनिषत्” (= what sits on the side, what is closely related) । तस्य सप्तमी विभक्तिः बहुवचनम् च ।

  • ३-६-१ In उप + नि + सद् every prefix has a significance of its own.
    • उप = nearby, subsidiary, supplementary
    • नि = thorough, to the ultimate detail
    • सद् = to sit beside, to be closely related to
  • ३-६-२ उपनिषत् is that scripture which has close relationship with the Vedas

३-७ ब्रह्म-विद्यायाम् “ब्रह्मविद्या” इति सामासिकं स्त्रीलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ३-७-१ ब्रह्मणः विद्या इति ब्रह्मविद्या । षष्ठी-तत्पुरुषः ।
  • ३-७-२ ब्रह्मणः “ब्रह्मन्” इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-७-३ The meaning of ब्रह्मन् is detailed in Apte’s dictionary as follows. “The supreme being, regarded as impersonal and divested of all quality and action. … ब्रह्मन् is both the efficient and material cause of the visible universe. It is the essence from which all created things are produced and into which they are absorbed.
  • ३-७-४ ब्रह्मविद्या = all knowledge about ब्रह्मन्

३-८ योग-शास्त्रे “योगशास्त्र” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ३-८-१ योगस्य शास्त्रं योगशास्त्रम् । षष्ठी-तत्पुरुषः ।
  • ३-८-२ योगस्य “युज्” ७ उ (= to join) इति धातुः । तस्मात् पुल्लिङ्गि नाम “योग” (= joining, merging together, communion) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-८-३ शास्त्रम् “शास्” २ प (= to rule, to put into order) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “शास्त्र” (= science) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-८-४ योगशास्त्र = science and technique of communion (with the Supreme)

३-९ श्रीकृष्ण-अर्जुनसंवादे “श्रीकृष्णार्जुनसंवाद” इति सामासिकं पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ३-९-१ श्रीयुतः च कृष्णः च श्रीकृष्णः । समाहार-द्वंद्वः ।
  • Shri. Gangadharan Nair has commented “….it is मध्यमपदलोपी समासः ….”
  • Frankly I have a debate in my mind about this compound word श्रीकृष्ण. Obviously श्री stands for श्रीयुत and hence it indicates to be a मध्यमपदलोपी समासः But श्रीयुत and कृष्ण are two different adjectives. This leads me to take it as समाहार-द्वंद्वः । But do two different adjectives combined into one compound word make the compound word to be of समाहार-द्वंद्व type is also a question. Shri. Gangadharan Nair suggests that it should be कर्मधारय as for the word श्रीमद्भगवान् See his comment at ३-५-१
  • If कृष्णः is taken as a proper noun, which also it certainly is, then श्रीयुतः कृष्णः श्रीकृष्णः becomes मध्यमपदलोपी समासः
  • ३-९-२ श्रीकृष्णः च अर्जुनः च श्रीकृष्णार्जुनौ । इतरेतर-द्वंद्वः ।
  • ३-९-३ श्रीकृष्णार्जुनयोः संवादः श्रीकृष्णार्जुनसंवादः । षष्ठी-तत्पुरुषः ।
  • ३-९-४ श्रीकृष्णार्जुनसंवाद = dialogue between श्रीकृष्ण and अर्जुन

३-१० इति (= thus ends) अव्ययम् ।
३-११ अर्जुनविषादयोग: “अर्जुनविषादयोग” इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-११-१ समासविग्रहस्य प्रथमः पर्यायः
    • अर्जुनस्य विषादः अर्जुनविषादः । षष्ठी-तत्पुरुषः ।
    • अर्जुनविषादः एव योगः । कर्मधारयः ।
  • ३-११-२ समासविग्रहस्य द्वितीयः पर्यायः
    • विषादेन योगः विषादयोगः । तृतीया-तत्पुरुषः ।
    • अर्जुनस्य विषादयोगः अर्जुनविषादयोग: । षष्ठी-तत्पुरुषः ।
  • ३-११-३ विषादः “वि + सद्” १ अथवा ६ प (= to be sad) इति धातुः । तस्य प्रयोजकात् पुल्लिङ्गि नाम “विषाद” (= sadness, compassionate grief) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-११-४ अर्जुनविषादयोग: = Arjuna’s communion with the Supreme through his compassionate grief

३-१२ प्रथम: “प्रथम” (= ) इति संख्यावाचकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१३ अध्यायः “अधि + इ” १, २ प (= to firmly go to, to acquire, to study) इति धातुः । तस्य प्रयोजकात् पुल्लिङ्गि नाम “अध्याय” (= what has to be made to firmly go in, chapter, section, portion of study) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

Exercise 4 Arrange the verses in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ ॐ तत् सत् = Om ! May that Supreme Truth be for the good of all !
  • ४-२ इति = Thus ends
  • ४-३ नाम प्रथम: अध्यायः = really the first chapter
  • ४-४ श्रीमत्-भगवत्-गीतासु उपनिषत्सु = (which holds close relation with) enshrined principles as sung by the glorious and brilliant (Almighty)
  • ४-५ ब्रह्म-विद्यायां = (which holds close relation with) all knowledge about ब्रह्मन्
  • ४-६ योग-शास्त्रे = (which holds close relation with) science and technique of communion (with the Supreme)
  • ४-७ श्रीकृष्ण-अर्जुनसंवादे = (is a part of the) dialogue between श्रीकृष्ण and अर्जुन
  • ४-८ अर्जुन-विषाद-योग: = (which dwells upon) Arjuna’s communion with the Supreme through his compassionate grief

Pandit Kailash Nath Kalia in his book (New age Books, Delhi, 2008) paraphrases the translation of the epilogue as “Thus ends the first chapter entitled “The Despondency of Arjuna”, in the Upanishad of the Bhagavad GitA (Sermons given by the gracious Lord), the science of the Absolute, the Treatise on Yoga, The dialogue between the blessed अर्जुन and श्रीकृष्ण”

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

This is not a verse.

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

६-१ As can be seen, every phrase in this epilogue suggests for every chapter very exalted contexts and objectives as of the Upanishads (in turn of the Vedas), knowledge of the Supreme, science of communion with the Supreme.


शुभमस्तु ।

-o-O-o-

Advertisements