Learning together Sanskrit and GeetA (Chapter 2 Verse 1) – Post # 26

Learning together Sanskrit and GeetA (Chapter 2 Verse 1) – Post # 26
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः
अध्ययनस्य (अध्याय २ श्लोकः १)-विषयकः षड्-विंशतितमः (२६) सोपानः ।

ॐ श्रीपरमात्मने नमः ।
अथ द्वितीयोऽध्यायः ।
संजय उवाच –
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।

विषीदन्तमिदम् वाक्यमुवाच मधुसूदनः ।।१।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


ॐ श्री-परम-आत्मने नमः ।
अथ द्वितीय: अध्यायः ।
संजय: उवाच –
तं तथा कृपया आविष्टम् अश्रुपूर्ण-आकुल-ईक्षणम् ।
विषीदन्तम् इदम् वाक्यम् उवाच मधुसूदनः ।।१।।

अत्र सन्धयः
  1. श्रीपरमात्मने  = श्री-परम-आत्मने (स्वरसन्धिः) (व्यञ्जनसन्धिः)
  2. द्वितीयोऽध्यायः = द्वितीय: अध्यायः (विसर्गसन्धिः)
  3. कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् = कृपया आविष्टम् अश्रुपूर्ण-आकुल-ईक्षणम् (स्वरसन्धिः) (व्यञ्जनसन्धिः) (स्वरसन्धिः) (स्वरसन्धिः)
  4. विषीदन्तमिदम् = विषीदन्तम् इदम् (व्यञ्जनसन्धिः)
  5. वाक्यमुवाच = वाक्यम् उवाच (व्यञ्जनसन्धिः)
Exercise 2 (a) Paraphrase the clauses

2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.

स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु

* के अत्र वाक्यांशाः ?
* कानि संबन्ध-सूचकानि ?
* कानि क्रियापदानि वा धातुसाधितानि ?
* कानि अत्र कर्तृपदानि ?
* कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

  • २-१-१ तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणम् विषीदन्तम् तं मधुसूदनः इदम् वाक्यम् उवाच ।

२-२ वाक्यांशानां विश्लेषणानि

२-२-१ “तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणम् विषीदन्तम् तं मधुसूदनः इदम् वाक्यम् उवाच”  इति प्रधान-वाक्यांशः ।

  • २-२-१-१ द्विकर्मकं क्रियापदम् “उवाच” ।
  • २-२-१-२ कर्तृपदं “मधुसूदनः” ।
  • २-२-१-३ कर्मपदं “वाक्यम्” ।
  • २-२-१-४ पुरुषवाचकं कर्मपदं “तम्” ।

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

१ “तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणम् विषीदन्तम् तं मधुसूदनः इदम् वाक्यम् उवाच” ।

३-१ तथा (= Like that) इति अव्ययम् ।
३-२ कृपया “कृपा” (= compassion) इति स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।
३-३ आविष्टम् “आ + विश्” ६ प (= to engulf) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “आविष्ट” (= engulfed) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-४ अश्रुपूर्णाकुलेक्षणम् = अश्रुपूर्ण-आकुल-ईक्षणम् ।

  • ३-४-१ अश्रुपूर्णाकुलेक्षणम् “अश्रुपूर्णाकुलेक्षण” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३-४-२ अश्रुभिः पूर्णं अश्रुपूर्णम् । तृतीया-तत्पुरुषः ।
  • ३-४-३ अश्रुपूर्णं आकुलं च अश्रुपूर्णाकुलम् । कर्मधारयः (वा समाहार-द्वंद्वः ?)
  • ३-४-४ अश्रुपूर्णाकुलम् ईक्षणम् यस्य सः अश्रुपूर्णाकुलेक्षण: । बहुव्रीहिः ।
  • ३-४-५ अश्रुभिः “अश्रु” (= tear) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।
  • ३-४-६ पूर्णम् “पूर्ण” (= full of) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-४-७ आकुलम् “आकुल” (= overcome, affected, afflicted, smit, intensely anxious) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-४-८ ईक्षणम् “ईक्ष्” १ आ (= to see, to look) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “ईक्षण” (= look, appearance, seeing) । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-५ विषीदन्तम् “वि + सद्” १ अथवा ६ प (= to grieve) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “विषीदन्” (= grieving) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-६ तं “तत्” (= that) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-७ मधुसूदनः “मधुसूदन” (= he, who killed the demon, named Madhu) इति सामासिकं पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
As detailed at ३-४६ in Post # 21 –>

  • ३-४६-१ मधोः सूदनः इति मधुसूदनः । षष्ठी-तत्पुरुषः ।
  • ३-४६-२ मधोः “मधु” (= sweet) इति विशेषणम् । परन्तु अत्र पुल्लिङ्गि विशेषनाम (= name of a demon) । तस्य षष्ठी विभक्तिः             एकवचनम् च । “मधु” (= sweet) इति विशेषणम् । यदा नपुंसकलिङ्गि तदा षष्ठी विभक्तिः एकवचनम् “मधुनः” इति ।
  • ३-४६-३ सूदनः “सूद्” १ आ १० उ (= to kill) इति धातुः । तस्मात् विशेषणम् “सूदन” (= one, who kills) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-८ इदम् (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-९ वाक्यम् “वच्” २ प (= to say, to speak, to talk) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “वाक्य” (= talk) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-१० उवाच “वच्” २ प (= to say, to speak, to talk) इति धातुः । तस्य परोक्षभूते प्रथमपुरुषे एकवचनम् ।

Exercise 4 Arrange the verses in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ ॐ श्रीपरमात्मने नमः । = Om ! May my obeisances be to the Supreme soul !
  • ४-२ अथ द्वितीय: अध्यायः । = Here begins the second chapter
  • ४-३ सञ्जयः उवाच । = Sanjaya said –
  • ४-४ तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणम् विषीदन्तम् तं मधुसूदनः इदम् वाक्यम् उवाच । = To him who was thus overcome by compassion, whose eyes were full of tears and whose looks were (hence) anxious, pleading and askance, who was thus immersed in grief, to him Madhusudan (Krishna, who killed the demon named Madhu) said this (talk) –

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we have to set the verse into four quarters –

तं तथा कृपयाविष्टम् । वर्णाः ८
अश्रुपूर्णाकुलेक्षणम् । वर्णाः ८
विषीदन्तमिदम् वाक्यम् ।  वर्णाः ८
उवाच मधुसूदनः । वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

६-१ The last shloka of the previous (first) chapter was  preceded by सञ्जयः उवाच. This, first shloka of the second chapter is also preceded by सञ्जयः उवाच. Certainly सञ्जय did not take a pause in the flow of his narration to Dhrutarashtra, to recognise the end of Chapter one. Obviously where to end a chapter is some editing done by the author i.e. by महर्षि व्यास.

६-२ To decipher the meter and to set the verse into four quarters (see Exercise 5) the long conjugated word कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् has to be broken as कृपयाविष्टम् to be in the first quarter and second quarter to start with अश्रुपूर्णाकुलेक्षणम्. Likewise the conjugated word वाक्यमुवाच has to be also broken as वाक्यम् and उवाच. In my style of memorising and reciting I often resort to such breaking of long conjugated words. This helps not only good recitation but also in mentally following the meaning of what one is reciting. Such recitation is called as अर्थानुगामि “following the meaning”.


शुभमस्तु ।

-o-O-o-

Advertisements