Learning together Sanskrit and GeetA (Chapter 2 : Verses 11, 12, 13)

Learning together Sanskrit and GeetA (Chapter 2 : Verses 11, 12, 13)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोकौ , १२, १३) एकत्रिंशत्तमः (३) सोपानः ।


श्रीभगवानुवाच –
अशोच्यानन्वशोचस्त्वम् प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ।।२-११।।
न त्वेवाहं जातु नासं न त्वम् नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ।।२-१२।।
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ।।२-१३।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


श्रीभगवान् उवाच –
अशोच्यान् अन्वशोच: त्वम् प्रज्ञावादान् च भाषसे ।
गतासून् अगतासून् च न अनुशोचन्ति पण्डिताः ।।२-११।।
न तु एव अहं जातु न आसं न त्वम् न इमे जन-अधिपाः ।
न च एव न भविष्यामः सर्वे वयम् अतः परम् ।।२-१२।।
देहिन: अस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देह-अन्तरप्राप्ति: धीरः तत्र न मुह्यति ।।२-१३।।

अत्र सन्धयः

  1. श्रीभगवानुवाच = श्रीभगवान् उवाच (व्यञ्जनसन्धिः)
  2. अशोच्यानन्वशोचस्त्वम् = अशोच्यान् अन्वशोच: त्वम् (व्यञ्जनसन्धिः) (विसर्गसन्धिः)
  3. प्रज्ञावादांश्च = प्रज्ञावादान् च (व्यञ्जनसन्धिः)
  4. गतासूनगतासूंश्च = गतासून् अगतासून् च (व्यञ्जनसन्धिः) (व्यञ्जनसन्धिः)
  5. नानुशोचन्ति  = न अनुशोचन्ति (स्वरसन्धिः)
  6. त्वेवाहं = तु एव अहं (स्वरसन्धिः) (स्वरसन्धिः)
  7. नासं = न आसं (स्वरसन्धिः)
  8. नेमे =  न इमे (स्वरसन्धिः)
  9. जनाधिपाः = जन-अधिपाः (स्वरसन्धिः)
  10. चैव = च एव (स्वरसन्धिः)
  11. वयमतः = वयम् अतः (व्यञ्जनसन्धिः)
  12. देहिनोऽस्मिन्यथा = देहिन: अस्मिन् यथा (विसर्गसन्धिः) (व्यञ्जनसन्धिः)
  13. देहान्तरप्राप्तिर्धीरस्तत्र =
    • देहान्तरप्राप्ति: = देह-अन्तरप्राप्ति: (स्वरसन्धिः)
    • देहान्तरप्राप्तिर्धीर: = देह-अन्तरप्राप्ति: धीरः (विसर्गसन्धिः)
    • देहान्तरप्राप्तिर्धीरस्तत्र = देह-अन्तरप्राप्ति: धीरः तत्र (विसर्गसन्धिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
श्रीभगवान् उवाच, “त्वम् अशोच्यान् अन्वशोच: प्रज्ञावादान् भाषसे च । पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति । अहं जातु न आसम्, त्वम् न (आसीः) इमे जनाधिपाः न (आसन्), (एवम्) तु न (अस्ति) एव । वयम् सर्वे अतः परम् न भविष्यामः, (एवम्) च न (अस्ति) एव ।
यथा देहिन: अस्मिन् देहे कौमारं यौवनं जरा (भवन्ति) तथा देहान्तरप्राप्ति: (भवति) । धीरः तत्र न मुह्यति ।”

वाक्यांशानां विश्लेषणानि  Analysis of clauses

वाक्यांश-
क्रमाङ्कः
संबन्धसूचकम् कर्तृपदम् कर्मपदम् इतरे शब्दाः क्रियापदम् अथवा धातुसाधितम् उद्गारवाचकम्, संबोधनम् वा अव्ययम्
श्रीभगवान् उवाच
 त्वम् अशोच्यान् अन्वशोच:
(त्वम्) प्रज्ञावादान् भाषसे
पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति
अहम् जातु न आसम्
त्वम् न (आसीः)
इमे जनाधिपाः न (आसन्)
(एवम्) तु  न (अस्ति) एव
वयम् सर्वे अतः परम् न भविष्यामः
१० (एवम्) न (अस्ति) एव
११ यथा कौमारं यौवनं जरा देहिन: अस्मिन् देहे (भवन्ति)
१२ तथा देहान्तरप्राप्ति: (भवति)
१३ धीरः तत्र न मुह्यति

Attempt has been made in designing the above tabulation, such that one can as well read the complete अन्वय in a flow.

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time. Also, especially in the verses here the words गतासून् अगतासून् as also आसम् आसीः आसन् अस्ति can be grouped together.

श्रीभगवान् उवाच, “अशोच्यान् अन्वशोच: त्वम् प्रज्ञावादान्भाषसेपण्डिताः गतासून् अगतासून् च न अनुशोचन्ति । अहं जातुआसम्, त्वम् न (आसीः) इमे जनाधिपाः न (आसन्), (एवम्) तु न (अस्ति) एव । वयम् सर्वे अतः परम् न भविष्यामः, (एवम्) च न (अस्ति) एव । यथा देहिन: अस्मिन् देहे कौमारं यौवनं जरा (भवन्ति) तथा देहान्तरप्राप्ति: (भवति) । धीरः तत्र न मुह्यति ।”

१  अशोच्यान्  “शुच्” १ प (= to grieve) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “शोच्य” । तस्य नकारात्मकं “अशोच्य” (= not worthy of grieving over) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनं च ।
२ अन्वशोच: “अनु + शुच्” १ प (= to grieve about) इति धातुः । तस्य अनद्यतन-(लङ्)-भूतकाले मध्यमपुरुषे एकवचनम् ।
३ प्रज्ञावादान् “प्रज्ञावाद” इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनं च ।

  • ३-१ प्रज्ञया युतः वाद: प्रज्ञावाद: । मध्यमपदलोपी समासः ।
  • ३-२ प्रज्ञया “प्र + ज्ञा” ९ उ (= to become intelligent) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “प्रज्ञा” (= Intelligence) । तस्य तृतीया विभक्तिः एकवचनं च ।
  • ३-३ वाद: “वद्” १ प (= to speak, to argue) इति धातुः । तस्मात् पुल्लिङ्गि नाम “वाद” (= argument) । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-४ प्रज्ञावाद: = Intelligent argument

४ भाषसे “भाष्” १ आ (= to speak) इति धातुः । तस्य वर्तमानकाले मध्यमपुरुषे एकवचनम् ।
५ पण्डिताः “पण्डित” (= learned person, magi) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।
६ गतासून् अगतासून्

  • ६-१ गतासून् “गतासु” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
  • ६-२ गता: असवः  यस्य सः गतासुः । बहुव्रीहिः ।
  • ६-३ गता: “गम्” १ प (= to go) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “गत” (= gone) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।
  • ६-४ असवः “”असु” (= life, breath) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनं च ।
  • ६-५ गतासु: = one whose life is gone, dead
  • ६-६ अगतासून् — न गतासु इति अगतासु । नञ्-तत्पुरुषः ।
  • ६-७ अगतासु = not dead, living

७ अनुशोचन्ति “अनु + शुच्” १ प (= to grieve) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।
८ जातु (= at all, ever, any time) इति अव्ययम् ।
९ आसम् आसीः आसन् अस्ति

  • ९-१ “अस्” २ प (= to be) इति धातुः । तस्य
    • अनद्यतन-(लङ्)-भूतकाले उत्तमपुरुषे एकवचनम् आसम् ।
    • अनद्यतन-(लङ्)-भूतकाले मध्यमपुरुषे एकवचनम् आसीः ।
    • अनद्यतन-(लङ्)-भूतकाले प्रथमपुरुषे बहुवचनम् आसन् ।
    • लट्-वर्तमानकाले प्रथमपुरुषे एकवचनम् अस्ति ।

१० इमे “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
११ जनाधिपाः “जनाधिप” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ११-१ जनानां अधिपः जनाधिपः । षष्ठी-तत्पुरुषः ।
  • ११-२ जनानाम् “जन” (= people) इति पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ११-३ अधिपः “अधिप” इति कृदन्तं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ११-३-१ अधिपाति अयं इति अधिपः । अधिपः = one who wields command, ruler
    • ११-३-२ अधिपाति “अधि + पा” २ प (= to guard, to take care of, to command, to rule, to command respect)
  • ११-४ जनाधिपः = ruler, elite in society

१२ भविष्यामः “भू” १ प (= to be, to become) इति धातुः । तस्य लुट्-भविष्ये उत्तमपुरुषे बहुवचनम् ।
१३ देहिन: “(देहः अस्य अस्ति इति) देहिन्” (= having a body) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
१४ अस्मिन् “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
१५ देहे “देह” (= body) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
१६ कौमारम् “कौमार” इति तद्धितं नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १६-१ कुमारस्य इदं इति कौमारम् । कौमारम् = adolescence
  • १६-२ कुमारस्य “कुमार” (= boy of adolescent age) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

१७ यौवनम् “यौवन” इति तद्धितं नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १७-१ युवतः इदं इति यौवनम् । यौवनम् = youth; what a young person has
  • १७-२ युवतः “युवन्” (= young) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

१८ जरा “जृ” १, ४, ९ प, १० उ (= to wear, to wither, to grow old, to age) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “जरा” (= old age) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१९ देहान्तरप्राप्ति: “देहान्तरप्राप्ति” इति सामासिकं स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १९-१ अन्यः देहः देहान्तरम् । कर्मधारयः ।
  • १९-२ देहान्तरस्य प्राप्तिः देहान्तरप्राप्ति: । षष्ठी-तत्पुरुषः ।
  • १९-३ देहः “देह” (= body) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १९-४ प्राप्तिः “प्र + आप्” (= to get, to obtain) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “प्राप्ति” (= obtainment) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२० धीरः “धृ” १ उ, ६ आ, १० उ (= to hold, to bear, to sustain, to have forbearance, to have fortitude) इति धातुः । तस्मात् विशेषणम् “धीर” (= bold, having fortitude, having forbearance) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२१ मुह्यति “मुह्” ४ प (= to lose consciousness, to become senseless, to become perplexed, to become confused) इति धातुः । तस्य लट्-वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

श्रीभगवान् उवाच, “त्वम् अशोच्यान् अन्वशोच: प्रज्ञावादान् भाषसे च । पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति । अहं जातु न आसम्, त्वम् न (आसीः) इमे जनाधिपाः न (आसन्), (एवम्) तु न (अस्ति) एव । वयम् सर्वे अतः परम् न भविष्यामः, (एवम्) च न (अस्ति) एव । यथा देहिन: अस्मिन् देहे कौमारं यौवनं जरा (भवन्ति) तथा देहान्तरप्राप्ति: (भवति) । धीरः तत्र न मुह्यति ।”
or
श्रीभगवान् उवाच, “त्वम् अशोच्यान् अन्वशोच: प्रज्ञावादान् भाषसे च । पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति । तु न (अस्ति) एव, (यत्) अहं जातु न आसम्, त्वम् न (आसीः) इमे जनाधिपाः न (आसन्) । न (अस्ति) एव च (यत्) वयम् सर्वे अतः परम् न भविष्यामः । यथा देहिन: अस्मिन् देहे कौमारं यौवनं जरा (भवन्ति) तथा देहान्तरप्राप्ति: (भवति) । धीरः तत्र न मुह्यति ।”

In English –
श्रीभगवान् said, “you, who is grieving over those who are not worthy of grieving about, are also making intelligent-(sounding) arguments. Knowledgeable and intelligent people do not grieve (either) over the dead and of course not over those who are not dead. It is not that I was never there, you were not there, (or) all these kings were not there. It is also not, that hereafter we all shall not (ever) be there. Just as for every living being, the body transits through adolescence, youth and old age, likewise, one acquires a new body. Hence a sensible person does not get confused.”

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

अशोच्यानन्वशोचस्त्वम् । वर्णाः ८

प्रज्ञावादांश्च भाषसे  । वर्णाः ८
गतासूनगतासूंश्च । वर्णाः ८
नानुशोचन्ति पण्डिताः । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

५-१ In स्वाध्यायः ४, I have composed अन्वय in two different ways –

  • First, as will suit the Sanskrit syntax – subclauses, then main clause – assuming (एवम्) as the संबन्धसूचकम्
  • Secondly to suit the English syntax – main clause (It is not, that) then sub-clauses – assuming (यत्) as the संबन्धसूचकम्
  • Actually the Sanskrit syntax – subclauses, then main clause – is itself not a very rigid rule. Beauty of Sanskrit is in the freedom from rigid rules of syntax. The Sanskrit syntax – subclauses, then main clause – is primarily a convention.

५-२ As can also be seen in the अन्वय, verbs such as आसीः आसन् अस्ति are implicit at many places. They are somewhat necessary to present the grammatical analysis. One can often do without them both when writing or speaking. I wonder whether there is any other language, where thoughts can be expressed without verbs ! ५-३ The word जनाधिपाः (= the elites) seems to encompass द्रोणाचार्य and भीष्मपितामह also, thereby addressing अर्जुन’s concern, whether it was appropriate for him to fight against them.

५-४ It is here with these verses that all the philosophical discussion in गीता begins ! The 47 verses of Chapter 1 and first 10 verses of this Chapter 2, lay the background, rather, prompt the philosophical discussion.

५-५ What seems propounded in these verses 11, 12 and 13 is the hypothesis of rebirth.

  • The statement, “It is not that we were not there or that we shall not be.” presumes the proposition of rebirth.
  • Death is but a passing phase between two births.
  • Just as in this life we transit through adolescence, youth and old age, there will be transition from one body to another.
  • What is there then to grieve about death ?

५-६ I understand that Christianity does not believe in life after death. But the concept of rebirth is endorsed by most other religions. The concept is possibly best endorsed by जातक-कथा stories of Buddha assuming different life-forms in different births. As may as 550 stories are available at http://jathakakatha.org/english/

५-७ Just two days back on 15th April 2011, I was listening to an interview of a couple on TV. They lost their daughter, who was about 5 years old, when she died. When she was about 2-3 years old, the couple had agreed and got gynecological operation done on the mother. But after 5-6 years after the child’s death, they started getting dreams. In the dream they would hear their lost daughter urging them to make way for her to be reborn. They consulted an astrologer and he gave his reading that horoscope of the dead girl indeed indicated rebirth soon. They then consulted the gynecologist. He confirmed that the operation could be reversed. Now, they have the girl born, who is already 5-6 years old in her second life. She is exact replica of what she was in her previous life. In the interview, the couple said it was no question, at least for themselves, whether rebirth is fact or fiction or a mere faith or superstition. Sanskrit word for faith is श्रद्धा. One comes across this word many times across गीता. More about it, later.

शुभमस्तु ।

-o-O-o-

Advertisements