Learning together Sanskrit and GeetA (Chapter 2 : Verses 14, 15)

Learning together Sanskrit and GeetA (Chapter 2 : Verses 14, 15)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोकौ ४, तथा १५) द्वित्रिंशत्तमः (३) सोपानः ।


मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः
आगमापायिनोऽनित्यास्तान्स्तितिक्षस्व भारत ।।२-१४।।
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ।।२-१५।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


मात्रास्पर्शा: तु कौन्तेय शीत-ऊष्णसुखदुःखदाः
आगम-अपायिन: अनित्या: तान् तितिक्षस्व भारत ।।२-१४।।
यं हि न व्यथयन्ति एते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं स: अमृतत्वाय कल्पते ।।२-१५।।

अत्र सन्धयः

  1. मात्रास्पर्शास्तु = मात्रास्पर्शा: तु (विसर्गसन्धिः) (व्यञ्जनसन्धिः)
  2. शीतोष्णसुखदुःखदाः = शीत-ऊष्णसुखदुःखदाः (स्वरसन्धिः)
  3. आगमापायिनोऽनित्यास्तान्स्तितिक्षस्व = आगम-अपायिन: अनित्या: तान् तितिक्षस्व
    • आगम-अपायिन: = आगमापायिन: (स्वरसन्धिः)
    • आगमापायिन: अनित्या: = आगमापायिनोऽनित्या: (विसर्गसन्धिः)
    • आगमापायिनोऽनित्या: तान् = आगमापायिनोऽनित्यास्तान् (विसर्गसन्धिः)
    • आगमापायिनोऽनित्यास्तान् तितिक्षस्व = आगमापायिनोऽनित्यास्तान्स्तितिक्षस्व (व्यञ्जनसन्धिः)
  4. व्यथयन्त्येते = व्यथयन्ति एते (स्वरसन्धिः)
  5. सोऽमृतत्वाय  = स: अमृतत्वाय (विसर्गसन्धिः)
Exercise 2 Paraphrase the clauses

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु

कौन्तेय, मात्रास्पर्शा: तु शीतोष्णसुखदुःखदाः आगमापायिन: अनित्या: (भवन्ति) । भारत, (त्वम्) तान् तितिक्षस्व । पुरुषर्षभ, हि यं समदुःखसुखं धीरं पुरुषं एते न व्यथयन्ति, स: अमृतत्वाय कल्पते ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा अव्ययम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् इतरे शब्दाः
कौन्तेय मात्रास्पर्शा: शीतोष्णसुखदुःखदाः आगमापायिन: अनित्या: (भवन्ति) तु
भारत (त्वम्) तान् तितिक्षस्व
पुरुषर्षभ यम् एते समदुःखसुखं धीरं पुरुषं न व्यथयन्ति हि
स: कल्पते अमृतत्वाय

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time. Also, especially in the verses here the words गतासून् अगतासून् as also आसम् आसीः आसन् अस्ति can be grouped together.

कौन्तेय, मात्रास्पर्शा: तु शीतोष्णसुखदुःखदाः आगमापायिन: अनित्या: (भवन्ति) । भारत, (त्वम्) तान् तितिक्षस्वपुरुषर्षभ, हि एते यं समदुःखसुखं धीरं पुरुषंव्यथयन्ति, स: अमृतत्वाय कल्पते

१  कौन्तेय (= son of कुन्ती) इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनं च ।

  • as detailed earlier in Post # 19
  • ३-२५-१ कुन्त्याः अयम् इति कौन्तेयः ।
  • ३-२५-२ कुन्त्याः “कुन्ती” (= name of princess of the kingdom known as कुन्ति) इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

२ मात्रास्पर्शा: “मात्रास्पर्श” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि “मात्रास्पर्श” । तस्य प्रथमा विभक्तिः बहुवचनं च ।

  • २-१ मात्रायाः स्पर्शः यस्य सः इति मात्रास्पर्शः । बहुव्रीहिः ।
  • २-२ मात्रायाः “मात्रा” (= material thing) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २-३ स्पर्शः “स्पृश्” ६ प (= to touch, to afflict) इति धातुः । तस्मात् पुल्लिङ्गि नाम “स्पर्श” (= touch, affliction) । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • २-४ मात्रास्पर्शाः = afflictions of materialistic matters and thoughts

३ शीतोष्णसुखदुःखदाः “शीतोष्णसुखदुःखद” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।

  • ३-१ शीतं ऊष्णं सुखं दुःखं च एतेषां समाहारः शीतोष्णसुखदुःखम् । समाहार-द्वन्द्वः ।
  • ३-२ शीतोष्णसुखदुःखम् ददाति इति शीतोष्णसुखदुःखद: । उपपद-तत्पुरुषः ।
  • ३-३ शीतम् “शीत” (= cold) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३-४ ऊष्णम् “ऊष्ण” (= heat) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३-५ सुखम्  “सुख” (= happiness) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३-६ दुःखम् “दुःख” (= sorrow) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३-७ (द = ददाति) “दा” ३ उ (= to give) इति धातुः । अत्र परस्मैपदी । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
  • ३-८ शीतोष्णसुखदुःखद: = what gives or what causes sensations of cold and heat and of happiness and sorrow

४ आगमापायिन: “आगमापायिन्” इति सामासिकं तद्धितं च विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।

  • ४-१ आगम: च अपाय: च आगमापायः । समाहार-द्वन्द्वः ।
  • ४-२ आगमापायः अस्य अस्ति इति आगमापायी ।
  • ४-३ आगमः “आ + गम्” १ प (= to come) इति धातुः । तस्मात् पुल्लिङ्गि नाम “आगम” (= coming) । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ४-४ अपायः “अप + इ” १ उ, २ प (= to go away, to take away, to harm) इति धातुः । तस्मात् पुल्लिङ्गि नाम “अपाय” (= going away, harm) । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ४-५ आगमापायिन: = having nature of coming and going

५ अनित्या: “अनित्य” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।

  • ५-१ न नित्यः अनित्यः । नञ्-तत्पुरुषः ।
  • ५-२ अनित्या: = not permanent, temporary, inconsistent, unsteady, not long-lasting

६ भारत (= born in the lineage of भरत) इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।
७ तितिक्षस्व “तिज्” १ आ प्रायः इच्छार्थकः (= to bear, to endure) धातुः । तस्य लोट्-आज्ञार्थे मध्यमपुरुषे एकवचनम् ।
८ पुरुषर्षभ इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ८-१ पुरुषेषु ऋषभः इव पुरुषर्षभ: । सप्तमी-तत्पुरुषः ।
  • ८-२ पुरुषेषु “पुरुष” (= man, person) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
  • ८-३ ऋषभः “ऋषभ” (= bull, having excellence) इति विशेषणम् पुल्लिङ्गि नाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ८-४ पुरुषर्षभ: = person having respectful strength, excellent among people

९ समदुःखसुखम् “समदुःखसुख” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ९-१ दुःखं च सुखं च दुःखसुखे । इतरेतर-द्वंद्वः ।
  • ९-२ समे दुःखसुखे यस्मै सः समदुःखसुख: । बहुव्रीहिः ।
  • ९-३ समदुःखसुख: = one who keeps equanimity between happiness and sorrow

१० धीरम्  “धीर” (= bold, having fortitude, having forbearance) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • १०-१ धृतिः अस्य अस्ति इति धीरः ।
  • १०-२ धृति: “धृ” १ उ, ६ आ, १० उ (= to hold, to bear, to sustain, to have forbearance, to have fortitude) इति धातुः । तस्मात् स्त्रीलिङ्गी नाम “धृति” (= boldness, forbearance, fortitude) ।
  • १०-३ धीर = bold, having forbearance, fortitude

११ एते “एतत्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
१२ व्यथयन्ति “व्यथ्” १ आ  (= to get pain) इति धातुः । तस्य प्रयोजकस्य (= to give pain) वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।
१३ अमृतत्वाय “अमृतत्व” इति तद्धितं नपुंसकलिङ्गि नाम । तस्य चतुर्थी विभक्तिः एकवचनम् च ।

  • १३-१ न मृतत्वं अमृतत्वम् । नञ्-तत्पुरुषः ।
  • १३-२ मृतत्वम् “मृ” ६ आ (= to die) । इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “मृत” (= dead) । तस्माच्च त्व-प्रत्ययेन तद्धितं नपुंसकलिङ्गि नाम “मृतत्व” (= the characteristics of dying) ।
  • १३-३ अमृतस्य गुणः अमृतत्वम् ।
  • १३-४ अमृतस्य “अमृत” (= nectar) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १३-५ गुणः “गुण” (= quality) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १३-६ अमृतत्वम् = immortality, interest in undying, eternal things

१४ कल्पते “कल्प्” ?? (= to imagine, to fashion, to be eligible for, to merit) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

कौन्तेय, मात्रास्पर्शा: तु शीतोष्णसुखदुःखदाः आगमापायिन: अनित्या: (भवन्ति) । भारत, (त्वम्) तान् तितिक्षस्व । पुरुषर्षभ, हि एते यं समदुःखसुखं धीरं पुरुषं न व्यथयन्ति, स: अमृतत्वाय कल्पते ।

In English –
Kaunteya (Oh son of Kunti), afflictions of materialistic matters and thoughts would cause sensations of cold and heat and of happiness and sorrow, they would come and go, they are temporary, fleecing, not permanent, inconsistent, unsteady, not long-lasting. Endure them. Take them in your stride. Don’t pay heed to them. Don’t bother too much about them.
Oh you excellent among men ! These (afflictions of materialistic matters and thoughts) do not disturb a bold person who has forbearance and fortitude (because he has) equanimity between happiness and sorrow.
Such person fashions immortality, and fashions interest in undying, eternal matters and thoughts.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

मात्रास्पर्शास्तु कौन्तेय । वर्णाः ८

शीतोष्णसुखदुःखदाः । वर्णाः ८
आगमापायिनोऽनित्यास् । वर्णाः ८
तान्स्तितिक्षस्व भारत । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

५-१ We continue to have newer addresses for अर्जुन. Three addresses here – कौन्तेय, भारत and पुरुषर्षभ. They are all so fondly, lovingly coined. Certainly अर्जुन was a darling friend and disciple of श्रीकृष्ण.

५-२ Having propounded in previous shloka-s the concept of rebirth, mention of matters and thoughts that are not permanent, it is possibly suggested that even death is not a permanent fact. What is not permanent, what is fleecing is no worth grieving over !

५-३ A very short, but sweet English poem has stuck in my memory –

No matter how often I level this weed
It springs again, after rain, as if there is need
To remind those who severe life’s delicate string
That destruction is never a permanent thing !
— by anonymous (?!) or
— from “Chicken soup for the soul” ?

५-४ तितिक्षस्व and धीरं पुरुषं न व्यथयन्ति are interesting phrases. One would think that saints, pious souls and gentle souls as they are, who would not think of any ill for anybody, would be so dear to God, that He would take enough good care of them, that no hardships would come their way. Biographies of saints however are never so placid. The biographies often have mention of hardships suffered by the saints.

Here also श्रीकृष्ण is not offering to अर्जुन any assurance of warding off hardships. Instead he is advising that मात्रास्पर्शाः will always happen, will always confront you. Blood will flow. Gruesome killings will happen. Lives will be lost. Afterall it is war. Endure them. Be bold, have fortitude. Know well that nothing of these is permanent, not even deaths !

व्यथा is but a reflection in the mind. If the mind is steadfast धीर, that becomes the antidote for व्यथा.

Is not श्रीकृष्ण a psychiatrist also ?

५-५ अमृतत्वाय कल्पते is another challenging phrase here. I have translated it as “fashioning immortality, and fashioning interest in undying, eternal matters and thoughts”.  My focus is on the active voice of the verb कल्पते. Other interpretaion is “.. person who is धीर, becomes eligible for deliverance, emancipation, salvation, freedom from the cycle of rebirth, मोक्ष. To my mind, fashioning interest in undying, eternal matters and thoughts is more appropriate than working to an objective of attaining मोक्ष. In fact title of last, the eighteenth chapter of गीता is मोक्षसंन्यासयोग. Literal translation of that suggests leaving out, forsaking संन्यास of the objective of मोक्ष. So, if मोक्ष cannot and should not be the objective, the focus should rather be on how one should fashion one’s thought-processes.

शुभमस्तु ।

-o-O-o-

Advertisements