Learning together Sanskrit and GeetA (Chapter 2 : Verses 16) – Post # 33

Learning together Sanskrit and GeetA (Chapter 2 : Verses 16) – Post # 33
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: ) त्रित्रिंशत्तमः (३) सोपानः ।


नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: ।।२-१६।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


न असत: विद्यते भाव: न अभाव: विद्यते सतः ।
उभयो: अपि दृष्ट: अन्त: तु अनयो: तत्त्वदर्शिभि: ।।२-१६।।

अत्र सन्धयः

  1. नासतो विद्यते = न असत: विद्यते (स्वरसन्धिः) (विसर्गसन्धिः) (व्यञ्जनसन्धिः)
  2. भावो नाभावो विद्यते = भाव: न अभाव: विद्यते (विसर्गसन्धिः) (स्वरसन्धिः) (विसर्गसन्धिः)
  3. उभयोरपि = उभयो: अपि (विसर्गसन्धिः)
  4. दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि:
    • दृष्टोऽन्त: = दृष्ट: अन्त: (विसर्गसन्धिः)
    • दृष्टोऽन्त: तु = दृष्टोऽन्तस्तु (विसर्गसन्धिः)
    • दृष्टोऽन्तस्तु अनयो: = दृष्टोऽन्तस्त्वनयो: (स्वरसन्धिः)
    • दृष्टोऽन्तस्त्वनयो: तत्त्वदर्शिभि: = दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: (विसर्गसन्धिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः
असत: भाव: न विद्यते । सतः अभाव: न विद्यते । अनयो: उभयो: अपि अन्त: तु तत्त्वदर्शिभि: दृष्ट: ।
Since all the three sentences are in passive voice, it becomes interesting to put them in active voice.
कर्तरि-प्रयोगेन –
(जनः) असतः भावं न वेत्ति । (जनः) सतः अभावं न वेत्ति । तत्त्वदर्शिनः तु अनयो: उभयो: अपि अन्तम् अपश्यन् ।वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा अव्ययम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् इतरे शब्दाः
भाव: न विद्यते असत:
अभाव: न विद्यते सत:
तु अन्त: दृष्ट: अनयो: उभयो: अपि तत्त्वदर्शिभि:

कर्तरि-प्रयोगे वाक्यांशानां विश्लेषणानि  Analysis of clauses in active voice –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा अव्ययम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् इतरे शब्दाः
(जनः) भावम् न वेत्ति असतः
(जनः) अभावम् न वेत्ति सतः
तु तत्त्वदर्शिनः अन्तम् अपश्यन् अनयो: उभयो: अपि

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.
असत: भाव:विद्यते । सतः अभाव: न विद्यते । अनयो: उभयो: अपि अन्त: तु तत्त्वदर्शिभि: दृष्ट:
From transformations to active voice –
(जनः) असतः भावं न वेत्ति । (जनः) सतः अभावं न वेत्ति । तत्त्वदर्शिनः तु अनयो: उभयो: अपि अन्तम् अपश्यन्

१  असत: “असत्” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि अथवा नपुंसकलिङ्गि  । तस्य षष्ठी विभक्तिः एकवचनम् च ।

  • १-१ न सत् इति असत् । नञ्-तत्पुरुषः ।
  • १-२ सत् “अस्” २ प (= to be, to exist) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “सत्” (= being, existing) ।

२ अभाव: “अभाव” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • २-१ न भाव: इति अभावः । नञ्-तत्पुरुषः ।
  • २-२ भावः “भू” १ प (= to be, to become, to realize, to manifest) इति धातुः । तस्मात् पुल्लिङ्गि नाम “भाव” (= manifestation, realization)
  • २-३ अभावः = absence, lack of availability
  • २-४ कर्तरि-प्रयोगे “भावम्” वा “अभावम्” इति द्वितीया विभक्तिः एकवचनम् च ।

३ विद्यते “विद्” २ प (= to learn, to know) इति धातुः । अत्र कर्मणि-प्रयोगे अतः आत्मनेपदी । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

  • ३-१ कर्तरि-प्रयोगे “वेत्ति” इति वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

४ अनयो: “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः द्विवचनं च ।
५ उभयो: “उभ” (= both) इति सार्वनामिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः द्विवचनं च ।
६ अन्त: “अन्त” (= end, limit) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ६-१ कर्तरि-प्रयोगे “अन्तम्” इति द्वितीया विभक्तिः एकवचनम् च ।

७ तत्त्वदर्शिभि: “तत्त्वदर्शिन्” इति सामासिकं तद्धितं च विशेषणम् । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः बहुवचनम् च ।

  • ७-१ कर्तरि-प्रयोगे “तत्त्वदर्शिनः” इति प्रथमा विभक्तिः बहुवचनम् च ।
  • ७-२ दर्शयति इति दर्शी  ।
  • ७-३ तत्त्वस्य दर्शी तत्त्वदर्शी । षष्ठी-तत्पुरुषः ।
  • ७-४ तत्त्वस्य “तत्” (= that) इति सर्वनाम । तस्मात् (तद्धितं) त्व(= quality)-प्रत्ययेन भाववाचकं नाम “तत्त्व” (= essence, fundamental principle, quality of being “That”) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ७-५ दर्शी “दृश्” १ प (= to see) इति धातुः । तस्मात् “इन्”-प्रत्ययेन विशेषणम् “दर्शिन्” (= seer) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ७-६ तत्त्वदर्शिनः = those, who are seers of the essence, of the fundamental principles; philosophers

८ दृष्ट: “दृश्” १ प (= to see) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “दृष्ट” (= seen) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ८-१ कर्तरि-प्रयोगे “अपश्यन्” इति अनद्यतन-(लङ्)-भूतकाले प्रथमपुरुषे बहुवचनम् ।

९ जनः “जन्” ४ आ (= to be born) इति धातुः । तस्मात् पुल्लिङ्गि नाम “जन” (= person, people, common person) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

असत: भाव: न विद्यते । सतः अभाव: न विद्यते । अनयो: उभयो: अपि अन्त: तु तत्त्वदर्शिभि: दृष्ट: ।
कर्तरि-प्रयोगे –
(जनः) असतः भावं न वेत्ति । (जनः) सतः अभावं न वेत्ति । तत्त्वदर्शिनः तु अनयो: उभयो: अपि अन्तम् अपश्यन् ।

In English –
Realization of what does not exist is not learnt. Absence of what exists is not learnt. However limit of both is seen by seers of fundamental principles.
In active voice –
Common person does not learn realization of what does not exist. Common person does not learn absence of what exists. However, seers of fundamental principles saw the limit of both.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

नासतो विद्यते भावो । वर्णाः ८

नाभावो विद्यते सतः । वर्णाः ८
उभयोरपि दृष्टोऽन्तस् । वर्णाः ८
त्वनयोस्तत्त्वदर्शिभि: । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

५-१ I thought it good to take only one verse this time. In the अन्वय we notice only three simple sentences. But every sentence is so much replete with meaning.

५-२ Due to my limited understanding of philosophy, I thought it good to explore the meaning both by the passive voice of the original statements and also by studying them in the active voice. I thought, this way, I can understand it better.

५-३ I wonder whether by mentioning what the seers see, श्रीकृष्ण is provoking अर्जुन to rise above being a common person. This seems to be akin to the diktat in कठोपनिषत् –

उत्तिष्ठत, जाग्रत, प्राप्यवरान्निबोधत ।
Awaken ! Arise ! Get to know (and realize) what all is benevolent !!

  • The implied reference to common person reveals only in active voice !

५-४ The words असत: सतः भाव: अभाव: are not mere antonyms of each other.

  • The word असत् meaning ‘what does not exist’, encompasses what is past and gone and also what the future holds.
  • Whereas the words असत् and सत् are derived from the root verb “अस्” and भाव: and अभाव: are derived from the root verb भू meanings of both the root verbs are almost identical. But the derived words असत्, सत् भाव: and अभाव: have to be interpreted differently. The words भाव: and अभाव: have inherent in them an aspect of sensibility, whereas असत् and सत् may appeal to be more existential.
  • Even when saying so, one shade of meaning of the word अभाव: is ‘scarcity’. This meaning is existential. But it has to be discarded for the meaning to be appropriate in the context of the other word भाव:
  • The word सत् has 3 different shades –
    • सत् = what exists
    • सत् = truth
    • सत्  = good, noble; especially when used as a prefix, e.g. सज्जन
  • The range of meanings of the phrases असत: भाव: न विद्यते । सतः अभाव: न विद्यते । as will derive by permutations of shades of meanings of the four words असत्, सत् भाव: and अभाव: may turn out to be a mind-boggling exercise !
    • Certainly so for common persons, implicit in active voice
  • There is no mind-bogging for those who know, the seers तत्त्वदर्शिनः

५-५ I am bit confused over the derivation and meaning of तत्त्वदर्शिनः

  • Would not तत्त्वदर्शिनः also mean seers, who do not just ‘see’ for themselves or by themselves, but can also show or demonstrate or guide others ?
  • The word comes again in 04-34. We shall have an opportunity to explore it again.
  • In the meantime I seek be obliged by तत्त्वदर्शिभि:

५-६ The word अन्त is also interesting.

  • The literal meaning as given above is अन्त = end, limit
  • But in a compound as अन्तरङ्गः its meaning does not limit itself to the external boundaries or limits. It delves deep inside.
  • When the seers तत्त्वदर्शिनः see अनयोः उभयोः अन्तम् they would be seeing all things inside out, back and forth, past, present and future, and even beyond !
  • What all is seen दृष्ट by them, only they know !
  • But to the extent possible, everyone should strive to get some of that दर्शित्त्व, right ?

५-७ The word तत्त्व is interesting. Its etymology is तत् + त्व. It is important to ensure in writing the word that त् is doubled. Hence it has to be written as तत्त्व. By its etymology तत् + त्व, its meaning becomes “quality of being ‘that’ “. We may point to anything as ‘that’. And whatever we point to, has a quality of ‘that’ being ‘that’. So everything has a fundamental principle inherent to itself. To know everything by understanding the fundamental principle underlying and inherent to it, is really understanding it properly and thoroughly.

शुभमस्तु ।

-o-O-o-

Advertisements