Learning together Sanskrit and GeetA (Chapter 2 : Verse 19)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 19)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: १९) षट्-त्रिंशत्तमः (३६) सोपानः ।


य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ।।२-१९।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


य: एनं वेत्ति हन्तारं य: च एनं मन्यते हतम् ।
उभौ तौ न विजानीतः न अयं हन्ति न हन्यते ।।२-१९।।

अत्र सन्धयः

  1. य एनम् = य: एनम् (विसर्गसन्धिः)
  2. यश्चैनम् = य: च एनम्
    • य: च = यश्च (विसर्ग-संधिः)
    • यश्च एनम् = यश्चैनम् (स्वर-संधिः)
  3. विजानीतो नायम् = विजानीतः न अयम्
    • विजानीतः न = विजानीतो न (विसर्ग-संधिः)
    • विजानीतो न अयम् = विजानीतो नायम् (स्वर-संधिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः
य: एनं हन्तारं (इति) वेत्ति
य: च एनं हतम् मन्यते
तौ उभौ न विजानीतः (यत्) अयं न हन्ति न हन्यतेवाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा अव्ययम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् इतरे शब्दाः वाक्यांशस्य प्रकारः
य: एनं वेत्ति हन्तारं (इति) गौणः
य: एनं मन्यते हतम् गौणः
तौ उभौ न विजानीतः प्रधानः
(यत्) अयं न हन्ति न हन्यते गौणः

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.
य: एनं हन्तारं (इति) वेत्ति
य: च एनं हतम् मन्यते
तौ उभौ न विजानीतः (यत्) अयं न हन्तिहन्यते

१  हन्तारं “हन्” २ प (= to hunt, to hit, to hurt, to kill) इति धातुः । तस्मात् “तृ”-प्रत्ययेन कर्तृवाचकं विशेषणम् “हन्तृ” (= hunter, killer) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

२ वेत्ति “विद्” २ प (= to know, to understand) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

३ हतम् “हन्” २ प (= to hunt, to hit, to hurt, to kill) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “हत” (= killed) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
४ मन्यते “मन्” ४ आ (= to think, to consider, to regard) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
५ विजानीतः “वि + ज्ञा” ९ उ (= to know specifically) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे द्विवचनम् ।
६ हन्ति “हन्” २ प (= to hunt, to hit, to hurt, to kill) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
७ हन्यते “हन्” २ प (= to hunt, to hit, to hurt, to kill) इति धातुः । तस्य कर्मणि-प्रयोगे वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

य: एनं हन्तारं (इति) वेत्ति = He, who understands him (it) as the killer
य: च एनं हतम् मन्यते = and he who regards that he (it) can be killed
तौ उभौ न विजानीतः = both of them do not understand
(यत्) अयं न हन्ति न हन्यते = that it does not kill nor can it be killed

Overall meaning may be stated as –
He who considers this One the killer and he who considers this One is killed, both of them do not know. This One does not kill nor is It killed

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

य एनं वेत्ति हन्तारं । वर्णाः ८

यश्चैनं मन्यते हतम् । वर्णाः ८
उभौ तौ न विजानीतो । वर्णाः ८
नायं हन्ति न हन्यते । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

५-१ What seemed to be explanation of तत् (inherent, fundamental principle, ‘It’, neuter gender) in previous verse seems to have been referred to as अयम् (masculine gender, आत्मा soul) in the verses here.

५-२ The characteristics of indestructibility अयम् न हन्यते compares well with the mention of अविनाशि तु तत् in (२-१७) and अनाशिनोऽप्रमेयस्य in (२-१८)

५-३ What is added here is नायं हन्ति This One does not kill. श्रीरामानुजाचार्य says “हन्ति धातुः अपि आत्मकर्मकः शरीरवियोगकरणवाची” Idea seems to be “It embodies itself in a body and separates from that body शरीरवियोगकरण”. Separating Oneself from a body should not necessarily mean killing the body !

  • At one time I happened to be reading of the difference in practices of certifying death. Traditional practice seems to be to certify death, if the pulse is zero. In America they possibly consider brain-dead as dead.That set me thinking of what happens at the point of death. It comes to mind that sum total of matter and energies just before death and after death remains constant. Then what is it that is lost in death ? A simile came to mind. If one is holding a bunch of threads in a pinch, and the pinch is released, the threads will simply fritter away. There is no material or energy-change either in the fingers or the threads. What is lost is the totalitarian control, which was holding the threads together. Is death then the loss of totalitarian control of matters and energies शरीरवियोगकरण ? Can we say that, that totalitarian control is the Soul, He आत्मा or तत् the fundamental principle ?
  • Uhm ! Certainly this verse is thought-provoking !

५-४ श्रीरामानुजाचार्य mentions the verb हन्ति being आत्मकर्मकः directing to oneself, making oneself as the object (to be killed) ! But the verb here is न हन्ति negating any action on one’s own ! That leads to a different thought-process. It raises an inquiry whether It or He the soul indulges in any act by any self-motivation ever ! न हन्ति clearly suggests that the Soul, He आत्मा or तत् ‘It’ the fundamental principle at least has no negative motivations. May be, it has no motivations whatever, neither positive nor negative !

शुभमस्तु ।

-o-O-o-

Advertisements