संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: २२) नवत्रिंशत्तमः (३९) सोपानः ।
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ।।२-२२।।
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
नवानि गृह्णाति नर: अपराणि ।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही ।।२-२२।।
- नरोऽपराणि = नर: अपराणि (विसर्ग-संधिः)
- जीर्णान्यन्यानि = जीर्णानि अन्यानि (स्वर-संधिः)
अन्वयाः –
यथा जीर्णानि वासांसि विहाय
नर: अपराणि नवानि (वासांसि) गृह्णाति,
तथा जीर्णानि शरीराणि विहाय
देही अन्यानि नवानि (शरीराणि) संयाति ।वाक्यांशानां विश्लेषणानि Analysis of clauses –
वाक्यांश- क्रमाङ्कः |
उद्गारवाचकम्, संबोधनम् वा अव्ययम् | संबन्धसूचकम् | कर्तृपदम् | कर्मपदम् अथवा पूरकपदम् | क्रियापदम् अथवा धातुसाधितम् | इतरे शब्दाः | वाक्यांशस्य प्रकारः |
१ | जीर्णानि वासांसि | विहाय | गौणः | ||||
२ | यथा | नर: | अपराणि नवानि (वासांसि) | गृह्णाति | गौणः | ||
३ | तथा | जीर्णानि शरीराणि | विहाय | गौणः | |||
४ | देही | अन्यानि नवानि (शरीराणि) | संयाति | प्रधान: |
स्वाध्यायः ३
- अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
- आ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।
Exercise 3
- 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
- 3 B) Give translations into English for all clauses and sentences
From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.
यथा जीर्णानि वासांसि विहाय
नर: अपराणि नवानि (वासांसि) गृह्णाति,
तथा जीर्णानि शरीराणि विहाय
देही अन्यानि नवानि (शरीराणि) संयाति ।
१ जीर्णानि “जृ” १ प (= To make low, to wither, to wear out) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “जीर्ण” (= withered, worn out) । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
२ वासांसि “वासस्” (= cloth, garment) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३ विहाय “वि + धा” ३ उ (= to put away) इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् “विहाय” (= by putting away) ।
४ नर: “नर” (= man) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
५ अपराणि “अपर” (= another, different) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
६ नवानि “नव” (= new) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
७ गृह्णाति “गृह्” अथवा “ग्रह्” ९ उ (= to bring, to take, to wear) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
८ शरीराणि “शरीर” (= body) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
९ देही “देहिन्” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ९-१ देह + इन् = देहिन् । देहः अस्य अस्ति इति देहिन् = having body
- ९-२ देहः “देह” (= body) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ९-३ इन् (= having) अस्य अस्ति ।
१० संयाति “सम् + या” २ प (= to enter, to occupy) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –
यथा जीर्णानि वासांसि विहाय = Just as by putting away worn clothes
नर: अपराणि नवानि (वासांसि) गृह्णाति = man takes different new clothes
तथा जीर्णानि शरीराणि विहाय = likewise by leaving worn out bodies
देही अन्यानि नवानि (शरीराणि) संयाति = one having a body occupies other new bodies
Overall meaning – As a man casts off worn-out clothes and puts on new clothes, so the embodied entity casts off worn-out bodies and enters into new bodies.
Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we set the verse in four quarters –
(२-२-१) (२-२-१) (१-२ १)-२-(१) इति मात्राः ।
त त ज ग ग इति गणाः (इन्द्रवज्रा-वृत्तम्)
(१-२-१) (२-२-१) (१-२-१)-२-(१) इति मात्राः ।
ज त ज ग ग इति गणाः (उपेन्द्रवज्रा-वृत्तम्)
(१-२ १)-(२-२-१) (१-२-१) २-२ इति मात्राः ।
ज त ज ग ग इति गणाः (उपेन्द्रवज्रा-वृत्तम्)
(२-२-१) (२-२-१) (१-२-१) २-२ इति मात्राः ।
त त ज ग ग इति गणाः (इन्द्रवज्रा-वृत्तम्)
Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।
५-१ This श्लोक is one instance, where a simile is used to explain philosophical thought. There are many such instances in गीता. It comes to mind that to compile a list of such similes can itself become an interesting compilation.
५-२ The word जीर्णानि used as adjective for वासांसि and also for शरीराणि prompts some thinking. Bodies शरीराणि become non-inhabitable, not just because of being worn out, by age or by physiological maladies. They become non-inhabitable, also when body gets injured or killed. So, it comes to mind that the soul would transit into another body, not just when the body is worn out, but when the body becomes non-inhabitable, due to whatever reasons.
शुभमस्तु ।
-o-O-o-