Learning together Sanskrit and GeetA (Chapter 2 Verses 2, 3) – Post # 27

Learning together Sanskrit and GeetA (Chapter 2 Verses 2, 3) – Post # 27
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः
अध्ययनस्य (अध्याय २ श्लोकौ २, ३) सप्तविंशतितमः (२७) सोपानः ।

श्रीभगवानुवाच –
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ।।२-२।।

क्लैब्यम् मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ।।२-३।।

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


श्रीभगवान् उवाच –
कुत: त्वा कश्मलम् इदं विषमे सम्-उपस्थितम् ।
अन्-आर्यजुष्टम् अ-स्वर्ग्यम् अ-कीर्तिकरम् अर्जुन ।।२-२।।
क्लैब्यम् मा स्म गमः पार्थ न एतत् त्वयि उपपद्यते ।
क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वा उत्तिष्ठ परंतप ।।२-३।।

अत्र सन्धयः

  1. श्रीभगवानुवाच = श्रीभगवान् उवाच (व्यञ्जनसन्धिः)
  2. कुतस्त्वा  = कुत: त्वा (विसर्गसन्धिः)
  3. कश्मलमिदम् = कश्मलम् इदम् (व्यञ्जनसन्धिः)
  4. अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन =
    • अन्-आर्यजुष्टम् (व्यञ्जनसन्धिः)
    • अन्-आर्यजुष्टम् अ-स्वर्ग्यम् (व्यञ्जनसन्धिः)
    • अ-स्वर्ग्यम् अ-कीर्तिकरम् (व्यञ्जनसन्धिः)
    • अ-कीर्तिकरम् अर्जुन (व्यञ्जनसन्धिः)
  5. नैतत्त्वय्युपपद्यते = न एतत् त्वयि उपपद्यते
    • न एतत् = नैतत् (स्वरसन्धिः)
    • नैतत् त्वयि = नैतत्त्वयि (व्यञ्जनसन्धिः)
    • नैतत्त्वयि उपपद्यते = नैतत्त्वय्युपपद्यते (स्वरसन्धिः)
  6. त्यक्त्वोत्तिष्ठ = त्यक्त्वा उत्तिष्ठ (स्वरसन्धिः)
Exercise 2 (a) Paraphrase the clauses

2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.

स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु

* के अत्र वाक्यांशाः ?
* कानि संबन्ध-सूचकानि ?
* कानि क्रियापदानि वा धातुसाधितानि ?
* कानि अत्र कर्तृपदानि ?
* कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

  • २-१-१ श्रीभगवान् उवाच ।
  • २-१-२ अर्जुन, इदं अनार्यजुष्टम् अस्वर्ग्यं अकीर्तिकरं कश्मलम् विषमे त्वा कुत: सम्-उपस्थितम् ।
  • २-१-३ पार्थ क्लैब्यम् गमः मा स्म ।
  • २-१-४ एतत् त्वयि न उपपद्यते ।
  • २-१-५ परंतप, हृदय-दौर्बल्यं क्षुद्रं (भवति)
  • २-१-६ (तत्) त्यक्त्वा
  • २-१-७ (त्वम्) उत्तिष्ठ

२-२ वाक्यांशानां विश्लेषणानि

२-२-१ “श्रीभगवान् उवाच”  इति प्रधान-वाक्यांशः ।

  • २-२-१-१ द्विकर्मकं क्रियापदम् “उवाच” ।
  • २-२-१-२ कर्तृपदं “श्रीभगवान्” ।
  • २-२-१-३ कर्मपदं “इतरे सर्वे वाक्यांशाः” ।

२-२-२ “अर्जुन, इदं अनार्यजुष्टम् अस्वर्ग्यं अकीर्तिकरं कश्मलम् विषमे त्वा कुत: समुपस्थितम्” इति प्रधान*-वाक्यांशः ।

  • २-२-२-१ भूतकालवाचकं विशेषणात्मकं च धातुसाधितं “समुपस्थितम्” ।
  • २-२-२-२ धातुसाधितस्य विशेष्यपदं “कश्मलम्” ।
  • २-२-२-३ धातुसाधितस्य कर्मपदसमानं वा क्रियाविशेषणात्मकं “त्वा” ।
  • २-२-२-४ संबोधनपदं “अर्जुन” ।

२-२-३ “पार्थ, क्लैब्यम् गमः मा स्म” इति प्रधान*-वाक्यांशः ।

  • २-२-३-१ नकारात्मकं क्रियापदं “मा स्म” ।
  • २-२-३-२ क्रियावाचकं कर्तृपदं “गमः” ।
    • २-२-३-२-१ क्रियावाचकस्य कर्मपदं “क्लैब्यम्” ।
  • २-२-३-३ संबोधनपदं “पार्थ” ।

२-२-४ “एतत् त्वयि न उपपद्यते” इति प्रधान*-वाक्यांशः ।

  • २-२-४-१ कर्मणि-प्रयोगान्वितं नकारात्मकं क्रियापदं “न उपपद्यते” ।
  • २-२-४-२ कर्तृपदं “त्वयि” ।

२-२-५ “परंतप हृदयदौर्बल्यं क्षुद्रं (भवति)” इति प्रधान*-वाक्यांशः ।

  • २-२-५-१ अध्याहृतं अकर्मकं क्रियापदं “(भवति)” ।
  • २-२-५-२ कर्तृपदं “हृदयदौर्बल्यं” ।
  • २-२-५-३ पूरकपदं “क्षुद्रम्” ।
  • २-२-५-४ संबोधनपदं “परंतप” ।

२-२-६ “(तत्) त्यक्त्वा” इति क्रियाविशेषणात्मकः गौण-वाक्यांशः ।

  • २-२-६-१ भूतकालवाचकं त्वान्तं धातुसाधितं “त्यक्त्वा” ।
  • २-२-६-२ धातुसाधितस्य अध्याहृतं कर्मपदं “(तत्)” ।

२-२-७ (त्वम्) उत्तिष्ठ

  • २-२-७-१ क्रियापदं “उत्तिष्ठ” ।
  • २-२-७-२ अध्याहृतं स्वाभाविकं कर्तृपदं “(त्वम्)” ।

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

“श्रीभगवान् उवाच” एतस्मिन् वाक्यांशे –

३-१ श्रीभगवान् “श्रीभगवत्” इति सामासिकं विशेषणम् । प्रायः पुल्लिङ्गि  नाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१-१ श्रीयुतः भगवान् । मध्यमपदलोपी समासः । अथवा
  • ३-१-२  वत् = अस्य अस्ति । श्रीः च भगः च अस्य  = श्रीभगवत्
  • ३-१-३ As detailed in Post # २५
    • ३-५-४ भगवान् “भगवत्” (= full of brilliance) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • Apte’s dictionary gives 18 different meanings of the word “भग”. ‘Brilliance’ is one of the 18 meanings.

३-२ उवाच “वच्” २ प (= to say, to speak, to talk) इति धातुः । तस्य परोक्षभूते प्रथमपुरुषे एकवचनम् ।

२ “अर्जुन, इदं अनार्यजुष्टम् अस्वर्ग्यं अकीर्तिकरं कश्मलम् विषमे त्वा कुत: समुपस्थितम्” एतस्मिन् वाक्यांशे –

३-३ अर्जुन “अर्जुन” (= name of third पाण्डव) इति पुल्लिङ्गि विशेषनाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।
३-४ इदम् (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-५ अनार्यजुष्टम् “अनार्यजुष्ट” इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-५-१ अन् + आर्यजुष्टम् =  अनार्यजुष्टम् = आर्यजुष्टं न । नञ्-तत्पुरुषः ।
  • ३-५-२ आर्याय जुष्टम् आर्यजुष्टम् । चतुर्थी-तत्पुरुषः ।
  • ३-५-३ आर्याय “आर्य” (= noble) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य चतुर्थी विभक्तिः एकवचनम् च ।
  • ३-५-४ जुष्टम् “जुष्” १ प ६ आ (= to propitiate, to practice) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “जुष्ट” (= ) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-५-५ अनार्यजुष्टम् = ignoble

३-६ अस्वर्ग्यं “अस्वर्ग्य” इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-६-१ न स्वर्ग्यम् अस्वर्ग्यम् । नञ्-तत्पुरुषः ।
  • ३-६-२ स्वर्ग्यम् “स्वर्ग्य” (= what can lead to heaven) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-६-३ अस्वर्ग्यम् = what would prevent one from going to heaven

३-७ अकीर्तिकरम् “अकीर्तिकर” इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-७-१ न कीर्तिकरम् इति अकीर्तिकरम् । नञ्-तत्पुरुषः ।
  • ३-७-२ कीर्तिम् करोति इति कीर्तिकरम् । उपपद-तत्पुरुषः ।
  • ३-७-३ कीर्तिम् “कीर्ति” (= fame) इति स्त्रीलिङ्गि नाम ।  तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३-७-४ अकीर्तिकरम् = what would undo one’s fame

३-९ विषमे “विषम” (= unequal, uneven, improper) इति विशेषणम् । अत्र नपुंसकलिङ्गि नाम (= an irregular, unusual, uncommon situation) अपि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
३-१० त्वा “युष्मद्” (= pronoun of second person, you) इति सर्वनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-११ कुत: (= from where) इति अव्ययम् ।
३-१२ समुपस्थितम् “सम् + उप + स्था” १ प (= to arise, to devolve upon) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “समुपस्थित” (= arisen) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ “पार्थ, क्लैब्यम् गमः मा स्म” एतस्मिन् वाक्यांशे –

३-१३ पार्थ (= son of Pruthaa) इति पुल्लिङ्गि विशेषनाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१३-१ पृथायाः अयम् इति पार्थः ।
  • ३-१३-२ पृथायाः “पृथा” (= epithet of कुन्ति, mother of युधिष्ठिर, भीम and अर्जुन) इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

३-१४ क्लैब्यम् “क्लैब्य” (= impotence, unmanliness, cowardice) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-१५ गमः “गम्” १ प (= to go to, to get to) इति धातुः । तस्मात् तद्धितं पुल्लिङ्गि नाम “गम” (= going to, getting to) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१६ मा (= no, not, do not) नकारात्मकं अव्ययम् ।
३-१७ स्म (= to happen) इति अव्ययम् । In Apte’s dictionary following clarification is detailed. “a pleonastic particle, generally added to the prohibitive particle मा.
३-१८ क्लैब्यं गमः मा स्म = May not going to cowardice happen

४ “एतत् त्वयि न उपपद्यते” एतस्मिन् वाक्यांशे –

३-१८एतत् (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१९ त्वयि “युष्मद्” (= pronoun of second person, you) इति सर्वनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
३-२० न (= no, not) अव्ययम् ।
३-२१ उपपद्यते “उप + पद्” ४ आ, १० आ (= to befit) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

५ “परंतप हृदयदौर्बल्यं क्षुद्रं (भवति)” एतस्मिन् वाक्यांशे –

३-२२ परंतप इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-२२-१ परम् तपः यस्य सः परंतपः । बहुव्रीहिः ।
  • ३-२२-२ परम् “पर” (= otherwise, unusual, extreme) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२२-३ तपः “तप्” १ प (= to heat up) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “तपस्” (= penance) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२२-४ परंतपः = one, who has done extreme penance

३-२३ हृदयदौर्बल्यं “हृदयदौर्बल्य” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-२३-१ हृदयस्य दौर्बल्यम् हृदयदौर्बल्यम् । षष्ठी-तत्पुरुषः ।
  • ३-२३-२ हृदयस्य “हृदय” (= heart) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-२३-३ दौर्बल्यम् “दौर्बल्य” (= weakness) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२३-४ हृदयदौर्बल्यम् = weakness of heart

३-२४ क्षुद्रम्  “क्षुद्र” (= mean, lowly) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-२५ भवति “भू” १ प (= to be, to become) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

“(तत्) त्यक्त्वाएतस्मिन् वाक्यांशे –

३-२६तत् (= that) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-२७ त्यक्त्वा “त्यज्” १ प (= to leave, to cast away) इति धातुः । तस्मात् भूतकालवाचकं त्वान्तं अव्ययम् “त्यक्त्वा” (= by casting away) ।

७ “(त्वम्) उत्तिष्ठ” एतस्मिन् वाक्यांशे –

३-२८ त्वम् “युष्मद्” (= pronoun of second person, you) इति सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-२९ उत्तिष्ठ “उत् + स्था” १ प (= to get up) इति धातुः । तस्य आज्ञार्थे मध्यमपुरुषे एकवचनम् ।

Exercise 4 Arrange the verses in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ श्रीभगवान् उवाच । = (The glorious and brilliant one) Lord said
  • ४-२ अर्जुन, इदं अनार्यजुष्टम् अस्वर्ग्यं अकीर्तिकरं कश्मलम् विषमे त्वा कुत: सम्-उपस्थितम् । = Oh Arjuna, wherefrom has this inappropriate, ignoble, affliction, which will prevent you from going to the heavens, and which will undo all your fame, come by to you ?
  • ४-३ पार्थ क्लैब्यम् गमः मा स्म । Oh Paartha (son of Pruthaa)
  • ४-४ एतत् त्वयि न उपपद्यते । = This does not befit you
  • ४-५ परंतप, हृदय-दौर्बल्यं क्षुद्रं (भवति) = (You, who has done extreme penance) weakness of heart is mean
  • ४-६ (तत्) त्यक्त्वा = by casting it away
  • ४-७ (त्वम्) उत्तिष्ठ= get up !

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we have to set the verse into four quarters –

कुतस्त्वा कश्मलमिदं । वर्णाः ८
विषमे समुपस्थितम् । वर्णाः ८
अनार्यजुष्टमस्वर्ग्यम् ।  वर्णाः ८
अकीर्तिकरमर्जुन । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।

६-१ In these verses श्रीकृष्ण seems to brush aside all arguments put forth by अर्जुन as inappropriate and unbecoming of him.

६-२ Even when brushing aside his arguments श्रीकृष्ण addresses अर्जुन

  • first as अर्जुन, which was his well-known given name
  • then as पार्थ as if to remind him of his mother and of what he owed to her
  • also as परंतप as if to remind him of his own penances, achievements and fame


शुभमस्तु ।

-o-O-o-

Advertisements