Learning together Sanskrit and GeetA (Chapter 2 : Verse 23, 24, 25)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 23, 24, 25)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोकाः २३, २४, २५) चत्वारिंशत्तमः (४०) सोपानः ।
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।।२-२३।।
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ।।२-२४।।
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वेनं न त्वम् शोचितुमर्हसि ।।२-२५।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
न एनं छिन्दन्ति शस्त्राणि न एनं दहति पावकः ।
न च एनं क्लेदयन्ति आपः न शोषयति मारुतः ।।२-२३।।
अच्छेद्य: अयम् अदाह्य: अयम् अक्लेद्य: अशोष्य: एव च ।
नित्यः सर्वगतः स्थाणु: अचल: अयम् सनातनः ।।२-२४।।
अव्यक्त: अयम् अचिन्त्य: अयम् अविकार्य: अयम् उच्यते ।
तस्मात् एवं विदित्वा एनं न त्वम् शोचितुम् अर्हसि ।।२-२५।।

अत्र सन्धयः

  1. नैनम् = न एनम् (स्वर-संधिः)
  2. चैनम् = च एनम् (स्वर-संधिः)
  3. क्लेदयन्त्यापो न = क्लेदयन्ति आपः न
    • क्लेदयन्ति आपः = क्लेदयन्त्यापः (स्वर-संधिः)
    • आपः न = आपो न (विसर्ग-संधिः)
  4. अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव = अच्छेद्य: अयम् अदाह्य: अयम् अक्लेद्य: अशोष्य: एव
    • अच्छेद्य: अयम् = अच्छेद्योऽयम् (विसर्ग-संधिः)
    • अच्छेद्योऽयम् अदाह्य: = अच्छेद्योऽयमदाह्य: (व्यञ्जनसन्धिः)
    • अच्छेद्योऽयमदाह्य: अयम् = अच्छेद्योऽयमदाह्योऽयम् (विसर्ग-संधिः)
    • अच्छेद्योऽयमदाह्योऽयम् अक्लेद्य: = अच्छेद्योऽयमदाह्योऽयमक्लेद्य: (व्यञ्जनसन्धिः)
    • अच्छेद्योऽयमदाह्योऽयमक्लेद्य: अशोष्य: = अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य: (विसर्ग-संधिः)
    • अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य: एव = अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव (विसर्ग-संधिः)
  5. स्थाणुरचलोऽयम् = स्थाणु: अचल: अयम्
    • स्थाणु: अचल: = स्थाणुरचल: (विसर्ग-संधिः)
    • स्थाणुरचल: अयम् = स्थाणुरचलोऽयम् (विसर्ग-संधिः)
  6. अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते = अव्यक्त: अयम् अचिन्त्य: अयम् अविकार्य: अयम् उच्यते
    • अव्यक्त: अयम् = अव्यक्तोऽयम् (विसर्ग-संधिः)
    • अव्यक्तोऽयम् अचिन्त्य: = अव्यक्तोऽयमचिन्त्य: (व्यञ्जनसन्धिः)
    • अव्यक्तोऽयमचिन्त्य: अयम् = अव्यक्तोऽयमचिन्त्योऽयम् (विसर्ग-संधिः)
    • अव्यक्तोऽयमचिन्त्योऽयम् अविकार्य: = अव्यक्तोऽयमचिन्त्योऽयमविकार्य: (व्यञ्जनसन्धिः)
    • अव्यक्तोऽयमचिन्त्योऽयमविकार्य: अयम् = अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयम् (विसर्ग-संधिः)
    • अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयम् उच्यते = अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते (व्यञ्जनसन्धिः)
  7. तस्मादेवम् = तस्मात् एवम् (व्यञ्जनसन्धिः)
  8. विदित्वेनम् = विदित्वा एनम्
  9. शोचितुमर्हसि = शोचितुम् अर्हसि (व्यञ्जनसन्धिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः
  1. एनं शस्त्राणि न छिन्दन्ति
  2. पावकः एनं न दहति
  3. आपः एनं न क्लेदयन्ति च
  4. मारुतः (एनं) न शोषयति ।
  5. अयम् अच्छेद्य: (अस्ति) ।
  6. अयम् अदाह्य: अक्लेद्य: अशोष्य: एव च (अस्ति) ।
  7. अयम् नित्यः सर्वगतः स्थाणु: अचल: सनातनः (अस्ति) ।
  8. अयम् अव्यक्त: (उच्यते) ।
  9. अयम् अचिन्त्य: (उच्यते) ।
  10. अयम् अविकार्य: उच्यते ।
  11. तस्मात् एनं एवं विदित्वा
  12. त्वम् शोचितुम् न अर्हसि ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा अव्ययम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् इतरे शब्दाः वाक्यांशस्य प्रकारः
शस्त्राणि एनं न छिन्दन्ति प्रधान:
पावकः एनं न दहति प्रधान:
आपः एनं न क्लेदयन्ति प्रधान:
मारुतः (एनं) न शोषयति प्रधान:
अयम् अच्छेद्य: (अस्ति) प्रधान:
अयम् अदाह्य: अक्लेद्य: अशोष्य: (अस्ति) एव च प्रधान:
अयम् नित्यः सर्वगतः स्थाणु: अचल: सनातनः (अस्ति) प्रधान:
अयम् अव्यक्त: (उच्यते) प्रधान:
अयम् अचिन्त्य: (उच्यते) प्रधान:
१० अयम् अविकार्य: उच्यते प्रधान:
११ तस्मात् एनं विदित्वा एवं गौणः
१२ शोचितुम् गौणः
१३ त्वम् न अर्हसि प्रधान:

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.
एनं शस्त्राणिछिन्दन्ति
पावकः एनं न दहति
आपः एनं न क्लेदयन्ति
मारुतः (एनं) न शोषयति
अयम् अच्छेद्य: (अस्ति) ।
अयम् अदाह्य: अक्लेद्य: अशोष्य: एव च (अस्ति) ।
अयम् नित्यः सर्वगतः स्थाणु: अचल: सनातनः (अस्ति) ।
अयम् अव्यक्त: उच्यते
अयम् अचिन्त्य: (उच्यते) ।
अयम् अविकार्य: (उच्यते) ।
तस्मात् एनं एवं विदित्वा
त्वम् शोचितुम्अर्हसि

१  एनम् “एतत्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२ शस्त्राणि “शस्” १ प (= to cut) इति धातुः । तस्मात् उपकरणार्थि नपुंसकलिङ्गि नाम “शस्त्र” (= weapon) । तस्य प्रथमा वा द्वितीया विभक्तिः बहुवचनम् च ।
३ छिन्दन्ति “छिद्” ७ उ (= to cut) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे बहुवचनम् ।
४ पावकः “पावक” (= fire) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
५ दहति “दह्” १ प (= to burn) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।
६ आपः “आपस्” (= water) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
७ क्लेदयन्ति “क्लिद्” ४ प (= to get wet) इति धातुः । तस्य “क्लेदय्”-इति प्रयोजकस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।
८ मारुतः “मरुत्” (= wind) इति पुल्लिङ्गि नाम । तस्मात् तद्धितं विशेषणम् प्रायः पुल्लिङ्गि नाम अपि “मारुत” (= wind) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
९ शोषयति “शुष्” ४ प (= to become dry) इति धातुः । तस्य “शोषय्”-इति प्रयोजकस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
१० अयम् “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
११ अच्छेद्य: “अच्छेद्य” इति सामासिकं विशेषणम् ।

  • ११-१ न छेद्यः इति अच्छेद्य: । नञ्-तत्पुरुषः ।
  • ११-२ छेद्यः “छिद्” ७ उ (= to cut) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “छेद्य” (= what can be cut) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ११-३ अच्छेद्य = what cannot be cut

१२ अदाह्य: “अदाह्य” इति सामासिकं विशेषणम् ।

  • १२-१ न दाह्य: इति अदाह्य: । नञ्-तत्पुरुषः ।
  • १२-२ दाह्य: “दह्” १ प (= to burn) इति धातुः । तस्य “दाहय्”-इति प्रयोजकात् विध्यर्थवाचकं विशेषणम् “दाह्य” (= what can be burnt) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १२-३ अदाह्य: = what cannot be burnt

१३ अक्लेद्य: “अक्लेद्य” इति सामासिकं विशेषणम् ।

  • १३-१ न क्लेद्यः इति अक्लेद्य: । नञ्-तत्पुरुषः ।
  • १३-२ क्लेद्यः “क्लिद्” ४ प (= to get wet) इति धातुः । तस्य “क्लेदय्”-इति प्रयोजकात् विध्यर्थवाचकं विशेषणम् “क्लेद्य” (= what can be wetted) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १३-३ अक्लेद्य: = what cannot be moistened or wetted

१४ अशोष्य: “अशोष्य” इति सामासिकं विशेषणम् ।

  • १४-१ न शोष्यः इति अशोष्यः । नञ्-तत्पुरुषः ।
  • १४-२ शोष्यः “शुष्” ४ प (= to dry) इति धातुः । तस्य “शोषय्”-इति प्रयोजकात् विध्यर्थवाचकं विशेषणम् “शोष्य” (= what can be dried) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४-३ अशोष्य: = what cannot be dried

१५ नित्यः “नित्य” (= eternal) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१६ सर्वगतः “सर्वगत” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १६-१ सर्वस्मिन् गतः इति सर्वगतः । सप्तमीतत्पुरुषः
  • १६-२ सर्वस्मिन् “सर्व” (= all) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • १६-३ गतः “गम्” १ प (= to go) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “गत” (= gone) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १६-४ सर्वगतः = gone into all

१७ स्थाणु: “स्थाणु” (= firm, steadfast) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१८ अचल: “अचल” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १८-१ न चलः इति अचलः । नञ्-तत्पुरुषः ।
  • १८-२ चलः “चल्” १ प (= to move) इति धातुः । तस्मात् विशेषणम् “चल” (= moving) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १८-३ अचलः = immovable

१९ सनातनः “सनातन” (= ancient) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२० अव्यक्त: “अव्यक्त” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २०-१ न व्यक्तः इति अव्यक्तः । नञ्-तत्पुरुषः ।
  • २०-२ व्यक्तः “वि + अक्” १ प (I am not sure whether this is the verb) (= to manifest) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “व्यक्त” (= manifest) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २०-३ अव्यक्तः = not manifest

२१ उच्यते “वच्” २ प (= to say) इति धातुः । तस्य कर्मणिप्रयोगे वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
२२ अचिन्त्य: “अचिन्त्य” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २२-१ न चिन्त्यः इति अचिन्त्यः । नञ्-तत्पुरुषः ।
  • २२-२ चिन्त्यः “चिन्त्” १० उ (= to think) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “चिन्त्य” (= worthy of thinking about) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २२-३ अचिन्त्यः = beyond thought, inscrutable

२३ अविकार्य: “अविकार्य” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २३-१ न विकार्यः इति अविकार्यः । नञ्-तत्पुरुषः ।
  • २३-२ विकार्यः “वि + कृ” ८ उ (= to do otherwise, to change) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “विकार्य” (= to be done otherwise, changeable) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २३-३ अविकार्यः = unchangeable

२४ तस्मात् “तत्” (= that) इति सर्वनाम । अत्र पुल्लिङ्गि अथवा नपुंसकलिङ्गि । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

  • २४-१ तस्मात् = from that, hence, therefore

२५ विदित्वा “विद्” २ प (= to know) इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् “विदित्वा” (= on knowing) ।
२६ शोचितुम् “शुच्” १ प (= to grieve) इति धातुः । तस्मात् हेत्वर्थकं तुमन्तं अव्ययम् “शोचितुम्” (= to grieve) ।
२७ अर्हसि “अर्-ह्” १ प (= to merit) इति धातुः । तस्य वर्तमानकाले मध्यमपुरुषे एकवचनम् ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

  1. एनं शस्त्राणि न छिन्दन्ति = Weapons do not (cannot) cut it
  2. पावकः एनं न दहति = Fire does not (cannot) burn it
  3. आपः एनं न क्लेदयन्ति च = Water does not (cannot) make it wet
  4. मारुतः (एनं) न शोषयति । = Wind does not (cannot) dry it
  5. अयम् अच्छेद्य: (अस्ति) । = It is unslashable
  6. अयम् अदाह्य: अक्लेद्य: अशोष्य: एव च (अस्ति) । = It is not burnable, not wettable, also not dry-able
  7. अयम् नित्यः सर्वगतः स्थाणु: अचल: सनातनः (अस्ति) । = It is eternal, omnipresent, steadfast, immovable, immutable.
  8. अयम् अव्यक्त: (उच्यते) । = It is said to be unmanifest
  9. अयम् अचिन्त्य: (उच्यते) । = It is said to be beyond thought or perception
  10. अयम् अविकार्य: उच्यते । = It is said to be unchangeable
  11. तस्मात् एनं एवं विदित्वा = Knowing it to be so,
  12. त्वम् शोचितुम् न अर्हसि । = you ought not to grieve it.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

नैनं छिन्दन्ति शस्त्राणि । वर्णाः ८
नैनं दहति पावकः । वर्णाः ८
न चैनं क्लेदयन्त्यापो – वर्णाः ८
न शोषयति मारुतः  ।। वर्णाः ८
अच्छेद्योऽयमदाह्योऽय- वर्णाः ८
मक्लेद्योऽशोष्य एव च । वर्णाः ८
नित्यः सर्वगतः स्थाणु- । वर्णाः ८
रचलोऽयं सनातनः ।। वर्णाः ८
अव्यक्तोऽयमचिन्त्योऽय- । वर्णाः ८
मविकार्योऽयमुच्यते । वर्णाः ८
तस्मादेवं विदित्वेनं । वर्णाः ८
न त्वम् शोचितुमर्हसि ।। वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अधिकं विवरणम् अनावश्यकम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

५-१ There is quite some repetition in these श्लोक-s, especially in (२-२३) and (२-२४). As can be seen, न छिन्दन्ति > अच्छेद्यः, न दहति > अदाह्यः, न क्लेदयन्ति > अक्लेद्यः, न शोषयति > अशोष्यः This seeming repetition can however be deliberated to see the deeper implications

  • एनं शस्त्राणि न छिन्दन्ति because it has a firm attribute that it is अच्छेद्य
  • पावकः एनं न दहति because it has a firm attribute that it is अदाह्य
  • आपः एनं न क्लेदयन्ति because it has a firm attribute that it is अक्लेद्य
  • मारुतः (एनं) न शोषयति because it has a firm attribute that it is अशोष्य
  • Reference to पावक, आप and मारुत is reference to three of five Great elements पञ्च महाभूतानि. This emphasizes Its characteristics that even the five Great elements are powerless against it !

५-२ Segregating four quarters of these verses is somewhat clumsy, due to long संधि-s and many अवग्रह-s, especially in अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च

५-३ Some adjectives as सर्वगत, सनातन, अव्यक्त, अचिन्त्य, अविकार्य seem to provoke some deliberation.

  • सर्वगत is endorsed in the first मन्त्र of ईशावास्योपनिषत् “ईशावास्यमिदं सर्वम् यत्किञ्च जगत्यां जगत्”
  • सनातन seems to be a synonym of नित्य. But सनातन also has a shade of meaning as “ancient”
  • आत्मा the soul is of course अव्यक्त But at many places further on death of every living being is advised to be considered as a phase between two lives, a phase of transition from one life to another. Even the state of sleep is a state of being अव्यक्त or of unawareness. This is detailed in the eighth chapter भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ।।८-१९।। We shall of course come to this in due course.
  • To understand in-depth meaning of each and every verse, one is often tempted to cite references back and forth. That makes all the more charming to first study each and every verse in sequence and to study all the verses all over again to explore meaning of one verse in the context of another ! That makes study of गीता a charming, absorbing, endless indulgence ! One can never say, “I have completed my study of गीता” One should never say that !
  • The word अचिन्त्य is challenging ! अचिन्त्य = inscrutable ! कृष्ण wants अर्जुन to understand the attributes of आत्मा. Yet He mentions that It is inscrutable ! Another shade of meaning of अचिन्त्य can be यस्य चिन्ता न कर्तव्या तत् i.e. अचिन्त्य is that of which one need not have worries or anxieties ! Such different shades of meaning of many words also make the study inviting and absorbing !
  • The word अविकार्य is also interesting. Meaning given above is अविकार्य = unchangeable. In turn अविकार्य also means, what cannot be manipulated. What is not manifest अव्यक्त and what is inscrutable अचिन्त्य is basically inaccessible, right ? Can one manipulate something what is inaccessible ? May be, magicians do that by slight of hands or by hypnotism. The adjective अविकार्य is possibly added to underscore that no manipulation whatsoever is possible !

५-४ All the narration refers to a masculine concept. Hence all adjectives are also masculine. People have interpreted the masculine concept to be आत्मा the soul. Or it can also be considered to be the concept also called as पुरुष  Basically it all can be considered as referring to the neuter तत् of ॐ तत् सत् !

शुभमस्तु ।

-o-O-o-

Advertisements