Learning together Sanskrit and GeetA (Chapter 2 : Verse 26, 27)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 26, 27)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोकौ २६, २७) एकचत्वारिंशत्तमः (४१) सोपानः ।
अथ चैनं नित्यजातं नित्यम् वा मन्यसे मृतम् ।
तथापि त्वम् महाबाहो नैवम् शोचितुमर्हसि ।।२-२६।।
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वम् शोचितुमर्हसि ।।२-२७।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
अथ च एनं नित्यजातं नित्यम् वा मन्यसे मृतम् ।
तथा अपि त्वम् महाबाहो न एवम् शोचितुम् अर्हसि ।।२-२६।।
जातस्य हि ध्रुव: मृत्यु: ध्रुवं जन्म मृतस्य च ।
तस्मात् अपरिहार्ये अर्थे न त्वम् शोचितुम् अर्हसि ।।२-२७।।
अत्र सन्धयः
  1. च नम् = चैनम् (स्वर-संधिः)
  2. तथापि = तथा अपि (स्वर-संधिः)
  3. नैवम् = न एवम्
  4. शोचितुमर्हसि = शोचितुम् अर्हसि (व्यञ्जनसन्धिः)
  5. ध्रुवो मृत्युर्ध्रुवम् = ध्रुव: मृत्यु: ध्रुवम्
    • ध्रुव: मृत्यु:  = ध्रुवो मृत्यु: (विसर्ग-संधिः)
    • मृत्यु: ध्रुवम् = मृत्युर्ध्रुवम् (विसर्ग-संधिः)
  6. तस्मादपरिहार्येऽर्थे = तस्मात् अपरिहार्ये अर्थे
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः

  1. महाबाहो अथ च (त्वम्) एनं नित्यजातं मन्यसे वा नित्यम् मृतम् (मन्यसे)
  2. तथापि एवम् शोचितुम् त्वम् न अर्हसि
  3. हि जातस्य मृत्यु: ध्रुव: (अस्ति) मृतस्य च जन्म ध्रुवं (अस्ति) ।
  4. तस्मात् अपरिहार्ये अर्थे शोचितुम् त्वम् न अर्हसि ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् अव्ययम् वा इतरे शब्दाः वाक्यांशस्य प्रकारः
महाबाहो अथ च (त्वम्) एनं नित्यजातं मन्यसे प्रधान:
वा (त्वम्) (एनं) नित्यम् मृतम् (मन्यसे) प्रधान:
तथापि शोचितुम् एवम् गौणः
(त्वम्) न अर्हसि प्रधान:
हि जातस्य मृत्यु: ध्रुव: (अस्ति) प्रधान:
मृतस्य जन्म ध्रुवं (अस्ति) प्रधान:
तस्मात् शोचितुम् अपरिहार्ये अर्थे गौणः
त्वम् न अर्हसि प्रधान:

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.
महाबाहो अथ च (त्वम्) एनं नित्यजातं मन्यसे वा नित्यम् मृतम् तथापि एवम् शोचितुम् त्वम् न अर्हसि । हि जातस्य मृत्यु: ध्रुव: (अस्ति) मृतस्यजन्म ध्रुवं । तस्मात् अपरिहार्ये अर्थे शोचितुम् त्वम् न अर्हसि ।

१ महाबाहो  “महाबाहु” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • १-१ महान्तौ बाहू यस्य सः महाबाहुः । बहुव्रीहिः ।
  • १-२ महान्तौ “महत्” (= large) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः द्विवचनम् च ।
  • १-३ बाहू “बाहु” (= arm) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः द्विवचनम् च ।
  • १-४ महाबाहु = one who has large arms

२ अथ च (= and then, even if) इति अव्ययौ ।
३ नित्यजातम् “नित्यजात” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-१ नित्यम् जातः इति नित्यजातः । कर्मधारयः ।
  • ३-२ नित्यम् “नित्य” (= eternal) इति विशेषणम् । अत्र अव्ययात्मकम् ।
  • ३-३ जातः “जन्” ४ आ (= to be born) इति धातुः । तस्य कर्मणि-भूतकालवाचकं विशेषणम् “जात” (= born) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-४ नित्यजात = ever-born

४ मृतम् “मृ” ६ आ (= to die) इति धातुः । तस्य कर्मणि-भूतकालवाचकं विशेषणम् “मृत” (= dead) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
५ मन्यसे “मन्” ४, ८ आ (= to regard) इति धातुः । तस्य लट्-वर्तमाने मध्यमपुरुषे एकवचनम् ।
६ तथापि (= तथा + अपि) (= even then, however) इति अव्ययम् ।

  • Although तथा (= like that) and अपि (= but, also) are indeclinables अव्यय-s independently, the conjuncted word तथापि is also an independent अव्यय

७ शोचितुम् “शुच्” १ प (= to grieve) इति धातुः । तस्मात् हेत्वर्थकं तुमन्तं अव्ययम् “शोचितुम्” (= to grieve) ।
८ अर्हसि “अर्-ह्” १ प (= to merit) इति धातुः । तस्य वर्तमानकाले मध्यमपुरुषे एकवचनम् ।
९ हि (= because) इति अव्ययम् ।
१० जातस्य “जन्” ४ आ (= to be born) इति धातुः । तस्य कर्मणि-भूतकालवाचकं विशेषणम् “जात” (= born) । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
११ मृत्यु: “मृत्यु” (= death) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१२ ध्रुव: “ध्रुव” (= certain, sure, definite) इति  विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१३ मृतस्य “मृ” ६ आ (= to die) इति धातुः । तस्य कर्मणि-भूतकालवाचकं विशेषणम् “मृत” (= dead) । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
१४ जन्म “जन्” ४ आ (= to be born) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “जन्मन्” (= birth) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१५ ध्रुवं “ध्रुव” (= certain, sure, definite) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१६ तस्मात् “तत्” (= that) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

  • १६-१ तस्मात् (= therefore) इति अव्ययम् अपि ।

१७ अपरिहार्ये “अपरिहार्य” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि अथवा नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • १७-१ न परिहार्यं इति अपरिहार्यम्  । नञ्-तत्पुरुषः
  • १७-२  परिहार्यम् “परि + हृ” १ उ (= to avoid, to alter) इति धातुः । तस्य “परिहार”-प्रयोजकात् विध्यर्थवाचकं विशेषणम् “परिहार्य” (= avoidable, alterable) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १७-३ अपरिहार्य = unavoidable, unalterable

१८ अर्थे “अर्थ” (= meaning, fact) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

  1. महाबाहो अथ च (त्वम्) एनं नित्यजातं मन्यसे वा नित्यम् मृतम् (मन्यसे) = Oh Arjuna (you with large arms), even if you regard it to be ever-born or to be ever dead
  2. तथापि एवम् शोचितुम् त्वम् न अर्हसि = Even then you ought not to grieve.
  3. हि जातस्य मृत्यु: ध्रुव: (अस्ति) मृतस्य च जन्म ध्रुवं (अस्ति) । = Because death of (whatever is) born is certain and birth of (whatever is) dead is also certain.
  4. तस्मात् अपरिहार्ये अर्थे शोचितुम् त्वम् न अर्हसि । = Therefore you ought not to grieve at unavoidable, unalterable facts.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

अथ चैनं नित्यजातं । वर्णाः ८
नित्यम् वा मन्यसे मृतम् । वर्णाः ८
तथापि त्वम् महाबाहो वर्णाः ८
नैवम् शोचितुमर्हसि । वर्णाः ८
जातस्य हि ध्रुवो मृत्यु: वर्णाः ८
ध्रुवं जन्म मृतस्य च । वर्णाः ८
तस्मादपरिहार्येऽर्थे । वर्णाः ८
न त्वम् शोचितुमर्हसि । वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अधिकं विवरणम् अनावश्यकम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

५-१ In saying “even if you regard, मन्यसे तथापि”, श्रीकृष्ण-भगवान् seems to be provoking arguments and arguing them out in one stroke.

५-२ What is implied by नित्यजातम् is possibly पुनःपुनः जातम् Likewise by what is implied by नित्यम् मृतम् is also possibly पुनःपुनः मृतम्. That brings a new meaning पुनःपुनः for the word नित्यम् Swami Gambhiranand translated नित्यम् as ‘regularly’. Lte Shri Kailash Nath Kalia translated it as ‘perpetually’. I think the meaning implied here is ‘repeatedly’ than conventional meanings such as ‘regularly’, ‘perpetually’, etc.

  • ५-२-१ रामानुजाचार्य adds an interesting color when commenting on this श्लोक. नित्यजातम् and नित्यम् मृतम् are characteristics of the body wherein आत्मा or पुरुष or तत्-त्व resides. But anyone regarding these characteristics of the body being applicable to आत्मा or पुरुष or तत्-त्व is indulging in wrong understanding मन्यसे. What seems ordained here is, even if the understanding is wrong, that does not become any valid justification to grieve over it.

५-३ Each of the two phrases जातस्य मृत्यु: ध्रुव: and मृतस्य च जन्म ध्रुवम् are stated as unavoidable facts and hence not to be grieved upon. By such consideration the phrase अपरिहार्ये अर्थे can be considered as object to the participle शोचितुम् In that case the words अपरिहार्ये अर्थे can be considered to be of object case dual number declension द्वितीया विभक्तिः द्विवचनम् also. However अर्थे cannot be द्वितीया विभक्तिः द्विवचनम् of अर्थ because the word अर्थ is quoted to be only masculine पुल्लिङ्गि. But it is seen used in neuter form in words like किमर्थम्

५-४ जातस्य मृत्यु: ध्रुव: is accepted in all religions and philosophies. However मृतस्य च जन्म ध्रुवम् is said to be not acceptable in Christian faith. Instead of leaving acceptability of मृतस्य च जन्म ध्रुवम् to be a matter of faith, it would be so much better if there were to be some concrete evidence of मृतस्य च जन्म ध्रुवम्

शुभमस्तु ।

-o-O-o-

Advertisements