Learning together Sanskrit and GeetA (Chapter 2 : Verse 28)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 28)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: २८) द्विचत्वारिंशत्तमः (४) सोपानः ।
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ।।२-२८।।

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
अव्यक्त-आदीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनानि एव तत्र का परिदेवना ।।२-२८।।
अत्र सन्धयः
  1. अव्यक्तादीनि = अव्यक्त-आदीनि (स्वर-संधिः)
  2. अव्यक्तनिधनान्येव = अव्यक्तनिधनानि + एव (स्वर-संधिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः

  1. भारत, भूतानि अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानि एव (भवन्ति) ।
  2. परिदेवना तत्र का (भवेत्) ?

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् अव्ययम् वा इतरे शब्दाः वाक्यांशस्य प्रकारः
भारत भूतानि अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानि (भवन्ति) प्रधान:
परिदेवना का (भवेत्) तत्र प्रधान:

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.
भारत, भूतानि अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानि एव (भवन्ति) । परिदेवना तत्र का (भवेत्) ?

१ भारत  “भारत” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • १-१ भरतस्य वंशे संजातः इति भारतः = One who is born in the lineage of Bharat

२ भूतानि “भू” १ प (= to be, to become manifest) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “भूत” (= what has become manifest) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३ अव्यक्तादीनि “अव्यक्तादि” इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-१ न व्यक्तं अव्यक्तम्  । नञ्-तत्पुरुषः ।
  • ३-२ अव्यक्तः आदिः यस्य तत् अव्यक्तादि । बहुव्रीहिः । अथवा –
    • आदौ अव्यक्तम् इति अव्यक्तादि । सप्तमी-तत्पुरुषः ?
  • ३-३ व्यक्तम् “वि + अञ्ज्” ७ प (= to become manifest) इति धातुः । तस्य कर्मणि-भूतकालवाचकं विशेषणम् “व्यक्त” (= what has become manifest) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-४ आदिः “आदि” (= beginning, start, commencement) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • आदौ – सप्तमी विभक्तिः एकवचनम् च ।
  • ३-५ अव्यक्तादि = what has not being manifest as its beginning

४ व्यक्तमध्यानि “व्यक्तमध्य” इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ४-१ व्यक्तः मध्यः यस्य तत् । बहिव्रीहिः । अथवा –
    • मध्ये व्यक्तं व्यक्तमध्यम् । सप्तमी-तत्पुरुषः ?
  • ४-२ व्यक्तमध्य = what has being manifest as its middle stage

५ अव्यक्तनिधनानि “अव्यक्तनिधन” इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ५-१ न व्यक्तं अव्यक्तम् । नञ्-तत्पुरुषः ।
  • ५-२ अव्यक्तं एव निधनं यस्य तत् अव्यक्तनिधनम् । बहुव्रीहिः ।
  • ५-३ निधनम् “नि + धन्” १ प (धन् = to sound, to make sound; नि + धन् = not to make sound) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “निधन” (= state of not making sound, death) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ५-३-१ नि = न । निधनम् = न धनम् । नञ्-तत्पुरुषः ।
    • ५-३-२ Dictionary gives many different meanings of the word धन
      • धन = sound निधनम् = state when sound of heart-beat is no more present
      • धन = wealth; निधनम् = devoid of wealth; Breath is true wealth of life ! In Urdu there is a saying जान है तो जहाँ (जहान) है (Whole world is meaningful, only if there is life) Also, सिर सलामत तो पगड़ी पचास (One can wear many different caps and crowns, only if the head is in its place – both physically and intellectually)
      • धन = positive quantity (in mathematics and physics) निधनम् = null set ?
  • ५-४ अव्यक्तनिधन = what has ‘not being manifest’ as its death

६ भवन्ति “भू” १ प (= to be) इति धातुः । तस्य लट्-वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।७ परिदेवना “परि + दिव्” १ प, १० उ (= to grieve upon, to lament) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “परिदेवना” (= grief, lament) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८ का “किम्” (= what) इति सर्वनाम । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
९ भवेत् “भू” १ प (= to be) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

  1. भारत, भूतानि अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानि एव (भवन्ति) = Oh you, who is born in the lineage of Bharat, all beings are (have the characteristics of) not being manifest as their beginning, (are) manifest in the middle stage and (have) not being manifest as their death.
  2. परिदेवना तत्र का (भवेत्) ? = What lament should (then) be there ?

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

अव्यक्तादीनि भूतानि । वर्णाः ८
व्यक्तमध्यानि भारत । वर्णाः ८
अव्यक्तनिधनान्येव । वर्णाः ८
तत्र का परिदेवना । वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अधिकं विवरणम् अनावश्यकम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

५-१ It is a great concept propounded here, suggesting that life is but the middle stage of being manifest, in-between two stages of not being manifest ! Life is thus a mere transition !

  • Speaking of ‘transition’ between two phases, it comes to mind that since 1967, the International System of Units (SI) has defined the second as the duration of 9192631770cycles of radiation corresponding to the transition between two energy levels of the caesium-133 atom
  • It is said that life is born, right at the time of its birth, with an allotment of certain number of breaths

५-२ Is not the word निधन so interesting !

५-३ The word परिदेवना is also interesting. A more commonly known word is वेदना meaning ‘pain’. Pain can be physical. However परिदेवना is primarily mental or psychological.

५-४ Much of these arguments challenge the contentions of अर्जुन in support of his melancholy. तत्र का परिदेवना is a challenge to the contentions of अर्जुन. Challenging one’s contentions is भेदनीति i.e. बुद्धिभेद

  • Strategies for winning over a person are said to be four – (1) साम reaching an agreement, maybe by give and take (2) दाम enticement (3) दण्ड defeating (4) भेद challenging one’s contentions. Possibly all four strategies have been employed by श्रीकृष्ण-भगवान in this chapter 2 itself !

शुभमस्तु ।

-o-O-o-

Advertisements