Learning together Sanskrit and GeetA (Chapter 2 : Verses 29, 30)

Learning together Sanskrit and GeetA (Chapter 2 : Verses 29, 30)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोकौ २९, ३०) त्रिचत्वारिंशत्तमः (४) सोपानः ।
आश्चर्यवत्पश्यति कश्चिदेनम् ।
आश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति ।
श्रुत्वाप्येनं वेद न चैव कश्चित् ।।२-२९।।
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वम् शोचितुमर्हसि ।।२-३०।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
आश्चर्यवत् पश्यति क:-चित् एनम् ।
आश्चर्यवत् वदति तथा एव च अन्यः ।
आश्चर्यवत् च एनम् अन्यः शृणोति ।
श्रुत्वा अपि एनं वेद न च एव क:-चित् ।।२-२९।।
देही नित्यम् अवध्य: अयं देहे सर्वस्य भारत ।
तस्मात् सर्वाणि भूतानि न त्वम् शोचितुम् अर्हसि ।।२-३०।।
अत्र सन्धयः
  1. आश्चर्यवत्पश्यति = आश्चर्यवत् पश्यति (व्यञ्जन-संधिः)
  2. कश्चिदेनम् = क:-चित् एनम्
    • क:-चित् = कश्चित् (विसर्ग-संधिः)
    • कश्चित् एनम् = कश्चिदेनम् (व्यञ्जन-संधिः)
  3. आश्चर्यवद्वदति = आश्चर्यवत् वदति (व्यञ्जन-संधिः)
  4. तथैव = तथा एव (स्वर-संधिः)
  5. चान्यः = च अन्यः (स्वर-संधिः)
  6. आश्चर्यवच्चैनमन्यः = आश्चर्यवत् च एनम् अन्यः
    • आश्चर्यवत् च = आश्चर्यवच्च (व्यञ्जन-संधिः)
    • आश्चर्यवच्च एनम् = आश्चर्यवच्चैनम् (स्वर-संधिः)
    • आश्चर्यवच्चैनम् अन्यः = आश्चर्यवच्चैनमन्यः (व्यञ्जन-संधिः)
  7. श्रुत्वाप्येनम् = श्रुत्वा अपि एनम्
    • श्रुत्वा अपि = श्रुत्वापि (स्वर-संधिः)
    • श्रुत्वापि एनम् = श्रुत्वाप्येनम् (स्वर-संधिः)
  8. चैव = च एव (स्वर-संधिः)
  9. कश्चित् = क:-चित् (विसर्ग-संधिः)
  10. नित्यमवध्योऽयम् = नित्यम् अवध्य: अयम्
    • नित्यम् अवध्यः = नित्यमवध्यः (व्यञ्जन-संधिः)
    • नित्यमवध्यः अयम् = नित्यमवध्योऽयम् (विसर्ग-संधिः)
  11. तस्मात्सर्वाणि = तस्मात् सर्वाणि (व्यञ्जन-संधिः)
  12. शोचितुमर्हसि = शोचितुम् अर्हसि (व्यञ्जन-संधिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः

  1. कश्चित् एनम् आश्चर्यवत् पश्यति ।
  2. तथा च (कश्चित्) अन्यः आश्चर्यवत् एव वदति ।
  3. अन्यः च एनम् आश्चर्यवत् शृणोति ।
  4. श्रुत्वा अपि च
  5. कश्चित् एनं न वेद एव ।
  6. भारत, सर्वस्य देहे  देही अयं नित्यम् अवध्य: (भवति) ।
  7. सर्वाणि भूतानि शोचितुम्
  8. तस्मात् त्वम् न अर्हसि ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,इतरे शब्दाः क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
कश्चित् एनम् आश्चर्यवत् पश्यति प्रधान:
तथा च (कश्चित्) अन्यः आश्चर्यवत् वदति प्रधान:
अन्यः एनम् आश्चर्यवत् शृणोति प्रधान:
अपि श्रुत्वा गौणः
कश्चित् एनम् न वेद प्रधान:
भारत सर्वस्य देहे  देही अयम् अवध्य: नित्यम् (भवति) प्रधान:
सर्वाणि भूतानि शोचितुम् गौणः
तस्मात् त्वम् न अर्हसि प्रधान:

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

कश्चित् एनम् आश्चर्यवत् पश्यति ।
१ कश्चित् = कः + चित्

  • १-१ कः “किम्” (= who, what) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १-२ चित् (= some-) इति प्रत्ययः ।
  • १-३ कश्चित् = someone
    • In Sanskrit चित् is a प्रत्ययः, i.e. a suffix, whereas in English “some-” is a prefix
    • चित् is added to the duly declined form(s) of the pronoun सर्वनाम “किम्” e.g. कस्मिन् + चित् = कस्मिंश्चित्
    • Rules of conjunction संधि apply when adding चित्. That is why कः + चित् = कश्चित् or किम् + चित् = किञ्चित् कस्मिन् + अपि = कस्मिन्नपि

२ एनम् “एतत्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३ आश्चर्यवत् = आश्चर्य + वत्

  • ३-१ आश्चर्य (= wonder, surprise) इति नपुंसकलिङ्गि नाम ।
    • चर्यायां “आ”-कारः भवति येन तत् = what brings “ah” the expression of surprise on the face
    • चर्यायाम् “चर्या” (= face) इति स्त्रीलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
    • “आ”-कारः = “ah” the expression of surprise

४ पश्यति “दृश्” १ प (= to see) इति धातुः । तस्य लट्-वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

तथा च (कश्चित्) अन्यः आश्चर्यवत् एव वदति ।

५ वदति “वद्” १ प (= to say, to speak of) इति धातुः । तस्य लट्-वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

अन्यः च एनम् आश्चर्यवत् शृणोति ।

६ शृणोति “श्रु” ५ प (= to hear) इति धातुः । तस्य लट्-वर्तमानकाले प्रथमपुरुषे एकवचनम् ।श्रुत्वा अपि च कश्चित् एनं न वेद एव ।

७ श्रुत्वा “श्रु” ५ प (= to hear) इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् “श्रुत्वा” (= on hearing) ।
८ वेद “विद्” २ प (= to know) इति धातुः । तस्य लिट्-परोक्षभूते प्रथमपुरुषे एकवचनम् ।

  • Thanks to Mr. Sathya Narayana for pointing out that  वेद is rather वर्तमानकाले प्रथमपुरुषे एकवचनम् । instead of लिट्-परोक्षभूते प्रथमपुरुषे एकवचनम्
  • Other verbs “पश्यति, वदति, शृणोति” are in present tense only.

भारत, सर्वस्य देहे  देही अयं नित्यम् अवध्य: (भवति) ।
९ भारत  “भारत” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ९-१ भरतस्य वंशे संजातः इति भारतः = One who is born in the lineage of भारत

१० सर्वस्य “सर्व” (= all) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

११ देहे “देह” (= body) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

१२ देही “देहिन्” (= enshrined in a body) इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १२-१ देहः अस्य अस्ति इति देहिन् = what has a body is देहिन्
  • १२-२ देहे अस्ति अयम् अतः देहिन् = One who resides in a body is देहिन्

१३ अयम् “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

१४ नित्यम् (= constant, permanent, eternal) इति अव्ययम् ।

१५ अवध्य: “अवध्य” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १५-१ न वध्यः अवध्यः । नञ्-तत्पुरुषः ।
  • १५-२ वध्यः “वध्” १ प (= to kill) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “वध्य” (= eligible or susceptible to be killed) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १५-३ अवध्यः = not susceptible to be killed

१६ भवति “भू” १ प (= to be) इति धातुः । तस्य लट्-वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

तस्मात् सर्वाणि भूतानि शोचितुम् त्वम् न अर्हसि ।

१७ तस्मात् “तत्” (= he, she, it i.e. pronoun of third person) इति सर्वनाम । अत्र पुल्लिङ्गि वा नपुंसकलिङ्गि । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

  • १७-१ तस्मात् (= from that, therefore) इति प्रायः अव्ययमपि ।

१८ सर्वाणि “सर्व” (= all) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

१९ भूतानि “भू” १ प (= to be) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् प्रायः नपुंसकलिङ्गि नाम अपि “भूत” (= ) । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

२० शोचितुम् “शुच्” १ प ४ उ (= to grieve, to lament) इति धातुः । तस्मात् हेत्वर्थकं तुमन्तं अव्ययम् “शोचितुम्” (= ) ।

२१ त्वम् “युष्मद्” (= you, i.e. pronoun of second person) इति सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२२ अर्हसि “अर्-ह्” १ प (= to merit, to deserve) इति धातुः । तस्य लट्-वर्तमानकाले मध्यम-(द्वितीय)-पुरुषे एकवचनम् ।

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

  1. कश्चित् एनम् आश्चर्यवत् पश्यति । = Someone sees it as wondrous, i.e. some consider it as wondrous
  2. तथा च (कश्चित्) अन्यः आश्चर्यवत् एव वदति । = Also some other speaks of it as wondrous i.e. some others speak of it as wondrous
  3. अन्यः च एनम् आश्चर्यवत् शृणोति । = Yet another hears of it as wondrous
  4. श्रुत्वा अपि च = Even after hearing of it
  5. कश्चित् एनं न वेद एव । No one understood it
  6. भारत, सर्वस्य देहे  देही अयं नित्यम् अवध्य: (भवति) । = You born in the lineage of भरत, He, enshrined in the bodies of all is never susceptible to be killed
  7. सर्वाणि भूतानि शोचितुम् = to grieve for all beings
  8. तस्मात् त्वम् न अर्हसि । = therefore, does not become of you

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

आश्चर्यवत्पश्यति कश्चिदेनम् । वर्णाः ११
(२-२-१)-(२-२-१)-(१ २-१)-२-२ इति १७ मात्राः ।
त-त-ज-ग-ग इति गणाः ।आश्चर्यवद्वदति तथैव चान्यः । वर्णाः १२
(२-२-१)-(२-१-१) (१-१-२)-(१ २-२) इति १७ मात्राः ।
त-भ-स-य इति गणाः ।

आश्चर्यवच्चैनमन्यः शृणोति । वर्णाः ११
(२-२-१)-(२-२-१)-(२-२ १)-२-(२) इति १९ मात्राः ।
त-त-त-ग-ग
श्रुत्वाप्येनं वेद न चैव कश्चित् । वर्णाः ११
(२-२-२)-(२ २-१) (१ २-१) २-(२) इति १९ मात्राः ।
म-त-ज-ग-ग इति गणाः ।

अत्र कः छन्दः ?

देही नित्यमवध्योऽयं । वर्णाः ८
देहे सर्वस्य भारत । वर्णाः ८
तस्मात्सर्वाणि भूतानि  । वर्णाः ८
न त्वम् शोचितुमर्हसि ।। वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अधिकं विवरणम् अनावश्यकम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

५-१ In first three lines the verbs पश्यति वदति शृणोति have common adverb आश्चर्यवत्

  • Out of these पश्यति and वदति are self-motivated actions. शृणोति is receptive action.
  • There are five senses शब्द, स्पर्श, रूप, रस, गन्ध which excite ‘knowledge’ in human brain,
  • Here रूप is connoted by पश्यति And शब्द, is connoted by both वदति and शृणोति
  • So, by these three lines excitation of knowledge in the brain is acknowledged.

५-२ In the fourth line श्रुत्वापि न वेद lends an anticlimax. Knowledge is excited, but knowledge does not happen ! That is the surprise आश्चर्य ! And the person is left in the state of surprise आश्चर्यवत् !

  • अर्जुन is very much in the midst of war. He is seeing it पश्यति, He is himself speaking of it वदति He is listening to all the din शृणोति Yet he is left askance.
  • Knowledge being excited, but not happening, such a thing can happen to anybody. Rather true knowledge does not devolve to anybody न कश्चित् वेद
  • The words श्रुत्वापि and वेद have sound-resemblance to श्रुति-s and वेद-s. And true knowledge is not explained even in श्रुति-s and वेद-s. So I wonder whether the words न कश्चित् embrace in their scope even श्रुति-s and वेद-s. Because they also end up, throwing their hands up, saying नेति नेति not this, not that.
  • So, श्रीकृष्णभगवान् is possibly offering a remission to अर्जुन as if saying, “don’t worry if knowledge is excited but is not happening. That would happen to anybody. But recompose yourself and try to understand.”

५-३ देहे सर्वस्य is very much what is stated in the beginning of ईशावास्य-उपनिषत् ….”ईशावास्यमिदं सर्वम् … !

शुभमस्तु ।

-o-O-o-

Advertisements