Learning together Sanskrit and GeetA (Chapter 2 : Verse 31, 32)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 31, 32)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोकौ ३१, ३२) चतुश्चत्वारिंशत्तमः (४) सोपानः ।
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्  क्षत्रियस्य न विद्यते ।।२-३१।।
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ।।२-३२।।
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि ।
धर्म्यात् हि युद्धात् श्रेय: अन्यत्  क्षत्रियस्य न विद्यते ।।२-३१।।
यत् ऋच्छया च उपपन्नं स्वर्गद्वारम् अपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ।।२-३२।।
अत्र सन्धयः
  1. स्वधर्ममपि = स्वधर्मम् अपि (व्यञ्जन-संधिः)
  2. चावेक्ष्य = च अवेक्ष्य (स्वर-संधिः)
    • अथवा चावेक्ष्य = च आवेक्ष्य (स्वर-संधिः)
  3. विकम्पितुमर्हसि = विकम्पितुम् अर्हसि (व्यञ्जन-संधिः)
  4. धर्म्याद्धि = धर्म्यात् हि (व्यञ्जन-संधिः)
  5. युद्धाच्छ्रेयोऽन्यत् = युद्धात् श्रेय: अन्यत्
    • युद्धात् श्रेय: = युद्धाच्छ्रेय: (व्यञ्जन-संधिः)
    • युद्धाच्छ्रेय: अन्यत् = युद्धाच्छ्रेयोऽन्यत् (विसर्ग-संधिः)
  6. यदृच्छया = यत् ऋच्छया (व्यञ्जन-संधिः)
  7. चोपपन्नं = च उपपन्नं (स्वर-संधिः)
  8. स्वर्गद्वारमपावृतम् = स्वर्गद्वारम् अपावृतम् (व्यञ्जन-संधिः)
  9. युद्धमीदृशम् = युद्धम् ईदृशम्  (व्यञ्जन-संधिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः

  1. स्वधर्मम् आवेक्ष्य अपि च (त्वम्) विकम्पितुम् न अर्हसि ।
  2. धर्म्यात् हि युद्धात् अन्यत् श्रेय: क्षत्रियस्य न विद्यते ।
  3. पार्थ सुखिनः क्षत्रियाः यदृच्छया उपपन्नं अपावृतम् स्वर्गद्वारम् (इव) च ईदृशम् युद्धम् लभन्ते ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,इतरे शब्दाः क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
स्वधर्मम् अपि च आवेक्ष्य गौणः
(त्वम्) विकम्पितुम् न अर्हसि प्रधान:
अन्यत् श्रेय: धर्म्यात् हि युद्धात्
क्षत्रियस्य
न विद्यते प्रधान:
यदृच्छया उपपन्नम् गौणः
स्वर्गद्वारम् (इव) च अपावृतम् गौणः
पार्थ सुखिनः क्षत्रियाः ईदृशम् युद्धम् लभन्ते प्रधान:

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

स्वधर्मम् आवेक्ष्य अपि च (त्वम्) विकम्पितुम् न अर्हसि ।
१ स्वधर्मम् “स्वधर्म” इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • १-१ स्वस्य धर्मः इति स्वधर्मः । षष्ठी-तत्पुरुषः ।
  • १-२ स्वस्य “स्व” (= self) इति सर्वनाम । प्रायः पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १ -३ धर्मः “धर्म” (= code of conduct) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १-४ स्वधर्मः = code of conduct for oneself

२ आवेक्ष्य “आ + अव + ईक्ष्” १ आ (= to consider) इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् “आवेक्ष्य” (= by considering) ।
३ विकम्पितुम् “वि + कम्प्” १ आ (= to shake, to tremble) इति धातुः । तस्मात् हेत्वर्थकं अव्ययम् “विकम्पितुम्” (= to shake, to tremble) ।

४ अर्हसि “अर्-ह्” १ प (= to deserve, to merit) इति धातुः । तस्य लट्-वर्तमानकाले मध्यम-(द्वितीय-)पुरुषे एकवचनम् ।

स्वधर्मम् आवेक्ष्य अपि च (त्वम्) विकम्पितुम् न अर्हसि = Even by considering code of conduct for yourself, it is not proper for you to tremble.

धर्म्यात् हि युद्धात् अन्यत् श्रेय: क्षत्रियस्य न विद्यते ।

५ धर्म्यात् “धर्म” (= code of conduct) इति पुल्लिङ्गि नाम । तस्मात् विध्यर्थवाचकं विशेषणम् “धर्म्य” (= what, one has to abide by, righteous) । अत्र नपुम्सकलिङ्गि । तस्य पञ्चमी विभक्तिः  एकवचनम् च ।

६ युद्धात् “युध्” ४ प (= to fight a battle) इति धातुः । तस्मात् नपुम्सकलिङ्गि नाम “युद्ध” (= war, battle) । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

७ अन्यत् “अन्य” (= another) इति विशेषणम् । अत्र नपुम्सकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

८ श्रेयः “श्रि” १ उ (= to attain) इति धातुः । तस्मात् विशेषणम् प्रायः नपुम्सकलिङ्गि नाम अपि “श्रेयस्” (= preferable) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

९ क्षत्रियस्य “क्षत्रिय” (= of warrior caste) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

१० विद्यते “विद्” २ प (= to be, to know) इति धातुः । तस्य कर्मणिप्रयोगे वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

धर्म्यात् हि युद्धात् अन्यत् श्रेय: क्षत्रियस्य न विद्यते । = Nothing else is known to be more preferable for a person of warrior caste than a righteous war.

पार्थ सुखिनः क्षत्रियाः यदृच्छया उपपन्नं (च) अपावृतम् स्वर्गद्वारम् (इव) च ईदृशम् युद्धम् लभन्ते ।

११ पार्थ “पार्थ” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ११-१ पृथायाः अयम् इति पार्थः ।
  • ११-२ पृथायाः “पृथ्” १० उ (= to cast) इति धातुः । तस्मात् विशेषणात्मकं  स्त्रीलिङ्गि नाम “पृथा” (= one who casts (a spell)) । तस्य षष्ठी विभक्तिः एकवचनम् च ।

१२ सुखिनः “सुख” (= pleasure, happiness) इति नपुम्सकलिङ्गि नाम । तस्मात् विशेषणम् “सुखिन्” (= one who is happy) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
१३ यदृच्छया “यदृच्छा” इति स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।

  • १३-१ यथा ऋच्छा इति यदृच्छा ।
  • १३-२ ऋच्छा “ऋच्छ” ६ प (= to fail in faculties) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “ऋच्छा” (= failure in faculties) ।
  • १३-३ यदृच्छया = प्रायः क्रियाविषेशणात्मकं अव्ययम् = with failure in faculties, not by one’s own will, by accident, by chance

१४ उपपन्नं “उप + पद्” ४, १० आ (= to arise) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “उपपन्न” (= arisen) । अत्र नपुम्सकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१५ अपावृतम् “अप + आ + वृ” १, ५, ९ उ (= to remove cover) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “अपावृत” (= discovered) । अत्र नपुम्सकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१६ स्वर्गद्वारम् “स्वर्गद्वार” इति सामासिकं नाम । अत्र नपुम्सकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • १६-१ स्वर्गस्य द्वारम् इति स्वर्गद्वारम् । षष्ठी-तत्पुरुषः ।
  • १६-२ स्वर्गस्य “स्वर्ग” (= heaven) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १६-३ द्वारम् “द्वार” (= gate) इति नपुम्सकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • १६-४ स्वर्गद्वारम् = gate of heaven

१७ ईदृशम् “ईदृश” (= like this) इति विशेषणम् । अत्र नपुम्सकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१८ लभन्ते “लभ्” (= to get, to benefit from) इति धातुः । तस्य लट्-वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।पार्थ सुखिनः क्षत्रियाः यदृच्छया उपपन्नं अपावृतम् स्वर्गद्वारम् (इव) च ईदृशम् युद्धम् लभन्ते । = Oh son of पृथा, happy persons of warrior caste get such war, which has come by chance and which is as if gates of heaven opened.

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

  1. स्वधर्मम् आवेक्ष्य अपि च (त्वम्) विकम्पितुम् न अर्हसि = Considering your own code of conduct (as is the code for a person of warrior caste), It does not befit you tremble
  2. धर्म्यात् हि युद्धात् अन्यत् श्रेय: क्षत्रियस्य न विद्यते = There is nothing more preferable for a person of warrior caste than a righteous war.
  3. पार्थ सुखिनः क्षत्रियाः यदृच्छया उपपन्नं अपावृतम् स्वर्गद्वारम् (इव) च ईदृशम् युद्धम् लभन्ते =Oh son of पृथा, such war which has come by chance is like gates of heaven opened for which a warrior should be happy.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

स्वधर्ममपि चावेक्ष्य । वर्णाः ८
न विकम्पितुमर्हसि । वर्णाः ८
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् । वर्णाः ८
क्षत्रियस्य न विद्यते ।। वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अधिकं विवरणम् अनावश्यकम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

५-१ चावेक्ष्य can be split either as च अवेक्ष्य or as च आवेक्ष्य. When detailing I thought it good to detail आवेक्ष्य, simply because it includes अवेक्ष्य. Rather, आवेक्ष्य has broader compass than अवेक्ष्य.

५-२ In this अध्याय २ chapter 2,

  • श्रीकृष्णभगवान्  first invites अर्जुन to be true to his intelligence by saying नानुशोचन्ति पण्डिताः intelligent people do not grieve like this.
  • Then श्रीकृष्णभगवान् details the metaphysical aspect that soul is indestructible अविनाशि तु तद्विद्धि
  • Here श्रीकृष्णभगवान् reminds अर्जुन that he is a warrior and that for a warrior a righteous war is like gate of heaven, opened by chance.

५-३ The phrase धर्म्यात् युद्धात् seems to merit some deliberation. When can a war युद्ध be called as धर्म्य a righteous war?

  • The consideration here is of धर्म्य युद्ध and not of धर्मयुद्ध
  • धर्मयुद्ध is often translated in Arabic as जिहाद, which often has the connotation of a fight for a religion. If Muslims would fight for Islam it is जिहाद.
    • जिहाद seems to be often a fight by people devoted to one school of thought against people of another school of thought.
    • Both schools of thought may be right in their own way.
    • If so, conceptually itself जिहाद may not be right or righteous.
    • Often जिहाद seems to emanate from intolerance and seems to provoke adoption of violent means.
    • But people indulging in religious conversions are also indulging in silent जिहाद. Theirs may not be intolerance but it could still be excessive devotion to one’s own school of thought. Anything excessive is bad. It betrays lack of open-mindedness.
    • No good concept of धर्म would ever be thought of being supportive of धर्मयुद्ध or जिहाद.
  • Here धर्म्य युद्ध seems to connote fighting for a righteous cause, when it is challenged by the unrighteous.

५-४ Basically ‘religion’ as English translation of धर्म is an inappropriate translation. धर्म is far broader, far more positive and far more comprehensive a concept. It would embrace all righteous thought. Religions have names. Righteous thoughts do not need a name. They should not have a name. Religions and their names have done much harm to propagation of righteous universal thought. Most righteous universal thought is

सर्वेऽत्र सुखिनः सन्तु सर्वे सन्तु निरामयाः ।

सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ।।

May all be happy, may all be healthy;

May all see the benevolences, may none ever get misery or sorrow !!

शुभमस्तु ।

-o-O-o-

Advertisements