Learning together Sanskrit and GeetA (Chapter 2 : Verse 33)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 33)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: ) पञ्चचत्वारिंशत्तमः (४) सोपानः ।
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ।।२-३३।।
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ।।२-३३।।
अत्र सन्धयः
  1. चेत्त्वमिमम् = चेत् त्वम् इमम्
    • चेत् त्वम् = चेत्त्वम् (व्यञ्जन-संधिः)
    • चेत्त्वम् इमम् = चेत्त्वमिमम् (व्यञ्जन-संधिः)
  2. पापमवाप्स्यसि = पापम् अवाप्स्यसि (व्यञ्जन-संधिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः

  1. अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि ।
  2. ततः स्वधर्मं कीर्तिं च हित्वा
  3. (त्वम्) पापम् अवाप्स्यसि ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,इतरे शब्दाः क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
अथ चेत् त्वम् इमं धर्म्यं संग्रामम् न करिष्यसि गौणः
ततः (त्वम्) स्वधर्मं कीर्तिं च हित्वा गौणः
(त्वम्) पापम् अवाप्स्यसि प्रधान:

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि ।
१ चेत् (= if) इति अव्ययम् ।

२ धर्म्यम्  “धर्म” (= code of conduct) इति पुल्लिङ्गि नाम । तस्मात् विध्यर्थवाचकं विशेषणम् “धर्म्य” (= what, one has to abide by, righteous) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः  एकवचनम् च ।
३ संग्रामम् “संग्राम” (= war) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः  एकवचनम् च ।

४ करिष्यसि “कृ” इति धातुः । तस्य लृट्-भविष्ये मध्यम-(द्वितीय-)पुरुषे एकवचनम् ।

  • ४-१ कृ भ्वादि (१) अनिट् उ । कृञ् करणे । = to act
  • ४-२ कृ स्वादि (५) अनिट् उ । कृञ् हिंसायाम् । = to cause harm
  • ४-३ कृ तन्वादि (८) अनिट् उ । डुकृञ् करणे । = to do, to act

अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि = And if you would not fight this righteous war

ततः स्वधर्मं कीर्तिं च हित्वा

५ ततः (= thereby) इति अव्ययम् ।

६ स्वधर्मम् “स्वधर्म” इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ६-१ स्वस्य धर्मः इति स्वधर्मः । षष्ठी-तत्पुरुषः ।
  • ६-२ स्वस्य “स्व” (= self) इति सर्वनाम । प्रायः पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ६ -३ धर्मः “धर्म” (= code of conduct) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६-४ स्वधर्मः = code of conduct for oneself

७ कीर्तिम् “कीर्ति” (= fame) इति स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

८ हित्वा “हि” स्वादि (५) अनिट् प “हि गतौ वृद्धौ च” (= to lose) इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् “हित्वा” (= by losing) ।

ततः स्वधर्मं कीर्तिं च हित्वा = thereby by losing the conduct befitting oneself and losing fame

(त्वम्) पापम् अवाप्स्यसि

९ पापम् “पाप” (= sin) इति नपुम्सकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१० अवाप्स्यसि “अव + आप्” इति धातुः । तस्य लृट्-भविष्ये द्वितीय-(मध्यम)-पुरुषे एकवचनम् ।

  • १०-१ आप् चुरादि (१०) सेट् उ । आप्-लृ लम्भने । = to attain, to acquire
  • १०-२ आप् स्वादि (५) अनिट् प । आप्-लृ व्याप्तौ । = to be engulfed by

(त्वम्) पापम् अवाप्स्यसि । = You will acquire, you will be engulfed by sin.

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि ततः स्वधर्मं कीर्तिं च हित्वा (त्वम्) पापम् अवाप्स्यसि  = And if you would not fight this righteous war, by loss of conduct fit for you (expected of you) and by losing fame, you will acquire sin.
Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

अथ चेत्त्वमिमं धर्म्यं । वर्णाः ८
संग्रामं न करिष्यसि । वर्णाः ८
ततः स्वधर्मं कीर्तिं च । वर्णाः ८
हित्वा पापमवाप्स्यसि ।। वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अधिकं विवरणम् अनावश्यकम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

५-१ In this chapter clarifications to अर्जुन are proceeding in a flowing sequence

  1. आत्मा is indestructible; deaths are of only the bodies and not to be grieved about
  2. A righteous war is a God-sent opportunity for a क्षत्रिय
  3. (now, in this verse) if he does not fight he will acquire loss of fame and sin.

५-२ Almost all religions seem to speak of sin. But there may not be unanimity on what sufferings are acquired by acquiring sin.

  • One concept that अर्जुन knew about was नरकेऽनियतं वासो भवतीत्यनुशुश्रुम (१-४४) Sin would bring life in netherworld for an indefinite time.
  • It does not appear to be good logic for any religion not to endorse any concept of life after death. You acquire whole lot of sin and die. No life after death. What is there then to worry about sin ?
  • Curiosity also is whether the perception of threat of sufferings in the netherworld serve as a deterrent against sin. Is that the basic thought behind the concept of sin ?
  • Can there be better deterrents against sin ? Are there better deterrents against sin ?

शुभमस्तु ।

-o-O-o-

Advertisements