संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: ३७) सप्तचत्वारिंशत्तमः (४७) सोपानः ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ।।२-३७।।
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ।।२-३७।।
- हतो वा = हत: वा (विसर्ग-संधिः)
- तस्मादुत्तिष्ठ = तस्मात् उत्तिष्ठ (व्यञ्जन-संधिः)
अन्वयाः –
- हत: स्वर्गं प्राप्स्यसि वा ।
- जित्वा महीम् भोक्ष्यसे वा ।
- कौन्तेय तस्मात् युद्धाय कृतनिश्चयः उत्तिष्ठ ।
वाक्यांशानां विश्लेषणानि Analysis of clauses –
वाक्यांश- क्रमाङ्कः |
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् | कर्तृपदम् | कर्मपदम् अथवा पूरकपदम् | अव्ययम्, इतरे शब्दाः |
क्रियापदम् अथवा धातुसाधितम् | वाक्यांशस्य प्रकारः |
१ | हत: | गौणः | ||||
२ | वा | (त्वम्) | स्वर्गम् | प्राप्स्यसि | प्रधान: | |
३ | वा | जित्वा | गौणः | |||
४ | (त्वम्) | महीम् | भोक्ष्यसे | प्रधान: | ||
५ | कौन्तेय , तस्मात् | (त्वम्) | युद्धाय कृतनिश्चयः | उत्तिष्ठ | प्रधान: |
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
Exercise ३ Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
- हत: (त्वम्) स्वर्गं प्राप्स्यसि वा ।
- वा जित्वा (त्वम्) महीम् भोक्ष्यसे ।
- कौन्तेय तस्मात् (त्वम्) युद्धाय कृतनिश्चयः उत्तिष्ठ ।
हत: (त्वम्) स्वर्गं प्राप्स्यसि वा
१ हत: “हन्” इति अदादि (२) अनिट् परस्मैपदी (= हन हिंसायाम् to be harmed, to be killed) धातुः । तस्मात् भूतकालवाचकं विशेषणम् “हत” (= one who has been harmed or killed) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२ (त्वम्) “युष्मद्” (= you, pronoun of second person) इति सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३ स्वर्गम् “स्वर्ग” (= Heaven) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
- ३-१ स्वर् (or स्वस्) + ग
- स्वर् (= heaven) इति अव्ययम् ।
- ग = गच्छति (?)
- ३-२ स्वः + ग
- स्वः = स्वत्वम् ?
- ग = गच्छति (?) यथा भुजाभि: गच्छति इति भुजगः ।
- स्वत्वं गच्छति अत्र इति स्वर्गः (?)
४ प्राप्स्यसि “प्र + आप्” इति धातुः । तस्य लृट्-भविष्ये मध्यमपुरुषे एकवचनम् ।
- ४-१ आप् इति चुरादि (१०) सेट् उभयपदी धातुः । आपु लम्भने (= to get)।
- ४-२ आप् इति स्वादि (५) अनिट् परस्मैपदी धातुः । आपु व्याप्तौ (= to pervade)।
- ४-३ प्र + आप् = to attain
५ वा (= or) इति अव्ययम् ।
- Here in this shloka वा is used twice suggesting the “either or” style of phraseology.
Overall meaning of हत: (त्वम्) स्वर्गं प्राप्स्यसि वा = (if) killed) you will attain heaven, or
वा जित्वा (त्वम्) महीम् भोक्ष्यसे ।
६ जित्वा “जि” इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् जित्वा (= on winning) ।
- ६-१ जि – भ्वादि (१) अनिट् परस्मैपदी धातुः । जि जये (= to win)
- ६-२ जि – भ्वादि (१) अनिट् परस्मैपदी धातुः । जि अभिभवे (= to defeat, to become victorious)
७ महीम् “मही” (= earth, world) इति स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
८ भोक्ष्यसे “भुज्” इति धातुः । तस्य लृट्-भविष्ये मध्यमपुरुषे एकवचनम् ।
- ८-१ भुज् – तुदादि (६) अनिट् परस्मैपदी धातुः । भुजो कौटिल्ये (= to scheme) ।
- ८-२ भुज् – रुधादि (७) अनिट् उभयपदी धातुः । भुज पालनाभ्यवहारयोः (= to tend, to enjoy) ।
- ८-३ अत्र रुधादि आत्मनेपदि धातुरूपम् तद्विधः अर्थः च । Here the declension भोक्ष्यसे is आत्मनेपदि hence corresponding meaning from (८-२ ) becomes appropriate.
Overall meaning of वा जित्वा (त्वम्) महीम् भोक्ष्यसे । = or on winning (you) will enjoy (prowess over) the world.
कौन्तेय तस्मात् (त्वम्) युद्धाय कृतनिश्चयः उत्तिष्ठ ।
९ कौन्तेय इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनं च ।
- ९-१ कुन्तेः अयम् इति कौन्तेयः (= son of Kunti) ।
१० तस्मात् “तत्” (= that) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य पञ्चमी विभक्तिः एकवचनम् च ।
- तस्मात् = from that –> used adverbially meaning therefore
११ युद्धाय “युध्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः । युध संप्रहारे (= to fight a war) । तस्मात् नपुंसकलिङ्गि नाम “युद्ध” (= war, battle) । तस्य चतुर्थी विभक्तिः एकवचनम् च ।
१२ कृतनिश्चयः “कृतनिश्चय” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- १२-१ कृतः निश्चयः येन सः कृतनिश्चयः । बहुव्रीहिः ।
- १२-२ कृतः “कृ” इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “कृत” (= done) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- १२-२-१ कृ भ्वादि (१) अनिट् उ । कृञ् करणे । = to act
- १२-२-२ कृ तन्वादि (८) अनिट् उ । डुकृञ् करणे । = to do, to act
- १२-३ निश्चयः “निः + चि” इति धातुः । तस्मात् पुल्लिङ्गि नाम “निश्चय” (= determination) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- चि – स्वादि (५) अनिट् उभयपदी धातुः । चिञ् चयने (= to select, to opt for) ।
- चि – चुरादि (१०) सेट् उभयपदी धातुः । चिञ् (म्) चयने (= to select, to opt for) ।
- निः + चि = to make a resolve
१३ उत्तिष्ठ “उत् + स्था” (= to get up, to arise) इति भ्वादि (१) अनिट् परस्मैपदी धातुः । तस्य आज्ञार्थे मध्यमपुरुषे एकवचनम् ।
Overall meaning of कौन्तेय तस्मात् (त्वम्) युद्धाय कृतनिश्चयः उत्तिष्ठ । = Hence, oh son of Kunti, (you) arise with the resolve to fight (this) battle
स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –
- हत: (त्वम्) स्वर्गं प्राप्स्यसि वा = Either (if) killed, you will attain heaven,
- वा जित्वा (त्वम्) महीम् भोक्ष्यसे = or on winning (you) will enjoy (prowess over) the world
- कौन्तेय तस्मात् (त्वम्) युद्धाय कृतनिश्चयः उत्तिष्ठ = Hence, oh son of Kunti, (you) arise with the resolve to fight (this) battle
Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we set the verse in four quarters –
जित्वा वा भोक्ष्यसे महीम् । वर्णाः ८
तस्मादुत्तिष्ठ कौन्तेय । वर्णाः ८
युद्धाय कृतनिश्चयः ।। वर्णाः ८
Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।
५-१ In this shloka श्रीकृष्ण-भगवान is proposing an argument (an enticement दामनीतिः) how being in the battle is a winning proposition either way, whether he wins or he is killed.
५-२ In previous shlokas श्रीकृष्ण-भगवान had cautioned अर्जुन of the adverse consequences (दण्डनीतिः) of running away from the battle.
५-३ All arguments challenge अर्जुन’s contentions that it would be better not to fight. The arguments would hence also qualify as भेदनीतिः ।
शुभमस्तु ।
-o-O-o-