Learning together Sanskrit and GeetA (Chapter 2 : Verses 38)

Learning together Sanskrit and GeetA (Chapter 2 : Verses 38)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोक: ३८) अष्टचत्वारिंशत्तमः (४) सोपानः ।
 सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ।।२-३८।।
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
सुखदुःखे समे कृत्वा लाभ-(अ)लाभौ जय-(अ)जयौ ।
तत: युद्धाय युज्यस्व न एवं पापम् अवाप्स्यसि ।।२-३८।।
अत्र सन्धयः
१ लाभालाभौ = लाभ-(अ)लाभौ (स्वर-संधिः)
२  जयाजयौ = जय-(अ)जयौ (स्वर-संधिः)
३ ततो युद्धाय = तत: युद्धाय (विसर्ग-संधिः)
४ नैवं = न एवम् (स्वर-संधिः)
५ पापमवाप्स्यसि = पापम् अवाप्स्यसि (व्यञ्जन-संधिः)
Exercise 2 Paraphrase the clauses

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः

  1. सुखदुःखे लाभालाभौ जयाजयौ समे कृत्वा –
  2. तत: (त्वम्) युद्धाय युज्यस्व ।
  3. एवं (त्वम्) पापम् न अवाप्स्यसि ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययानि,
इतरे शब्दाः
क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
सुखदुःखे लाभालाभौ जयाजयौ समे कृत्वा गौणः
तत: (त्वम्) युद्धाय युज्यस्व प्रधान:
एवम् (त्वम्) पापम् न अवाप्स्यसि प्रधान:

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

Exercise ३ Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words

  1. सुखदुःखे लाभालाभौ जयाजयौ समे कृत्वा –
  2. तत: (त्वम्) युद्धाय युज्यस्व ।
  3. एवं (त्वम्) पापम् न अवाप्स्यसि ।

सुखदुःखे लाभालाभौ जयाजयौ समे कृत्वा

१ सुखदुःखे “सुखदुःख” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
  • १-१ सुखम् च दुःखं च इति द्वे सुखदुःखे । इतरेतर-द्वंद्वः ।
  • १-२ सुखम् “सुख” (= happiness) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा वा द्वितीया विभक्तिः एकवचनम् च ।
  • १-३ दुःखम् “दुःख” (= grief) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा वा द्वितीया विभक्तिः एकवचनम् च ।
  • १-४ सुखदुःखे = happiness and (or) grief

२ लाभालाभौ “लाभालाभ” इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।

  • २-१ लाभः च अलाभः च इति द्वौ लाभालाभौ । इतरेतर-द्वंद्वः ।
  • २-२ न लाभः इति अलाभः । नञ्-तत्पुरुषः ।
  • २-३ लाभः “लभ्” इति भ्वादि (१ = प्रथमगणीयः) अनिट् आत्मनेपदी धातुः । डुलभष् प्राप्तौ (= to gain) । तस्मात् पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २-४ लाभालाभौ = gain or no gain (or loss)

३ जयाजयौ “जयाजय” इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः  द्विवचनम् च ।

  • ३-१ जयः च अजयः च इति द्वौ जयाजयौ । इतरेतर-द्वंद्वः ।
  • ३-२ न जयः इति अजयः । नञ्-तत्पुरुषः ।
  • ३-३ जयः “जि” इति भ्वादि (१ = प्रथमगणीयः) अनिट् परस्मैपदी धातुः । जि जये (= to win) ।
  • ३-४ जयाजय = win or no win (or defeat)

४ समे “सम” (= equal) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः द्विवचनम् च ।

५ कृत्वा “कृ” इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् “कृत्वा” (= on doing) ।

  • ५-१ कृ भ्वादि (१) अनिट् उ । कृञ् करणे । = to act
  • ५-२ कृ तन्वादि (८) अनिट् उ । डुकृञ् करणे । = to do, to act

Overall meaning of सुखदुःखे लाभालाभौ जयाजयौ समे कृत्वा = On doing equal, happiness or grief; gain or no gain, win or no win

तत: (त्वम्) युद्धाय युज्यस्व

६ तत: जित्वा “जि” इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् जित्वा (= on winning) ।

  • ६-१ जि – भ्वादि (१) अनिट् परस्मैपदी धातुः । जि जये (= to win)
  • ६-२ जि – भ्वादि (१) अनिट् परस्मैपदी धातुः । जि अभिभवे (= to defeat, to become victorious)

७ (त्वम्) “युष्मद्” (= pronoun of the second person, thou, you) इति सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

८ युद्धाय “युध्” इति दिवादि (४, चतुर्थगणीयः) अनिट् आत्मनेपदी धातुः । युध संप्रहारे (= ) । तस्मात् नपुंसकलिङ्गि नाम “युद्ध” (= ) । तस्य चतुर्थी विभक्तिः एकवचनम् च ।

९ युज्यस्व “युज्” इति धातुः । तस्य आज्ञार्थे मध्यमपुरुषे एकवचनम् ।

  • ९-१ युज् इति दिवादि (४ = चतुर्थ-गणीय:) अनिट् आत्मनेपदी धातुः । युज समाधौ (= ) ।
  • ९-२ युज् इति रुधादि (७ = सप्तमगणीयः) अनिट् उभयपदी धातुः । युजिर् योगे (= ) ।
  • ९-३ युज् इति चुरादि (१० = दशमगणीयः) सेट् उभयपदी धातुः । युज संयमने (= ) ।
  • ९-४ अत्र आत्मनेपदी चतुर्थ-गणीय: वा सप्तमगणीयः ।

Overall meaning of तत: (त्वम्) युद्धाय युज्यस्व = And then you join this battle.

एवं (त्वम्) पापम् न अवाप्स्यसि

९ एवम् (= thus) इति अव्ययम् ।

१० पापम् “पाप” (= sin) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
११ अवाप्स्यसि “अव + आप्” इति धातुः । तस्य लृट्-भविष्ये मध्यमपुरुषे एकवचनम् ।

  • ११-१ आप् इति चुरादि (१०) सेट् उभयपदी धातुः । आपु लम्भने (= to get)।
  • ११-२ आप् इति स्वादि (५) अनिट् परस्मैपदी धातुः । आपु व्याप्तौ (= to pervade)।
  • ११-३ अव + आप् = to get afflicted

Overall meaning of एवं (त्वम्) पापम् न अवाप्स्यसि = This way, you will not get afflicted by sin.

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

  1. सुखदुःखे लाभालाभौ जयाजयौ समे कृत्वा – On doing equal (in your mind), happiness or grief; gain or no gain (or loss), win or no win (or defeat)
  2. तत: (त्वम्) युद्धाय युज्यस्व = And then you join this battle.
  3. एवं (त्वम्) पापम् न अवाप्स्यसि = This way, you will not get afflicted by sin.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

सुखदुःखे समे कृत्वा । वर्णाः ८
लाभालाभौ जयाजयौ । वर्णाः ८
ततो युद्धाय युज्यस्व ।। वर्णाः ८
नैवं पापमवाप्स्यसि ।। वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अधिकं विवरणम् अनावश्यकम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पण्यः ।

५-१ This श्लोक is one of the most-quoted श्लोक-s from श्रीमद्भगवद्गीता । Here is summarized the essence of the concept of equanimity.

५-२ अर्जुन’s संमोहः is in a way, loss of equanimity.

५-३ In a battle, there will be instances of happiness or grief; there will be gains or losses; there will be wins and defeats. One cannot keep on fighting, if one gets mentally upset every now and then. A warrior needs to keep on fighting enemy by enemy. Mental balance all the time is what is most demanded. And hence the word ततः (= only after that) युद्धाय युज्यस्व enjoin yourself in the battle.
५-४ Our life is also a struggle, a battle. Of course we would like to have every moment to be happy. We do not like losses, defeats. Sorrows, griefs, losses defeats would bring down our activity level. But life is not to be lived that way.

  • Since childhood, my father got us to memorize 12 songs, bhajans, abhanga’s by Saint Tukaram. The opening verse says “जन्माचे ते मूळ । पाहिले शोधून । दुःखासी कारण । जन्म घ्यावा ।। (A research into why we had to be born led to the conclusion that we had to be born to experience sorrows.)  Argument seems to be that if we had done well in the previous birth, we would have been emancipated from the cycle of birth and death. The simple fact that we had to be born is evidence that our soul did not deserve emancipation at the end of previous birth.
  • Mr. Sunderarajan, who follows my blog sent me a book by Hugh Prather. It has the title “Notes on how to live in the world… and still be happy” The words “and still” seem to say the same thing, what Saint Tukaram said 4 centuries ago.

This श्लोक summarizes a very strong, valuable advice. The advice is good. But can we mold our character to imbibe the advice day in and day out, hour in and hour out, from moment to moment ? If we can, that will be the attainment !

शुभमस्तु ।

-o-O-o-

Advertisements