Learning together Sanskrit and GeetA (Chapter 2 : Verse 40)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 40)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः
अध्ययनस्य (अध्याय २ श्लोक: ४०) पञ्चाशत्तमः (५०) सोपानः ।

हरिः ॐ !

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ।।२-४०।।

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

न इह अभिक्रमनाशः अस्ति प्रत्यवायः न विद्यते ।
स्वल्पं अपि अस्य धर्मस्य त्रायते महतः भयात् ।।२-४०।।

अत्र सन्धयः –>

  1. नेहाभिक्रमनाशोऽस्ति = न इह अभिक्रमनाशः अस्ति
    • न इह = नेह (स्वर-संधिः)
    • नेह अभिक्रमनाशः = नेहाभिक्रमनाशः (स्वर-संधिः)
    • नेहाभिक्रमनाशः अस्ति = नेहाभिक्रमनाशोऽस्ति (विसर्ग-संधिः)
  2. प्रत्यवायो न = प्रत्यवायः न (विसर्ग-संधिः)
  3. स्वल्पमप्यस्य = स्वल्पं अपि अस्य
    • स्वल्पं अपि = स्वल्पमपि (व्यञ्जन-संधिः)
    • स्वल्पमपि अस्य = स्वल्पमप्यस्य (स्वर-संधिः)
  4. महतो भयात् = महतः भयात् (विसर्ग-संधिः)
Exercise 2 Paraphrase the clauses

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः

  1. इह अभिक्रमनाशः न अस्ति
  2. प्रत्यवायः न विद्यते
  3. अस्य धर्मस्य स्वल्पं अपि महतः भयात् त्रायते

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम् वा संबोधनम् संबन्ध-सूचकम् अव्ययानि कर्तृपदम् कर्मपदम् अथवा पूरकपदम् इतरे शब्दाः क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः


इह अभिक्रमनाशः
न अस्ति प्रधान:


प्रत्यवायः
न विद्यते प्रधान:
अपि अस्य धर्मस्य स्वल्पम् महतः भयात् त्रायते प्रधान:

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
Exercise ३ Decipher the compound words, and detail grammatical analysis of all words

इह अभिक्रमनाशः न अस्ति

१ इह (= here) इति अव्ययम् ।

२ अभिक्रमनाशः – “अभिक्रमनाश” इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २-१ अभिक्रमस्य नाशः अभिक्रमनाशः (षष्ठी-तत्पुरुषः) ।
  • २-२ अभिक्रमस्य – “अभि + क्रम्” इति भ्वादि (१) सेट् परस्मैपदी धातुः । क्रमु पादविक्षेपे (= to step) । तस्मात् पुल्लिङ्गि नाम “अभिक्रम” (= beginning of a sequence) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
    • The prefix अभि means “to, towards”.
    • क्रम means a course, a consecutive, sequential order.
    • अभिक्रम would thus mean beginning of a sequence, beginning of an undertaking
  • २-३ नाशः – “नश्” इति दिवादि अनिट् परस्मैपदी धातुः । णश अदर्शने (= to be out of sight) । तस्मात् पुल्लिङ्गि नाम “नाश” (= destruction, annihilation, extinction, breakup) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २-४ अभिक्रमनाशः = breakup of an undertaking

३ न (= no, not) इति अव्ययम् ।

४ अस्ति – “अस्” इति अदादि (२) सेट् परस्मैपदी धातुः । अस भुवि (= to be) । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

Overall Meaning of इह अभिक्रमनाशः न अस्ति = Here there is no breakup of an undertaking.

प्रत्यवायः न विद्यते

५ प्रत्यवायः – “प्रति + अव + अय्” इति भ्वादि (१) सेट् उभयपदी धातुः । अय गतौ (= to go) । तस्मात् पुल्लिङ्गि नाम “प्रत्यवाय” (= negative reaction) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • The prefix प्रति means towards, backwards, reactively
  • The prefix अव means down, under. It has a shade of negativity in its meaning. For example अवमान means dishonour, disgrace, which is opposite of मान i.e. honor, respect, grace
  • प्रत्यवाय thus means negative reaction, generation of a fault

६ विद्यते – “विद्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः । विदा सत्तायाम् (= to be, to rule, to be possible) । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

Overall Meaning of प्रत्यवायः न विद्यते = There is no negative reaction. For example, most alopathic medicines are said to have some side-effect or the other. Most herbal medicines are said to be free from side-effects.

अस्य धर्मस्य स्वल्पं अपि महतः भयात् त्रायते 

७ अस्य – “इदम्” (= this) इति सार्वनामिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

८ धर्मस्य – “धर्म” (= righteous conduct) इति पुल्लिङ्गि नाम । तस्य तस्य षष्ठी विभक्तिः एकवचनम् च ।

९ स्वल्पम् “सु + अल्पम् = स्वल्पम्” (= very little) इति विशेषणम् । प्रायः नपुसकलिङ्गि नाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

१० अपि (= also) इति अव्ययम् ।

११ महतः – “महत्” (= big) इति विशेषणम् । अत्र पुल्लिङ्गि वा नपुसकलिङ्गि । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

१२ भयात् – “भी” इति जुहोत्यादि (३) अनिट् परस्मैपदी धातुः । ञ्इ-भी भये (= to fear) । तस्मात् पुल्लिङ्गि वा नपुसकलिङ्गि नाम “भय” (= fear) । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

१३ त्रायते – “त्रै” इति भ्वादि (१) अनिट् आत्मनेपदी धातुः । त्रैङ् पालने (= to tend, to fend, to protect) । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

Overall Meaning of अस्य धर्मस्य स्वल्पं अपि महतः भयात् त्रायते = Very little also of this righteous conduct would protect from great fear.

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

  1. इह अभिक्रमनाशः न अस्ति = Here there is no breakup of an undertaking.
  2. प्रत्यवायः न विद्यते = There is no negative reaction.
  3. अस्य धर्मस्य स्वल्पं अपि महतः भयात् त्रायते = Very little also of this righteous conduct would protect from great fear.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

नेहाभिक्रमनाशोऽस्ति। वर्णाः ८
प्रत्यवायो न विद्यते । वर्णाः ८
स्वल्पमप्यस्य धर्मस्य। वर्णाः ८
त्रायते महतो भयात् ।। वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अधिकं विवरणम् अनावश्यकम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पण्य: ।  

६-१ Import of this श्लोक seems to have been further detailed in श्लोक “न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति (६-४०)”

६-२ इह seems to mean “as per the philosophy of सांख्ययोग, to which reference was made in the previous श्लोक.

६-३ प्रत्यवायः न विद्यते = There is no negative reaction, seems to counter Newton’s Third Law of Motion, “Action and reaction are equal and opposite 🙂

६-४ In saying अस्य धर्मस्य it seems सांख्ययोग has been given the status of a wholesome code of righteous conduct. In fact, as said in note on previous श्लोक, reference to सांख्ययोग is also made in the 18th concluding chapter. It seems that all the advice in गीता is more or less a summary of the philosophy of सांख्ययोग. In this श्लोक, it seems three important and interesting characteristics of the philosophy are underscored

  • It has inherent continuity
  • It has no negative reactions
  • Even a little of it will protect

६-५ ‘Little’ and ‘continuity’ brings to mind the सुभाषितम् – जलबिन्दुनिपातेन क्रमशः पूर्यते घटः

  • ‘No negative reactions’ is in the manner of saying that once the pitcher of credits is on the course of getting filled, there are no drains. The pitcher will keep getting filled

६-६ “Even a little of it will protect” is an assurance, which is further endorsed in अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः (१८-६६) especially the last two words मा शुचः “don’t worry” are so very emphatic !

६-७ Saint तुकाराम (17th century) describes the ‘atomic’ power and yet the vast compass of the परमात्मतत्त्व so very beautifully – तिळा इतुके हें बिंदुले, तेणे त्रिभुवन कोंदाटले ! This droplet is of the size of a sesame seed and yet it engulfs all the three लोक-s !

शुभमस्तु ।
-o-O-o-
Advertisements