Learning together Sanskrit and GeetA (Chapter 2 : Verse 41)

Learning together Sanskrit and GeetA (Chapter 2 : Verse 41)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः
अध्ययनस्य (अध्याय २ श्लोक:) एकपञ्चाशत्तमः (५) सोपानः ।

हरिः ॐ !

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्  ।।२-४१।।
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

व्यवसायात्मिका बुद्धि: एका इह कुरुनन्दन ।
बहुशाखा: हि अनन्ता: च बुद्धयः अव्यवसायिनाम् ।।२-४१।।

अत्र सन्धयः –>

  1. बुद्धिरेकेह = बुद्धि: एका इह
    1. बुद्धि: एका = बुद्धिरेका (विसर्ग-संधिः)
    2. बुद्धिरेका इह = बुद्धिरेकेह (स्वर-संधिः)
  2. बहुशाखा ह्यनन्ताश्च = बहुशाखा: हि अनन्ता: च
    1. बहुशाखा: हि = बहुशाखा हि (विसर्ग-संधिः)
    2. बहुशाखा: हि अनन्ता:= बहुशाखा ह्यनन्ता: (स्वर-संधिः)
    3. बहुशाखा ह्यनन्ता: च = बहुशाखा ह्यनन्ताश्च (विसर्ग-संधिः)
  3. बुद्धयोऽव्यवसायिनाम् = बुद्धयः अव्यवसायिनाम् (विसर्ग-संधिः)
Exercise 2 Paraphrase the clauses

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः

  1. कुरुनन्दन, इह व्यवसायात्मिका बुद्धि: एका (अस्ति)
  2. अव्यवसायिनाम् बुद्धयः हि बहुशाखा: अनन्ता: च (भवन्ति)

वाक्यांशानां विश्लेषणानि  Analysis of clauses

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम् वा संबोधनम् संबन्ध-सूचकम् अव्ययानि कर्तृपदम् कर्मपदम् अथवा पूरकपदम् इतरे शब्दाः क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
कुरुनन्दन
इह व्यवसायात्मिका बुद्धि: एका (अस्ति) प्रधान:

हि अव्यवसायिनाम् बुद्धयः बहुशाखा: अनन्ता: च
(भवन्ति) प्रधान:

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
Exercise ३ Decipher the compound words, and detail grammatical analysis of all words

कुरुनन्दन, इह व्यवसायात्मिका बुद्धि: एका (अस्ति)

१ कुरुनन्दन – “कुरुनन्दन” इति सामासिकं पुल्लिङ्गि नाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनं च ।

  • १-१ कुरूणां नन्दनः इति कुरुनन्दनः (षष्ठी-तत्पुरुषः) ।
  • १-२ कुरूणाम् – “कुरु” इति विशेषनाम तस्य षष्ठी विभक्तिः बहुवचनं च ।
  • १-३ नन्दनः “नन्द्” इति भ्वादि (१) सेट् परस्मैपदी धातुः टुनदि समृद्धौ (= to enrich, to give joy) तस्मात् विशेषणं “नन्दन” (= cause or object of joy) अत्र पुल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च
    • १-३-१ नन्दनम् ति इति नन्दनः (= one, who gives joy, usually son)
  • १-४ कुरुनन्दन = son born in कुरु family

२ इह (= here) इति अव्ययम् ।

३ व्यवसायात्मिका – व्यवसायात्मिक इति सामासिकं विशेषणम् अत्र स्त्रीलिङ्गि “व्यवसायात्मिका” तस्य प्रथमा विभक्तिः एकवचनं च

  • ३-१ व्यवसायः आत्मा यस्य इति व्यवसायात्म ।
  • ३-२ व्यवसायात्मं करोति इति व्यवसायात्मक । विशेषणम् । स्त्रीलिङ्गि “व्यवसायात्मिका” ।
  • ३-३ व्यवसायः – “वि + अव + स + अय्” इति भ्वादि सेट् उभयपदी धातुः । अय गतौ (= ) । तस्मात् पुल्लिङ्गि नाम “व्यवसाय” (= ) । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • ३-३-१ अथवा “वि + अव + स + इ” इति अदादि (२) अनिट् परस्मैपदी धातुः । इण् गतौ (= ) । तस्मात् पुल्लिङ्गि नाम “व्यवसाय” ।
    • ३-३-२ with all the prefixes, meaning of the verb “वि + अव + स + अय्” or “वि + अव + स + इ” would be “to settle down”, “to firm up”, “to resolve”
  • ३-४ आत्मा – “आत्मन्” (= self, fundamental, essence) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-५ व्यवसायात्मिका = one, of which resolve is the essence

४ बुद्धिः – “बुध्” इति धातुः तस्मात् स्त्रीलिङ्गि नाम “बुद्धि” (= intelligence) तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ४-१ “बुध्” इति भ्वादि (१) सेट् उभयपदी धातुः बुधिर् बोधने (= to get advice, to become aware)
  • ४-२ “बुध्” इति भ्वादि सेट् परस्मैपदी धातुः बुध अवगमने (= to understand, to realise, to become knowledgeable)
  • ४-३ “बुध्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः बुध अवगमने (= to understand, to realise, to become knowledgeable)

५ एका – “एक” (= cardinal number one) इति संख्यावाचकं सर्वनाम । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

६ अस्ति – “अस्” इति अदादि (२) सेट् परस्मैपदी धातुः । अस भुवि (= to be) । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

Overall Meaning of कुरुनन्दन, इह व्यवसायात्मिका बुद्धि: एका (अस्ति) = Oh you, born in and joy of the family of कुरु, intellect which has a resolve is one, i. e. intellect which has a resolve is one, which keeps a singular focus.

अव्यवसायिनाम् बुद्धयः हि बहुशाखा: अनन्ता: च (भवन्ति)

७  अव्यवसायिनाम् – “अव्यवसायिन्” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।

  • ७-१ व्यवसायः अस्य अस्ति इति व्यवसायिन्  ।
  • ७-२ न व्यवसायी इति अव्यवसायी नञ्-तत्पुरुषः  ।
  • ७-३ व्यवसायः – as detailed at (३-३)
  • ७-४ अव्यवसायिन् = one who has no resolve or focus, one with wavering mind, an idle person with idle mind

८ बुद्धयः – “बुद्धि” (= intelligence) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
९ बहुशाखा: – “बहुशाखा” इति सामासिकं विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ९-१ बहवः शाखाः यासां ताः बहुशाखाः (बहुव्रीहिः) (बुद्धयः)
  • ९-२ बहवः – “बहु” (= many, varied) इति अनिश्चित-संख्यावाचकं विशेषणम् । अत्र स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • ९.३ शाखाः – “शाखा” (= branch, distraction) इति  स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • ९.४ बहुशाखा = one, which suffers from many distractions

१० अनन्ता: – “अनन्त” इति सामासिकं विशेषणम् । अत्र स्त्रीलिङ्गि “अनन्ता” । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • १०-१ न अन्तः यस्य तत् (बहुव्रीहिः) ।
  • १०-२ अन्तः – “अन्त” (= end) इति पुल्लिङ्गी नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • १०-३ अनन्ताः =endless, infinite

Overall Meaning of अव्यवसायिनाम् बुद्धयः हि बहुशाखा: अनन्ता: च (भवन्ति) = Those who have no resolve or focus or those, who are idle, exhibit intellects which suffer from varied and endless distractions.

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

  1. कुरुनन्दन, इह व्यवसायात्मिका बुद्धि: एका (अस्ति) = Oh you, born in and joy of the family of कुरु, intellect which has a resolve is one, i. e. intellect which has a resolve is one, which keeps a singular focus.
  2. अव्यवसायिनाम् बुद्धयः हि बहुशाखा: अनन्ता: च (भवन्ति) = Those who have no resolve or focus or those, who are idle, exhibit intellects which suffer from varied and endless distractions.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

व्यवसायात्मिका बुद्धि-। वर्णाः ८
रेकेह कुरुनन्दन । वर्णाः ८
बहुशाखा ह्यनन्ताश्च  । वर्णाः ८
बुद्धयोऽव्यवसायिनाम् ।। वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अधिकं विवरणम् अनावश्यकम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पण्य: ।  

६-१ In the three श्लोक-s (this one and previous two) one reads analysis of human intellect बुद्धि: and of righteous conduct धर्म. It will be good to read them together.

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श्रुणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ।।२-३९।।

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ।।२-४०।।

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्  ।।२-४१।।

६-२ As in श्लोक (२-४०) in this श्लोक (२-४१) इह seems to mean “as per the philosophy of सांख्ययोग”, to which reference was made in श्लोक (२-३९).

६-३ “varied and endless distractions” of idle mind brings to mind the idiom “Idle mind, devil’s workshop” ! Idle, yet workshop ? Yes, idle mind may not exactly be an empty mind. Idle mind can very much be active; but its activism would be ‘other’-wise.

६-४ The word “अनन्ताः =endless, infinite” can also have a shade of meaning “aimless”.

६-५ It was very challenging to translate and interpret the phrases व्यवसायात्मिका बुद्धि: and अव्यवसायिनाम् बुद्धयः. The challenge began right from deriving etymologies of व्यवसायात्मिका and अव्यवसायिनाम् starting from the optional verbal roots “वि + अव + स + अय्” इति or अथवा “वि + अव + स + इ” इति धातुः ।

  • The word व्यवसाय is of common usage in most Indian languages, with the meaning “profession” or “occupation”.
  • But here, in the phrases व्यवसायात्मिका बुद्धि: and अव्यवसायिनाम् बुद्धयः it presents a philosophical aspect !

६-६ One may wonder at the appropriateness of these details and discussion of human intellect बुद्धि: in a dialogue on a battlefield. Actually there are many other गीता-s apart from श्रीमद्भगवद्गीता the one being studied here – हंसगीता, उद्धवगीता, भीष्मगीता, गुरुगीता, etc. All these discuss philosophy, as does श्रीमद्भगवद्गीता.  Most popular one is of course श्रीमद्भगवद्गीता.

६-७ Justification of the philosophical discussion is to be understood from the viewpoint that श्रीकृष्णभगवान never wanted अर्जुन to be His blind, obedient follower. So, wherever भगवान कृष्ण thought that some philosophy also should be explained, that has been detailed.

शुभमस्तु ।
-o-O-o-
Advertisements