Learning together Sanskrit and GeetA (Chapter 2 : Verses 42 to 44)

Learning together Sanskrit and GeetA (Chapter 2 : Verses 42 to 44)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः
अध्ययनस्य (अध्याय २ श्लोका: ४२४४ ) द्विपञ्चाशत्तमः (५) सोपानः ।

हरिः ॐ !

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ।।२-४२।।
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् |
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ||२-४३||
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||२-४४||
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

यां इमां पुष्पितां वाचं प्रवदन्ति अविपश्चितः ।
वेदवादरताः पार्थ न अन्यत् अस्ति इति वादिनः ।।२-४२।।
काम-आत्मानः स्वर्गपरा: जन्मकर्मफलप्रदाम् |
क्रियाविशेषबहुलां भोग-ऐश्वर्य-गतिं प्रति ||२-४३||
भोग-ऐश्वर्य-प्रसक्तानां तया अपहृतचेतसाम् |
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||२-४४||

अत्र सन्धयः –>

  1. यामिमां = यां इमां (व्यञ्जन-संधिः)
  2. प्रवदन्त्यविपश्चितः = प्रवदन्ति अविपश्चितः  (स्वर-संधिः)
  3. नान्यदस्तीति = न अन्यत् अस्ति इति
    1. न अन्यत् = नान्यत् (स्वर-संधिः)
    2. नान्यत् अस्ति = नान्यदस्ति (व्यञ्जन-संधिः)
    3. नान्यदस्ति इति = नान्यदस्तीति (स्वर-संधिः)
  4. कामात्मानः = काम-आत्मानः (स्वर-संधिः)
  5. स्वर्गपरा जन्मकर्मफलप्रदाम् = स्वर्गपरा: जन्मकर्मफलप्रदाम् (विसर्ग-संधिः)
  6. भोगैश्वर्य = भोग-ऐश्वर्य (स्वर-संधिः)
  7. तयापहृतचेतसाम् = तया अपहृतचेतसाम् (स्वर-संधिः)
  8. व्यवसायात्मिका = व्यवसाय-आत्मिका (स्वर-संधिः)
Exercise 2 Paraphrase the clauses

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः

  1. पार्थ
    • अविपश्चितः वेदवादरताः
      • न अन्यत् अस्ति इति
    • वादिनः
    • कामात्मानः स्वर्गपरा:
    • यां इमां
      • जन्मकर्मफलप्रदाम्
      • भोग-ऐश्वर्य-गतिं प्रति क्रियाविशेषबहुलां
      • पुष्पितां
वाचं प्रवदन्ति

2. (सा)

      1. भोग-ऐश्वर्य-प्रसक्तानां
      2. तया अपहृतचेतसाम्
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम् वा संबोधनम् संबन्ध-सूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् क्रियाविशेषणानि इतरे शब्दाः वाक्यांशस्य प्रकारः
पार्थ अविपश्चितः वेदवादरताः
अन्यत् न अस्ति गौणः
इति वादिनः
याम् कामात्मानः स्वर्गपरा: इमां जन्मकर्मफलप्रदाम् भोग-ऐश्वर्य-गतिं प्रति क्रियाविशेषबहुलां पुष्पितां वाचं प्रवदन्ति गौणः
(सा)
भोग-ऐश्वर्य-प्रसक्तानां
तया अपहृतचेतसाम्
व्यवसायात्मिका बुद्धिः न विधीयते समाधौ प्रधान:

Note :-

  1. The three श्लोक-s together make one single complex sentence !
  2. There are many participles,such as अविपश्चितः वेदवादरताः which are adjectival and hence are not tabulated under the column for धातुसाधितम्. Nor are they identified in separate sub-clauses. Being adjectival, they are extension(s) of the subject or extension(s) of the object or extension(s) of the predicate.
  3. I have been having in mind that I should make separate columns also for
    • extension(s) of the subject
    • extension(s) of the object
    • extension(s) of the predicate. These are as such covered in the column क्रियाविशेषणानि इतरे शब्दाः
      • In previous posts, this column of क्रियाविशेषणानि इतरे शब्दाः had the title अव्ययानि इतरे शब्दाः But there can always be अव्ययानि such as न which are better read along with the verb क्रियापदम् or are संबन्ध-सूचक. So, क्रियाविशेषणानि इतरे शब्दाः would become more appropriate title for this column.
      • Here we also have the phrase भोग-ऐश्वर्य-प्रसक्तानां, तया अपहृतचेतसाम् . There is a sub-clause-type phrase inbuilt in तया अपहृतचेतसाम्
  4. My father made me practice “Analysis of sentences” extensively. But this complex sentence seems to be quite unique.
  5. A tabulation with more columns for extensions of subject, object, predicate, although more appropriate, will make the table unwieldy.
  6. Some people seem to treat shloka (२-४४) to be an independent sentence, with its अन्वय as –
    भोग-ऐश्वर्य-प्रसक्तानां, तया अपहृतचेतसाम् व्यवसायात्मिका बुद्धिः समाधौ न विधीयते |

    • But the श्लोक-s (२-४२) and (२-४३) with यां इमां वाचं प्रवदन्ति become a sub-ordinate clause गौण वाक्यांश, related with the प्रधानवाक्यांश in (२-४४).
    • I think, the three श्लोक-s together only make one single complex sentence.

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
Exercise ३ Decipher the compound words, and detail grammatical analysis of all words

पार्थ, अविपश्चितः वेदवादरताः

१ पार्थ  – “पार्थ” इति पुल्लिङ्गि नाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनं च ।

  • १-१ पृथायाः अयं इति पार्थः ।
  • १-२ पृथायाः – “पृथा” इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः बहुवचनं च ।
    • पृथा – name of कुन्ती,
    • पृथा – “पृथ्” इति चुरादि (१०) सेट् उभयपदी धातुः | पृथ प्रक्षेपे (पृथ् = to throw, to launch, to expand, to impact, to impress, to overwhelm) | तस्मात् स्त्रीलिङ्गि विशेषनाम “पृथा” (= one, who had an impacting, impressive, overwhelming personality)
      • पृथ्वी (= earth) is also derived from the same पृथ्-धातुः
  • १-३ पार्थ = son of पृथा

२ अविपश्चितः – “अविपश्चित्” इति सामासिकं विशेषणम् | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनं च |

  • २-१ न विपश्चित् इति अविपश्चित् (नञ्-तत्पुरुषः) |
  • २-२ विपश्चित् –
    • २-२-१ विपश् चित् यस्य सः (बहुव्रीहिः) |
    • २-२-२ विपश् – “वि + पश्” इति चुरादि (१०) सेट् उभयपदी धातुः | पश बन्धने (पश् = to bind, to tie) | तस्मात् विशेषणम् विपश् |
      • २-२-२-१ विपश् = विरुद्धं पश् = without binding, free, liberated
      • २-२-२-२ विपश् = विशेषेण पश् = to have special binding or control or regulation
    • २-२-३ चित् – चित् – “चित्” इति स्त्रीलिङ्गि नाम । (चित् = intellect, mind, heart)
    • २-२-४ “चित्” इति धातुः ।
      • २-२-४-१ “चित्” इति भ्वादि (१) सेट् परस्मैपदी धातुः । चिती सञ्ज्ञाने (चित् = to know comprehensively) |
      • २-२-४-२ “चित्” इति चुरादि (१०) सेट् परस्मैपदी धातुः । चित सञ्चेतने (चित् = to excite (often to excite a thought or to excite an idea)
    • २-२-५ विपश्चित् = one, who has mind free from any bondage; Meaning given in Apte’s dictionary is “wise person”
    • २-२-५ विपश्चित् = one, who has special control or regulation over his mind
      • २-२-५-१ It is interesting to note that the first सूत्रम् in योगसूत्राणि is योगः चित्तवृत्तिनिरोधः (= योग means regulation or control over faculties of the mind). By this विपश्चित् = योगी
    • २-२-६ अविपश्चित् =
      • unwise;
      • one, whose mind is bonded (to worldly aspirations);
      • one, who has no control over faculties of mind

३ वेदवादरताः – “वेदवादरत” इति सामासिकं विशेषणम् | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनं च |

  • ३-१ वेदेषु (वेदानां विषये) वादः इति वेदवादः (सप्तमी-तत्पुरुषः) |
  • ३-२ वेदवादे रताः इति वेदवादरताः (सप्तमी-तत्पुरुषः) |
  • ३-३ वेदेषु – “वेद” इति पुल्लिङ्गि विशेषनाम | तस्य सप्तमी विभक्तिः बहुवचनं च |
    • ३-३-१ “विद्” इति धातुः | तस्मात् पुल्लिङ्गी नाम “वेद” |
      • ३-३-१-१ “विद्” इति अदादि (२) सेट् परमैपदी धातुः | विद ज्ञाने (विद् = To know) |
      • ३-३-१-२ “विद्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः | विद सत्तायाम् (विद् = To be, to have existence) |
      • ३-३-१-३ “विद्” इति तुदादि (६) सेट् उभयपदी धातुः | विदु लाभे (विद् = to gain, to acquire) |
      • ३-३-१-४ “विद्” इति चुरादि (१०) सेट् आत्मनेपदी धातुः | विद चेतनाख्याननिवासेषु (विद् = to be the abode of the ‘spirit’ and of spiritual delineation) |
    • ३-३-२ वेद = The Vedas, which dwell upon knowledge, existence, the ‘spirit’
  • ३-४ वादः – “वद्” इति धातुः | तस्य प्रयोजकात् पुल्लिङ्गि नाम “वाद” (= dialogue, conversation, arguing, argument) | तस्य प्रथमा विभक्तिः एकवचनं च |
    • ३-४-१ “वद्” इति भ्वादि (१) सेट् परमैपदी धातुः | वद व्यक्तायां वाचि (वद् = to say) |
    • ३-४-२ “वद्” इति चुरादि (१०) सेट् उभयपदी धातुः | वद संदेशवचने (वद् = to tell) |
  • ३-५ रताः – “रम्” इति भ्वादि (१) अनिट् आत्मनेपदी धातुः | रमु क्रीडायाम् (रम् = to play, to become playfully engrossed) | तस्मात् भूतकालवाचकं धातुसाधितं विशेषणम् “रत” (= engrossed in play, engrossed playfully) | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनं च |
  • ३-६ वेदवादरताः = engrossed in discussing (arguing) about Vedas

अन्यत् न अस्ति इति वादिनः

४ अन्यत् (= another) इति सर्वनाम | अत्र नपुंसकलिङ्गि | तस्य प्रथमा विभक्तिः एकवचनं च |

५ इति (= such, thus) इति अव्ययम् ।

६ वादिनः – “वद्” इति धातुः (as detailed under ३-४, ३-४-१ and ३-४-२) | तस्य प्रयोजकात् पुल्लिङ्गि नाम “वाद” (= dialogue, conversation, arguing, argument) | तस्मात् “वादिन्” इति विशेषणम् | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनं च |

  • ६-१ वादः अस्य अस्ति इति वादिन् | वादः is already detailed under ३-४, ३-४-१ and ३-४-२

कामात्मानः स्वर्गपरा:

७ कामात्मानः – “कामात्मन्” इति सामासिकं विशेषणम् | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनं च |

  • ७-१ कामे आत्मन् यस्य सः कामात्मन् (बहुव्रीहिः) |
  • ७-२ कामे – “कम्” इति भ्वादि (१) सेट् आत्मनेपदी धातुः | कमु कान्तौ (कम् = to love, to desire, to be in love, to be enamored with) | तस्य प्रयोजकात् पुल्लिङ्गि नाम “काम” (= love, desire) | तस्य सप्तमी विभक्तिः एकवचनं च |
  • ७-३ आत्मन् (= soul, essence, character, personality) इति पुल्लिङ्गि नाम |
  • ७-४ कामात्मन् =One, whose character is engrossed in love and desire

८ स्वर्गपरा: – “स्वर्गपर” इति सामासिकं विशेषणम् | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनं च |

  • ८-१ स्वर्गः परः यस्य सः स्वर्गपरः (बहुव्रीहिः) |
  • ८-२ स्वर्गः – “स्वर्ग” (= heaven) इति पुल्लिङ्गि नाम | तस्य प्रथमा विभक्तिः एकवचनं च |
  • ८-३ परः – “पर” (= ultimate (goal), another) इति विशेषणम् | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनं च
    • ८-३-१ अपरं नास्ति तत्परम् | अपरम् = other than this. Hence परम् = nothing other than this = nothing else = only this = ultimate
    • ८-३-२ पर = another = not myself = external to myself = other than myself = external entity
  • ८-४ स्वर्गपरः = one, who regards heaven as the ultimate aim OR one, who regards heaven as an external entity

यां इमां जन्मकर्मफलप्रदाम्

९ याम् – “यत्” (= which) इति सर्वनाम | अत्र स्त्रीलिङ्गि | तस्य द्वितीया विभक्तिः एकवचनं च |

१० इमाम् – “इदम्” (= this) इति सर्वनाम | अत्र स्त्रीलिङ्गि | तस्य द्वितीया विभक्तिः एकवचनं च |

११ जन्मकर्मफलप्रदाम् – “जन्मकर्मफलप्रद” इति सामासिकं विशेषणम् | अत्र स्त्रीलिङ्गि | तस्य द्वितीया विभक्तिः एकवचनं च |

  • ११-१ जन्मस्य अथवा जन्मनः कर्म इति जन्मकर्म (षष्ठी-तत्पुरुषः) |
  • ११-२ जन्मकर्मणः फलं इति जन्मकर्मफलम् (षष्ठी-तत्पुरुषः) |
  • ११-३ जन्मकर्मफलं प्रददाति (अथवा प्रयच्छति) इति जन्मकर्मफलप्रद |
  • ११-४ जन्मस्य अथवा जन्मनः –
    • ११-४-१ जन्मस्य – “जन्म” (= birth)  इति नपुंसकलिङ्गि नाम | तस्य षष्ठी विभक्तिः एकवचनं च |
    • ११-४-२ जन्मनः – “जन्मन्” (= birth) इति नपुंसकलिङ्गि नाम | तस्य षष्ठी विभक्तिः एकवचनं च |
  • ११-५ कर्मणः – “कर्मन्” (= action, work) इति नपुंसकलिङ्गि नाम | तस्य षष्ठी विभक्तिः एकवचनं च |
  • ११-६ फलम् – “फल” (= fruit, result, compensation) इति नपुंसकलिङ्गि नाम | तस्य प्रथमा अथवा द्वितीया (अत्र द्वितीया) विभक्तिः एकवचनं च |
  • ११-७ प्रयच्छति अथवा प्रददाति –
    • ११-७-१ प्रयच्छति – “प्र + दा” इति भ्वादि (१) अनिट् परस्मैपदी धातुः | दाण् दाने (दा = to give) | तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् |
    • ११-७-२ प्रददाति – “प्र + दा” इति जुहोत्यादि (३) अनिट् उभयपदी धातुः | डुदाञ् दाने (दा = to give) | तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् |
  • ११-८ जन्मकर्मफलप्रद = bestowing the fruits of actions done through life

भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुलां

१२ भोगैश्वर्यगतिम् – “भोगैश्वर्यगति” इति सामासिकं  स्त्रीलिङ्गि नाम | तस्य द्वितीया विभक्तिः एकवचनं च |

  • १२-१ भोगः च ऐश्वर्यं च इति भोगैश्वर्यम् (समाहार-द्वंद्वः) |
  • १२-२  भोगैश्वर्यस्य गतिः इति भोगैश्वर्यगतिः (षष्ठी-तत्पुरुषः) |
  • १२-३ भोगः – “भुज्” इति रुदादि (७) अनिट् उभयपदी धातुः | भुज पालनाभ्यवहारयोः (भुज् = to enjoy) | तस्मात् पुल्लिङ्गी गि नाम “भोग” (= enjoyment) | तस्य प्रथमा विभक्तिः एकवचनं च |
  • १२-४ ऐश्वर्यस्य – “ऐश्वर्य” (= ) इति नपुंसकलिङ्गि नाम | तस्य षष्ठी विभक्तिः एकवचनं च |
    • १२-४-१ ईश्वरस्य इदं इति ऐश्वर्यम् |
  • १२-५ गतिम् – “गम्” इति भ्वादि (१) अनिट् परस्मैपदी धातुः | गम्लृ गतौ (गम् = to go) | तस्मात् “गति” (= action of going, movement towards, capability to acquire) इति स्त्रीलिङ्गि नाम | तस्य द्वितीया विभक्तिः एकवचनं च |
  • १२-६ भोगैश्वर्यगतिः = action (focused on) enjoyment and acquiring fame

१३  प्रति (= unto) इति अव्ययम् |

१४ क्रियाविशेषबहुलाम् – “क्रियाविशेषबहुल” इति सामासिकं विशेषणम् | अत्र स्त्रीलिङ्गि “क्रियाविशेषबहुला” | तस्य द्वितीया विभक्तिः एकवचनं च |

  • १४-१ क्रियायाः विशेषः इति क्रियाविशेषः (षष्ठी-तत्पुरुषः) |
  • १४-२ क्रियाविशेषे बहुला इति क्रियाविशेषबहुला (सप्तमी-तत्पुरुषः) |
  • १४-३ क्रियायाः – “कृ” इति भ्वादि (१) अथवा तनादि (८) अनिट् उभयपदी धातुः | (कृञ्) डुकृञ् करणे (कृ = to do, to act, to take action) | तस्मात् स्त्रीलिङ्गि नाम “क्रिया” (= action) | तस्य षष्ठी विभक्तिः एकवचनं च |
  • १४-४ विशेषे – “वि + शिष्” इति धातुः | तस्मात् पुल्लिङ्गि नाम “विशेष” (= special, exclusive) | तस्य सप्तमी विभक्तिः एकवचनं च |
    • १४-४-१ “वि + शिष्” इति रुदादि (७) अनिट् परस्मैपदी धातुः | शिषु विशेषणे (शिष् = to be special) |
    • १४-४-२ “वि + शिष्” इति चुरादि (१०) सेट् उभयपदी धातुः | शिष असर्वोपयोगी (शिष् = to be exclusive, to be not for all, to be uncommon) |
  • १४-५ बहुलाम् – “बहुल” (= multifold) इति विशेषणम् | अत्र स्त्रीलिङ्गि “बहुला” | तस्य द्वितीया विभक्तिः एकवचनं च |
  • १४-६ क्रियाविशेषबहुला = one, which is multifold regarding exclusive, special actions

पुष्पितां वाचम् प्रवदन्ति

१५  पुष्पिताम् – “पुष्प्” इति दिवादि (४) सेट् परस्मैपदी धातुः | पुष्प विकसने (पुष्प् = to develop, to evolve, to blow out, to blossom) | तस्मात् भूतकालवाचकं विशेषणम् “पुष्पित” | अत्र स्त्रीलिङ्गि “पुष्पिता” (= evolved, blossomed) | तस्य द्वितीया विभक्तिः एकवचनं च |

१६ वाचम् – “वच्” इति अदादि (२) अनिट् परस्मैपदी अथवा चुरादि (१०) सेट् उभयपदी धातुः | वच परिभाषणे (वच् = to speak, to say) | तस्मात् स्त्रीलिङ्गि नाम “वाक्” अथवा “वाच्” (= speech) | तस्य द्वितीया विभक्तिः एकवचनं च |

१७ प्रवदन्ति – “प्र + वद्” इति भ्वादि (१) सेट् परस्मैपदी धातुः | वद व्यक्तायां वाचि (वद = to say, to speak) | तस्य लट्-वर्तमाने प्रथमपुरुषे बहुवचनम् |

भोगैश्वर्यप्रसक्तानाम्

१८ भोगैश्वर्यप्रसक्तानाम् – “भोगैश्वर्यप्रसक्त” इति सामासिकं विशेषणम् | अत्र पुल्लिङ्गि | तस्य षष्ठी विभक्तिः बहुवचनम् च |

  • १८-१ भोगः च ऐश्वर्यं च इति भोगैश्वर्यम् (समाहार-द्वंद्वः)
  • १८-२ भोगैश्वर्ये प्रसक्तः इति भोगैश्वर्यप्रसक्त: (सप्तमी-तत्पुरुषः) |
  • १८-३ भोगः already detailed at (१२-३)
  • १८-४ ऐश्वर्ये – “ऐश्वर्य” (= glory, fame) इति नपुंसकलिङ्गि नाम | तस्य सप्तमी विभक्तिः एकवचनं च |
  • १८–५ प्रसक्तः – “प्र + सच् ” इति भ्वादि सेट् धातुः | तस्मात् भूतकालवाचकं विशेषणम् “प्रसक्त” | अत्र पुल्लिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |
    • “सच्” इति भ्वादि (१) सेट् आत्मनेपदी धातुः | षच सेचने सेवने च (सच् = to sprinkle, to enjoy) |
    • “सच्” इति भ्वादि (१) सेट् उभयपदी धातुः | षच समवाये (सच् = to go down together, to be immersed) |
  • १८-६ भोगैश्वर्यप्रसक्त = one, who is engrossed in enjoyment and fame

तया अपहृतचेतसाम्

१९ तया – “तत्” इति सर्वनाम | अत्र स्त्रीलिङ्गि | तस्य तृतीया विभक्तिः एकवचनम् च |

२० अपहृतचेतसाम् – “अपहृतचेतस्” इति सामासिकं विशेषणम् | तस्य षष्ठी विभक्तिः बहुवचनम् च |

  • २०-१ अपहृतम् चेतस् यस्य सः अपहृतचेतस् (बहुव्रीहिः) |
  • २०-२ अपहृतम् – “अप + हृ” इति धातुः | तस्मात् भूतकालवाचकं विशेषणम् “अपहृत” (= carried away, distracted) | अत्र नपुंसकलिङ्गि | तस्य प्रथमा विभक्तिः एकवचनम् च |
    • २०-२-१ “अप + हृ” इति भ्वादि (१) अनिट् उभयपदी धातुः | हृञ् हरणे (हृ = to carry away) |
    • २०-२-२ “अप + हृ” इति जुहोत्यादि (३) अनिट् परस्मैपदी धातुः | हृषु प्रसह्यकरणे (हृ = to make bearable, to attract) |
  • २०-३ चेतस् (= ) इति नपुंसकलिङ्गि नाम | तस्य प्रथमा विभक्तिः एकवचनम् च |
  • २०-४ अपहृतचेतस् = one, whose mind has been distracted

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते

२१  व्यवसायात्मिका – व्यवसायात्मिक इति सामासिकं विशेषणम् अत्र स्त्रीलिङ्गि “व्यवसायात्मिका” तस्य प्रथमा विभक्तिः एकवचनं च

  • २१-१ व्यवसायः आत्मा यस्य इति व्यवसायात्म ।
  • २१-२ व्यवसायात्मं करोति इति व्यवसायात्मक । विशेषणम् । स्त्रीलिङ्गि “व्यवसायात्मिका” ।
  • २१-३ व्यवसायः – “वि + अव + स + अय्” इति भ्वादि सेट् उभयपदी धातुः । अय गतौ (= to go to) । तस्मात् पुल्लिङ्गि नाम “व्यवसाय” (= occupation, resolve) । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • २१-३-१ अथवा “वि + अव + स + इ” इति अदादि (२) अनिट् परस्मैपदी धातुः । इण् गतौ (= to go to) । तस्मात् पुल्लिङ्गि नाम “व्यवसाय” ।
    • २१-३-२ with all the prefixes, meaning of the verb “वि + अव + स + अय्” or “वि + अव + स + इ” would be “to settle down”, “to firm up”, “to resolve”
  • २१-४ आत्मा – “आत्मन्” (= self, fundamental, essence) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • २१-५ व्यवसायात्मिका = one, of which resolve is the essence

२२ बुद्धिः – “बुध्” इति धातुः तस्मात् स्त्रीलिङ्गि नाम “बुद्धि” (= intelligence, intellect) तस्य प्रथमा विभक्तिः एकवचनं च ।

  • २२-१ “बुध्” इति भ्वादि (१) सेट् उभयपदी धातुः बुधिर् बोधने (= to get advice, to become aware)
  • २२-२ “बुध्” इति भ्वादि सेट् परस्मैपदी धातुः बुध अवगमने (= to understand, to realise, to become knowledgeable)
  • २२-३ “बुध्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः बुध अवगमने (= to understand, to realize, to become knowledgeable)

२३ समाधौ – “सम् + आ + धि” अथवा “सम् + आ + धी” इति धातुः | तस्मात् “समाधि” इति स्त्रीलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनं च ।

  • २३-१ “सम् + आ + धि” इति तुदादि (६) अनिट् परस्मैपदी धातुः | धि धारणे (धि = to hold (a thought, a belief) |
  • २३-२ “सम् + आ + धी” इति दिवादि (४) अनिट् आत्मनेपदी धातुः | धीङ् आधारे (धी = to support, to provide support, to be the basis, to lay the foundation) |

२४ विधीयते – “वि + धि” अथवा “वि + धी” इति धातुः (?) | तस्य कर्मणिप्रयोगे वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

  • २४-१ The detailing of the धातु either as “वि + धि” अथवा “वि + धी” will be similar to the details given under (२३-१) and (२३-२)
  • २४-२ When giving the meaning of the धातु I have been detailing the meaning of the root धातु based on the detail available in पाणिनीय धातुपाठ
  • २४-३ However पाणिनीय धातुपाठ does not detail meanings with उपसर्ग-s. Meanings with उपसर्ग-s will be radically different.  For example, here itself, meanings of समाधि and विधि are totally different. This is best stated in the सुभाषितम् – उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । 
    विहाराहारसंहारप्रहारपरिहारवत् ।।
  • २४-४ Here, व्यवसायात्मिका बुद्धिः समाधौ न विधीयते = such focused intellect does not become recommended practice विधी (or) does not become appropriate for समाधि i.e. for balanced meditative purpose.

स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning –

वाक्यांशा: English Translation
पार्थ Oh, son of पृथा
अविपश्चितः
वेदवादरताः
the unwise, those, whose mind is bonded (to worldly aspirations), those, who have no control over faculties of mind,
those, who are engrossed in discussing (arguing) about Vedas
न अन्यत् अस्ति इति वादिनः those, who argue (contend) that there is nothing else (true)
कामात्मानः
स्वर्गपरा:
those, whose character is engrossed in love and desire,
those, who regard heaven as the ultimate aim OR those, who regard heaven as an external entity
यां इमां
जन्मकर्मफलप्रदाम्
what utterances they speak of
bestowing the fruits of actions done through life
भोग-ऐश्वर्य-गतिं प्रति क्रियाविशेषबहुलां (talk focused on) multifold exclusive, special actions towards enjoyment and acquiring fame
पुष्पितां वाचं प्रवदन्ति (what) evolved, blossomed, verbose talk (they) speak
(सा) भोग-ऐश्वर्य-प्रसक्तानां (that talk) of those engrossed in enjoyment and fame
तया अपहृतचेतसाम् of those with distracted mind and intellect
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते such focused intellect does not become recommended practice विधी (or) does not become appropriate for समाधि i.e. for balanced meditative purpose.

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

यामिमां पुष्पितां वाचं । वर्णाः ८
प्रवदन्त्यविपश्चितः । वर्णाः ८
वेदवादरताः पार्थ । वर्णाः ८
नान्यदस्तीति वादिनः  ।। वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अधिकं विवरणम् अनावश्यकम् ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पण्य: ।  

६-१ In these three श्लोक-s श्रीकृष्णभगवान speaks of another type of human intellect बुद्धि: which also is focused, but is not appropriate for balanced meditative purposes.

६-२ By bringing out the distinction between two types of focused intellects व्यवसायात्मिका बुद्धि: it seems श्रीकृष्णभगवान has preempted likely query from अर्जुन about the other type of intellect, which also would be a focused intellect.

६-३ Interpreting meaning of these श्लोक-s has proved very challenging due to the complexity of the sentence and also due to many compound words, which are phrases in their own merit and meaning. It becomes interesting to see how other authors have interpreted this. I think, I shall compile that comparative study in a परिशिष्टम्, in an Appendix.

६-४ श्लोक-s such as these in this second chapter seem to lay foundation for much more detailed discussions / clarifications in further chapters.

शुभमस्तु ।

-o-O-o-

Advertisements