Learning together Sanskrit and GeetA (Chapter 2 : Verses 4, 5)

Learning together Sanskrit and GeetA (Chapter 2 : Verses 4, 5)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः
अध्ययनस्य (अध्याय २ श्लोकौ ४, ५) अष्टविंशतितमः (२८) सोपानः ।

अर्जुन उवाच –
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ।।२-४।।
गुरूनहत्वा हि महानुभावान् ।
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव ।
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ।।२-५।।

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


अर्जुन: उवाच –
कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हौ अरिसूदन ।।२-४।।
गुरून् अहत्वा हि महानुभावान् ।
श्रेय: भोक्तुं भैक्ष्यम् अपि इह लोके ।
हत्वा अर्थकामान् तु गुरून् इह एव ।
भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ।।२-५।।

अत्र सन्धयः

  1. अर्जुन उवाच = अर्जुन: उवाच (विसर्गसन्धिः)
  2. भीष्ममहम् = भीष्मम् अहं (व्यञ्जनसन्धिः)
  3. पूजार्हावरिसूदन = पूजा-अर्हौ अरिसूदन (स्वरसन्धिः) (स्वरसन्धिः)
  4. गुरूनहत्वा = गुरून् अहत्वा (व्यञ्जनसन्धिः)
  5. भैक्ष्यमपीह = भैक्ष्यम् अपि इह (व्यञ्जनसन्धिः) (स्वरसन्धिः)
  6. हत्वार्थकामांस्तु = हत्वा अर्थकामान् तु (स्वरसन्धिः) (व्यञ्जनसन्धिः)
  7. गुरूनिहैव = गुरून् इह एव (व्यञ्जनसन्धिः) (स्वरसन्धिः)
Exercise 2 Paraphrase the clauses

स्वाध्यायः २ वाक्यांशशः अन्वयान् ददतु

  • २-१ अर्जुन: उवाच ।
  • २-२ मधुसूदन, कथं अहं संख्ये द्रोणं भीष्मम् च इषुभिः प्रतियोत्स्यामि ।
  • २-३ अरिसूदन (एतौ तु) पूजार्हौ (स्तः) ।
  • २-४ भैक्ष्यम् अपि भोक्तुं
    • महानुभावान् गुरून् अहत्वा हि
    • इह लोके श्रेय: (भवति) ।
  • २-५ गुरून् तु इह हत्वा
    • रुधिर-प्रदिग्धान् अर्थकामान् भोगान् एव (अहम्) भुञ्जीय ।

स्वाध्यायः ३

  • अ) वाक्यांशानां विश्लेषणानि समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

“अर्जुन: उवाचइति प्रधान-वाक्यांशः ।

  • १-१ द्विकर्मकं क्रियापदम् “उवाच” ।
  • १-२ कर्तृपदं “अर्जुन:” ।
  • १-३ कर्मपदं “इतरे सर्वे वाक्यांशाः” ।
  • १-४ अर्जुन: “अर्जुन” (= name of third पाण्डव) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १-५ उवाच “वच्” २ प (= to say, to speak, to talk) इति धातुः । तस्य परोक्षभूते प्रथमपुरुषे एकवचनम् ।
  • १-६ अर्जुन: उवाच = Arjuna said

२ “मधुसूदन, कथं अहं संख्ये द्रोणं भीष्मम् च इषुभिः प्रतियोत्स्यामिइति प्रश्नार्थकः प्रधान-वाक्यांशः ।

  • २-१ क्रियापदं “प्रतियोत्स्यामि” ।
  • २-२ कर्तृपदं “अहम्” ।
  • २-३ कर्मपदे “द्रोणं भीष्मम् च” ।
  • २-४ संबोधनपदं “मधुसूदन” ।
  • २-५ मधुसूदन = “मधुसूदन” (= he, who killed the demon, named Madhu) इति सामासिकं पुल्लिङ्गि विशेषनाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च । As detailed at ३-४६ in Post # 21 –>
  • ३-४६-१ मधोः सूदनः इति मधुसूदनः । षष्ठी-तत्पुरुषः ।
  • ३-४६-२ मधोः “मधु” (= sweet) इति विशेषणम् । परन्तु अत्र पुल्लिङ्गि विशेषनाम (= name of a demon) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
    • “मधु” (= sweet) इति विशेषणम् । यदा नपुंसकलिङ्गि तदा षष्ठी विभक्तिः एकवचनम् “मधुनः” इति
  • ३-४६-३ सूदनः “सूद्” १ आ १० उ (= to kill) इति धातुः । तस्मात् विशेषणम् “सूदन” (= one, who kills) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २-६ कथम् (= how) इति अव्ययम् ।
  • २-७ अहम् “अस्मद्” (= pronoun of first person, I, we) इति सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २-८ संख्ये “संख्य” (= war, battle) इति नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • २-९ द्रोणम् “द्रोण” (= Apte’s dictionary gives 10 different meanings) इति पुल्लिङ्गि नाम । अत्र विशेषनाम (= name of preceptor of Kuru princes) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • २-१० भीष्मम् “भीष्म” (= name of great grandfather of the princes) इति पुल्लिङ्गि विशेषनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • २-११ च (= and) इति अव्ययम् ।
  • २-१२ इषुभिः “इषु” (= arrow) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।
  • २-१३ प्रतियोत्स्यामि “प्रति + युध्” ४ आ (= to fight against) इति धातुः । तस्य भविष्यकाले उत्तमपुरुषे एकवचनम् ।
  • २-१४ मधुसूदन, कथं अहं संख्ये द्रोणं भीष्मम् च इषुभिः प्रतियोत्स्यामि = Oh Madhusoodan (killer of demon Madhu), how can I fight in this war with arrows against Drona and Bheeshma ?

३ “अरिसूदन (एतौ तु) पूजार्हौ (स्तः)” इति प्रधान*-वाक्यांशः ।

  • ३-१ अध्याहृतं अकर्मकं क्रियापदं “(स्तः)” ।
  • ३-२ अध्याहृतं कर्तृपदं “एतौ” ।
  • ३-३ पूरकपदं “पूजार्हौ” ।
  • ३-३ संबोधनपदं “अरिसूदन” ।
  • ३-४ अरिसूदन इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।
    • ३-४-१ अरिणां सूदनः अरिसूदनः । षष्ठी-तत्पुरुषः ।
    • ३-४-२ अरिणाम् “अरि” (= enemy) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
    • ३-४-३ सूदनः “सूद्” १ आ १० उ (= to kill) इति धातुः । तस्मात् विशेषणम् “सूदन” (= one, who kills) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ३-४-४ अरिसूदन: = One, who kills enemies
  • ३-५ एतौ “एतत्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः द्विवचनम् च ।
  • ३-६ तु (= however, but) इति अव्ययम् ।
  • ३-७ पूजार्हौ “पूजार्ह” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः द्विवचनम् च ।
    • ३-७-१ पूजायै अर्हः पूजार्हः । चतुर्थी-तत्पुरुषः । अथवा
    • ३-७-२ पूजां अर्हति इति पूजार्हः । ‘अर्ह’-इति उपपदयुतः उपपद-तत्पुरुषः ।
    • ३-७-३ पूजायै “पूज्” १० उ (= to worship) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “पूजा” (= worship) । तस्य चतुर्थी विभक्तिः एकवचनम् च ।
    • ३-७-४ अर्हः “अर्-ह्” १ प (= to merit, to deserve) इति धातुः । तस्मात् विशेषणम् “अर्ह” (= deserving) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ३-७-५ पूजार्हः = one, who deserves worship, one who is worthy of worship
  • ३-८ स्तः “अस्” २ प (= to be) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे द्विवचनम् ।
  • ३-९ अरिसूदन (एतौ तु) पूजार्हौ (स्तः) = Oh Arisoodan (killer of enemies) ! These two are anyway worthy of worship

४ “भैक्ष्यम् अपि भोक्तुम्” इति तुमन्त-क्रियाविशेषणात्मकः गौण-वाक्यांशः

  • ४-१ तुमन्तम् धातुसाधितं “भोक्तुम्” ।
  • ४-२ धातुसाधितस्य कर्मपदं “भैक्ष्यम्” ।
  • ४-३ भैक्ष्यम् “भिक्ष्” १ आ (= to beg) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “भैक्ष्यम्” (= alms, food obtained by begging) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ४-४ अपि (= even, also) इति अव्ययम् ।
  • ४-५ भोक्तुम् “भुज्” ७ उ (= to eat, to consume, to enjoy) इति धातुः । तस्मात् तुमन्तं अव्ययम् “भोक्तुम्” (= for eating)
  • ४-६ भैक्ष्यम् अपि भोक्तुम् = For eating even what is obtained by begging

५ “महानुभावान् गुरून् अहत्वा हि” इति त्वान्त-क्रियाविशेषणात्मकः गौण-वाक्यांशः

  • ५-१ भूतकालवाचकं त्वान्तं नकारात्मकं च धातुसाधितं “अहत्वा” ।
  • ५-२ धातुसाधितस्य कर्मपदं “गुरून्” ।
  • ५-३ पूरकपदं “क्षुद्रम्” ।
  • ५-४ संबोधनपदं “परंतप” ।
  • ५-५ महानुभावान् “महानुभाव” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
    • ५-५-१ अनुकरणीयः भावः अनुभावः । मध्यमपदलोपी समासः ।
    • ५-५-२ महान् अनुभावः यस्य सः महानुभावः । बहुव्रीहिः ।
    • ५-५-३ अनुकरणीयः “अनु + कृ” ८ उ (= to follow, to emulate) इति धातुः । तस्मात् अनीय-प्रत्ययान्तं विध्यर्थवाचकं विशेषणम् “अनुकरणीय” (= what is appropriate to follow) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ५-५-४ भावः “भू” १ प (= to be, to become, to happen, to emerge) इति धातुः । तस्य प्रयोजकात् पुल्लिङ्गि नाम “भाव” (= exposition, expression, nature, way of behaviour, conduct) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ५-५-५ महान् “महत्” (= large, big, adorable, respectable) विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ५-५-६ महानुभावः = one, whose conduct is worth emulating
  • ५-६ गुरून् “गुरु” (= heavy, big) इति विशेषणम् । प्रायः पुल्लिङ्गि नाम (= preceptor) अपि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
  • ५-७ अहत्वा “हन्” २ प (= to kill, to hit) इति धातुः । तस्मात् भूतकालवाचकं त्वान्तं अव्ययम् “हत्वा” । तस्मात् नकारात्मकेन अ-उपसर्गेण अव्ययम् “अहत्वा” (= by not killing) ।
  • ५-८ हि (= only, because) इति अव्ययम् ।
  • ५-९ महानुभावान् गुरून् अहत्वा हि = only by not killing preceptors, whose conduct is worth emulating

६ “इह लोके श्रेय: (भवति)” इति प्रधान-वाक्यांशः ।

  • ६-१ अध्याहृतं क्रियापदं “(भवति)” ।
  • ६-२ कर्तृपदं “श्रेय:” ।
  • ६-३ इह (= here) इति अव्ययम् ।
  • ६-४ लोके “लोक” (= people, populace, world) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • ६-५ श्रेय: “श्रि” १ उ (= to resort to, to become benevolent) इति धातुः । तस्मात् विध्यर्थि विशेषणम् “श्रेयस्” (= benevolent) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६-६ भवति “भू” १ प (= to be, to become) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
  • ६-७ इह लोके श्रेय: (भवति) = In this world it becomes benevolent.

७ “गुरून् तु इह हत्वा” इति त्वान्त-क्रियाविशेषणात्मकः गौण-वाक्यांशः ।

  • ७-१ भूतकालवाचकं त्वान्तं धातुसाधितं “हत्वा” ।
  • ७-२ धातुसाधितस्य कर्मपदं “गुरून्” ।
  • ७-३ गुरून् तु इह हत्वा = However in this world by killing the preceptors

८ “रुधिर-प्रदिग्धान् अर्थकामान् भोगान् एव (अहम्) भुञ्जीय” इति प्रधान-वाक्यांशः ।

  • ८-१ क्रियापदं “भुञ्जीय” ।
  • ८-२ स्वाभाविकं अध्याहृतं कर्तृपदं “अहम्” ।
  • ८-३ कर्मपदं “भोगान्” ।
  • ८-४ रुधिरप्रदिग्धान् “रुधिरप्रदिग्ध” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
    • ८-४-१ रुधिरेण प्रदिग्धः रुधिरप्रदिग्धः । तृतीया-तत्पुरुषः ।
    • ८-४-२ रुधिरेण “रुधिर” (= blood) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
    • ८-४-३ प्रदिग्धः “प्र + दिह्” २ उ (= to anoint, to smear) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “प्रदिग्ध” (= smeared) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ८-४-४ रुधिरप्रदिग्धः = blood-smeared
  • ८-५ अर्थकामान् “अर्थकाम” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
    • ८-५-१ अर्थस्य कामः येन सः अर्थकामः । बहुव्रीहिः ।
    • ८-५-२ अर्थस्य “अर्थ” (= wealth, enjoyment, purpose) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
    • ८-५-३ कामः “काम” (= desire) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ८-५-४ अर्थकामः = desire of enjoyment, greed
  • ८-६ भोगान् “भुज्” ७ उ (= to eat, to consume, to enjoy) इति धातुः । तस्मात् पुल्लिङ्गि नाम “भोग” (= enjoyment, pleasure) । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
  • ८-७ एव (= only) इति अव्ययम् ।
  • ८-८ भुञ्जीय “भुज्” ७ उ (= to eat, to consume, to enjoy) इति धातुः । अत्र आत्मनेपदी । तस्य आज्ञार्थे उत्तमपुरुषे एकवचनम् ।
  • ८-९ रुधिर-प्रदिग्धान् अर्थकामान् भोगान् एव (अहम्) भुञ्जीय = I shall enjoy only blood-smeared enjoyment-focused pleasures.

Overall meaning –

Arjuna said –
Oh Madhusoodan (killer of demon Madhu), how can I fight in this war with arrows against Drona and Bheeshma ?
Oh Arisoodan (killer of enemies) ! These two are anyway worthy of worship
For eating even what is obtained by begging, only by not killing preceptors, whose conduct is worth emulating, in this world it becomes benevolent.
However in this world by killing the preceptors, I shall enjoy only blood-smeared enjoyment-focused pleasures.

Exercise 4 In what meter is this verse composed ?
स्वाध्यायः ४ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we have to set the verse into four quarters –

कथं भीष्ममहं संख्ये । वर्णाः ८
द्रोणं च मधुसूदन । वर्णाः ८
इषुभिः प्रतियोत्स्यामि ।  वर्णाः ८
पूजार्हावरिसूदन । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.
तथापि पञ्चमे श्लोके अन्यः छन्दः ।

गुरूनहत्वा हि महानुभावान् । वर्णाः ११
(१-२-१)-(२-२ १) (१-२-१)-२-२ इति मात्राः ।
ज-त-ज-ग-ग इति गणाः ।
श्रेयो भोक्तुं भैक्ष्यमपीह लोके । वर्णाः ११
(२-२ २)-(२ २-१)-(१-२-१) २-२ इति मात्राः ।
म-त-ज-ग-ग इति गणाः ।
हत्वार्थकामांस्तु गुरूनिहैव । वर्णाः ११
(२-२-१)-(२-२-१) (१-२-१)-२-(२) इति मात्राः ।
त-त-ज-ग-ग इति गणाः ।
भुञ्जीय भोगान् रुधिरप्रदिग्धान् । वर्णाः ११
(२-२-१) (२-२ १)-(१-२-१)-२-२ इति मात्राः ।
त-त-ज-ग-ग इति गणाः ।

ज-त-ज-ग-ग इति गणैः उपेन्द्रवज्रा वृत्तम् तथा त-त-ज-ग-ग इति गणैः इन्द्रवज्रा वृत्तम् ।
द्व्यधिकवृत्तानां समुच्चये उपजाति छन्दः ।

Exercise 5 Comments, Notes, Observations, if any.
स्वाध्यायः ५ टिप्पणयः ।

५-१ I keep experimenting on styles of presentation. This time I have taken analyses of clauses, deciphering of compounds and analysis of words clause by clause. I think this will help better to understand especially second case of object-words कर्मपदानां द्वितीया विभक्तिः ।

५-२ Looking at the sequence in which the words appear in the verses, हत्वार्थकामांस्तु गुरूनिहैव । भुञ्जीय भोगान् रुधिरप्रदिग्धान् the adjective अर्थकामान् matches grammatically well, to be an adjective of गुरून् also. But that would be contradictory to the high reverence in Arjuna’s mind towards द्रोणाचार्य and भीष्मपितामह. For proper interpretation अर्थकामान् has to be adjective of भोगान् only.

५-३ In these verses अर्जुन is explaining the reverence he had towards द्रोणाचार्य and भीष्मपितामह.

५-४ These verses also bring forth the concepts, which were deeply imbibed in his mind. Whatever fruits one may enjoy after killing revered persons would be blood-smeared fruits.

५-५ अर्जुन is certainly deriding any fight or war which is motivated by enjoyment-focused pleasures. He is in turn deriding ‘consumerism’ at large. Unfortunately consumerism has spread so badly all across the society today ! All the scams that are becoming public knowledge every other day are manifestations of greed – (अर्थकामः = desire of enjoyment, greed)

५-६ How wisely it has been said, “There is enough in the world for everyone’s need. But what is there in the world is never enough for one’s greed.” People amass wealth of billions of dollars and they are still hungry for more !

५-७ Why गीता has eternal value is because it brings forth aspects of human nature, in a manner that a student of गीता would automatically cultivate the right discretion.


शुभमस्तु ।

-o-O-o-

Advertisements