Learning together Sanskrit and GeetA (Chapter 2 : Verses 45, 46)

Learning together Sanskrit and GeetA (Chapter 2 : Verses 45, 46)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः
अध्ययनस्य (अध्याय २ श्लोका: ४५४६) त्रिपञ्चाशत्तमः (५३) सोपानः ।

हरिः ॐ !

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।।२-४५।।
यावानर्थ उदपाने सर्वतो संप्लुतोदके |
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||२-४६||
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

त्रैगुण्यविषया: वेदा: निस्त्रैगुण्य: भव अर्जुन ।
निर्द्वन्द्व: नित्यसत्त्वस्थ: निर्योगक्षेम: आत्मवान् ।।२-४५।।
यावान् अर्थ: उदपाने सर्वतः संप्लुतोदके |
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||२-४६||

अत्र सन्धयः –>
  1. त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन
    1. त्रैगुण्यविषया: वेदा = त्रैगुण्यविषया वेदा (विसर्ग-संधिः)
    2. त्रैगुण्यविषया: वेदा: निस्त्रैगुण्य: = त्रैगुण्यविषया वेदा निस्त्रैगुण्य: (विसर्ग-संधिः)
    3. त्रैगुण्यविषया वेदा निस्त्रैगुण्य: भव = त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भव (विसर्ग-संधिः)
    4. त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भव अर्जुन = त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन (स्वर-संधिः)
  2. निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्
    1. निर्द्वन्द्व: नित्यसत्त्वस्थ: = निर्द्वन्द्वो नित्यसत्त्वस्थ: (विसर्ग-संधिः)
    2. निर्द्वन्द्वो नित्यसत्त्वस्थ: निर्योगक्षेम: = निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम: (विसर्ग-संधिः)
    3. निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम: आत्मवान् = निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् (विसर्ग-संधिः)
  3. यावानर्थ उदपाने
    1. यावान् अर्थ: = यावानर्थ: (व्यञ्जन-संधिः)
    2. यावानर्थ: उदपाने = यावानर्थ उदपाने (विसर्ग-संधिः)
  4. सर्वतो संप्लुतोदके
    1. सर्वतः संप्लुतोदके = सर्वतो संप्लुतोदके (विसर्ग-संधिः)
      • संप्लुत-उदके = संप्लुतोदके (स्वर-संधिः)
  5. तावान्सर्वेषु = तावान् सर्वेषु (व्यञ्जन-संधिः)
Exercise 2 Paraphrase the clauses

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः

  1. वेदा: त्रैगुण्यविषया: (भवन्ति) ।
  2. अर्जुन, निस्त्रैगुण्य: निर्द्वन्द्व: नित्यसत्त्वस्थ: निर्योगक्षेम: आत्मवान् भव ।
  3. यावान् सर्वतः संप्लुतोदके उदपाने अर्थ: (भवति)
  4. तावान् सर्वेषु वेदेषु विजानतः ब्राह्मणस्य (अर्थ: भवति)

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम् वा संबोधनम् संबन्ध-सूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् क्रियापदम् अथवा धातुसाधितम् क्रियाविशेषणानि इतरे शब्दाः वाक्यांशस्य प्रकारः
वेदा: त्रैगुण्यविषया: (भवन्ति) प्रधान:
अर्जुन (त्वम्) निस्त्रैगुण्य: निर्द्वन्द्व: नित्यसत्त्वस्थ: निर्योगक्षेम: आत्मवान् भव प्रधान:
यावान् सर्वतः संप्लुतोदके गौणः
३ अ अर्थ: (भवति) उदपाने गौणः
तावान् विजानतः ब्राह्मणस्य गौणः
४ अ (अर्थ:) (भवति) सर्वेषु वेदेषु प्रधान:

Note :-

  1. The phrase संप्लुतोदके in (३) can be considered to be in the nature of सति-सप्तमी
  2. The phrase विजानतः ब्राह्मणस्य can also be considered to be in the nature of सत्-षष्ठी

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
Exercise ३ Decipher the compound words, and detail grammatical analysis of all words

त्रैगुण्यविषया: वेदा:

१ त्रैगुण्यविषया: – “त्रैगुण्यविषय” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।

  • १-१ गुणानां त्रयम् इति त्रैगुण्यम् ।
    • सत्त्व-रजस्-तमस्-इति त्रयः गुणाः । तेषां समाहारः त्रैगुण्यम् ।
  • १-२ त्रैगुण्यं विषयः येषाम् ते त्रैगुण्यविषया: (बहुव्रीहिः) ।
  • १-३ त्रैगुण्यविषया: = having the trinity of character (सत्त्व the noble, राजस् the average, तमस् the lowly, full of darkness) as their subject

२ वेदा:- “वेद” इति पुल्लिङ्गि नाम | तस्य प्रथमा विभक्तिः बहुवचनं च |

  • २-१ “विद्” इति धातुः |
    • २-१-१ “विद्” इति चुरादि (१०) सेट् आत्मनेपदी धातुः । विद चेतनाख्याननिवासेषु (विद् = to enliven, to detail, to dwell upon)
    • २-१-२ “विद्” इति अदादि (२) सेट् परस्मैपदी धातुः । विद ज्ञाने (विद् = to know)
    • २-१-३ “विद्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः । विद सत्तायाम् (विद् = to establish)
    • २-१-४ “विद्” इति तुदादि (६) सेट् उभयपदी धातुः । विदु लाभे (विद् = to gain, to acquire)
    • २-१-५ “विद्” इति रुदादि (२) अनिट् आत्मनेपदी धातुः । विद विचारणे (विद् = to inquire, to think, to deliberate)
  • २-२ वेद (= The scriptures Vedas) इति विद्-धातुतः पुल्लिङ्गि नाम ।
    • २-२-१ वेद = a text, which enlivens, which details, which dwells upon (the fundamentals)
    • २-२-२ वेद = a text, which provides knowledge
    • २-२-३ वेद = a text, which establishes (the true nature of things)
    • २-२-४ वेद = a text,which helps gain (the Supreme)
    • २-२-५ वेद = a text, which motivates inquiry, thinking, deliberation
    • २-२-६ Vedas thus are scriptures which are universal. Malafide biases have spread a wrong, unfounded impression that Vedas are scriptures of Hinduism and only for HIndus. ‘Hinduism’ is itself a word coined to distinguish faiths and practices. To my knowledge no scripture of so-called Hinduism mentions that people following those scriptures should be called as Hindus. Basically the word Hindu does not find any mention in any scripture. The scriptures like Vedas are universal in their spirit and dwell upon fundamental thoughts which are eternally valid. Any inquisitive mind is welcome to dwell upon those thoughts and benefit from them. Vedas will enlighten the inquirer, not make one a Hindu, but make him a person with enlightened, broadened vision.

वेदा: त्रैगुण्यविषया: = Vedas have trinity of character (सत्त्व the noble, राजस the average, तमस् the lowly, full of darkness) as their subject

अर्जुन, निस्त्रैगुण्य: निर्द्वन्द्व: नित्यसत्त्वस्थ: निर्योगक्षेम: आत्मवान् भव ।

३ अर्जुन – “अर्जुन” (= name of third son of Kunti) इति विशेषनाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनं च ।

  • अर्जुन (= pure, blemishless) इति विशेषणमपि ।

४ निस्त्रैगुण्य: – “निस्त्रैगुण्य” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ४-१ निष्कासितं त्रैगुण्यं येन, सः निस्त्रैगुण्यः । = One who has banished (from his mind) all distinctions of character.
  • ४-२ Chapter 14 dwells entirely on this theme. Study of that entire chapter becomes detailed study of this single word.
  • ४-३ This word however is sort of critical of Vedas that they dwell upon the trinity of character. What is advocated by this word is to banish all distinctions of character. In a way, what is advocated by this word is to rise above and beyond the knowledge acquired from study of Vedas.
  • ४-४ Or this can be understood to mean, ‘think of (deliberate upon) the knowledge from the Vedas, to rise above, to go beyond all distinctions of character.

५ निर्द्वन्द्व: – “निर्द्वन्द्व” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ५-१ निष्कासितः द्वन्द्वः येन, सः निर्द्वन्द्वः = One , who has banished (from his mind) all concept of duality.
  • ५-२ द्वन्द्वः – द्वि इति भावः द्वन्द्वः = Concept of duality
  • ५-३ The concept of duality can have the context of any pair, such as happiness and sorrow, male and female, God and devotee. Being निर्द्वन्द्व is rising above and beyond the concept of all duality, no duality even between God and devotee.
  • ५-४ “Stand still and see that I am God”, says a Psalm. This can be interpreted to mean that “stand still” = meditate; “and see that I am God” = rise to a state of realization, when you can say to yourself, ‘I am God’.
  • ५-५ Quotes such as सोऽहमस्मि and अहम् ब्रह्मास्मि are regarded as महावाक्य-s “great quotes”, just for the extreme realization connoted.
  • ५-६ War itself is a situation of duality – ‘us and they’. By advocating ‘be निर्द्वन्द्व’, right there on the battlefield, what is advocated is to fight even the war with no concept of duality, no concept of ‘us and they’. How challenging, even for the intellect of a warrior of the caliber of अर्जुन ! To fight a war with no concept of duality, no concept of ‘us and they’, is to take it as a job to be done, a task to be accomplished, period; no sentiments attached, no sentiments as are implicit in the concept of ‘us and they’.

६ नित्यसत्त्वस्थ: – “नित्यसत्त्वस्थ” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ६-१ नित्यं सत्त्वम् (कर्मधारयः) ।
  • ६-२ नित्यसत्त्वे तिष्ठति इति नित्यसत्त्वस्थः (उपपद-तत्पुरुषः) ।
    • स्थ – ‘तिष्ठति’ इत्यर्थकं उपपदम् = one that stays at, one that stays with
  • ६-२ नित्यम् – “नित्य” (= consistent , eternal, perpetual) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६-३ सत्त्वे – “सत्त्व” इति तद्धितं नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
    • ६-३-१ सत् + त्व = सत्त्व
      • ६-३-१-१ सत् = “अस्” इति धातुः । तस्मात् कर्तरि-वर्तमानकालवाचकं विशेषणम् “सत्” ।
        • “अस्” इति अदादि (२) सेट् परस्मैपदी धातुः । अस भुवि (अस् = to be, to exist) ।
        • “अस्” इति भ्वादि (१) सेट् उभयपदी धातुः । अस गतिदीप्त्यादानेषु (अस् = (गति =) to move about, (दीप्ति =) to shine, (आदान =) to carry) ।
        • सत् =
          • what exists –> what is in evidence –> what is true
          • what moves about –> what is active –> what is alive
          • what shines –> what is not clouded –> what has no darkness, what has no mystery –> what is true, good and benevolent
      • ६-३-१-२ त्व (= अस्य अस्ति इति) गुणवाचकः प्रत्ययः ।
      • ६-३-१-३ सत्त्व = सत् इति गुणः यस्य तत् = what has all those characteristics, which are connoted by सत्.
  • ६-४ नित्यसत्त्वस्थ = One, who stays with consistent, eternal, perpetual सत्त्व.

७ निर्योगक्षेम: – “निर्योगक्षेम” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ७-१ योगेन क्षेमः इति योगक्षेमः (तृतीया-तत्पुरुषः)
  • ७-२ निष्कासितः योगक्षेमः येन, सः निर्योगक्षेम: (नञ्-बहुव्रीहिः) ।
  • ७-३ योगेन – “युज्” इति धातुः । तस्मात् पुंल्लिङ्गि नाम “योग” । तस्य तृतीया विभक्तिः एकवचनम् च ।
    • ७-३-१ “युज्” इति चुरादि (१०) सेट् उभयपदी धातुः । युज संयमने (युज् = to control) ।
    • ७-३-२ “युज्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः । युज समाधौ (युज् = to be equanimous) ।
    • ७-३-३ “युज्” इति रुदादि (७) अनिट् उभयपदी धातुः । युजिर् योगे (युज् = to join) ।
  • ७-४ क्षेमः – “क्षेम” (= wellness) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ७-५ निर्योगक्षेम: = Not desirous of any (personal) happiness from योग

८ आत्मवान् = “आत्मवत्” इति तद्धितं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ८-१ आत्मन् + वत् = आत्मवत् ।
  • ८-२ आत्मन् = soul, essence, fundamental
  • ८-३ वत् – “एवंगुणविशिष्ट” इत्यर्थकः प्रत्ययः = has such special characteristics
  • ८-४ आत्मवान् = focused on the soul, focused on the fundamental

९ भव – “भू” इति भ्वादि परस्मैपदी धातुः । भू सत्तायाम् (भू = to be, to attain) । तस्य लोट्-आज्ञार्थे मध्यमपुरुषे एकवचनम् ।

अर्जुन, निस्त्रैगुण्य: निर्द्वन्द्व: नित्यसत्त्वस्थ: निर्योगक्षेम: आत्मवान् भव = Hey अर्जुन, (strive) to be beyond the trinity of character, devoid of all duality, ever steadfast at the benevolence, beyond happiness for oneself, true to the fundamental soul.

यावान् सर्वतः संप्लुतोदके उदपाने अर्थ: (भवति)
१० यावान् – “यावत्” (= as, similar to) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
११ सर्वतः – (सर्व + तः)

  • ११-१ सर्व (= all) इति सर्वनाम ।
  • ११-२ तः ( = from)इति पञ्चमी-विभक्त्यर्थकः प्रत्ययः
  • ११-३ सर्वतः = from all sides

१२ संप्लुतोदके – “संप्लुतोदक” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • १२-१ संप्लुतं उदकम् इति संप्लुतोदकं (कर्मधारयः) ।
  • १२-२ संप्लुतं – “सम् + प्लु” इति भ्वादि (१) अनिट् आत्मनेपदी धातुः । प्लुङ् गतौ (प्लु = to ply, to go, to flood) । तस्मात् कर्मणि भूतकालवाचकं विशेषणम् “संप्लुत” (= flooded, engulfed) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १२-३ उदकम् – “उदक” (= water) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १२-४ संप्लुतोदके = संप्लुते उदके (सति सप्तमी) = यदा उदकम् संप्लुतं तदा = when waters have flooded

१३ उदपाने – “उदपान” (= pond, well) इति सामासिकं पुंल्लिङ्गि (अथवा नपुंसकलिङ्गि) नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • १३-१ उद्नः पानं इति उदपानं (षष्ठी-तत्पुरुषः) ।
  • १३-२ उद्नः – “उदन्” (= water) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १३-३ पानम् – “पा” इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “पान” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • १३-३-१ “पा” इति भ्वादि (१) अनिट् परस्मैपदी धातुः । पा पाने (पा = to drink) ।
    • १३-३-२ “पा” इति अदादि (२) अनिट् परस्मैपदी धातुः । पा रक्षणे (पा = to protect) ।
  • १३-४ उदपानम् = pond or well, (it stores and in turn protects (keeps) as much amount of water)

१४ अर्थ: – “अर्थ” (= meaning, significance) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

यावान् सर्वतः संप्लुतोदके उदपाने अर्थ: (भवति) = what significance is of pond or well, when water is flooding from all sides

तावान् विजानतः ब्राह्मणस्य सर्वेषु वेदेषु (अर्थ: भवति)
१५ तावान् – “तावत्” (= like that) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१६ सर्वेषु – “सर्व” (= all) इति सार्वनामिकं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
१७ वेदेषु – “वेद” (= the scriptures Vedas) इति पुंल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
१८ विजानतः – “वि + ज्ञा” इति क्र्यादि (९) अनिट् परस्मैपदी धातुः । ज्ञा अवबोधने (= to know, to realize) । तस्मात् कर्तरि वर्तमानकालवाचकं विशेषणम् “विजानन्” (= having special or supreme consciousness। अत्र पुंल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
१९ ब्राह्मणस्य – “ब्राह्मण” इति पुंल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

  • १९-१ ब्राह्मणः – ब्रह्मणः अयम् = descendant of ब्रह्म, follower of ब्रह्म, ordained by ब्रह्म
  • १९-२ ब्रह्मणः – “ब्रह्मन्” (= deity denoting supreme consciousness) इति पुंल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १९-३ विजानतः ब्राह्मणस्य (सत्-षष्ठी) = येन ब्राह्मणेन विशेषेण ज्ञातं (ब्रह्मज्ञानं अवगतं) तस्य = when one has attained supreme consciousness

तावान् विजानतः ब्राह्मणस्य सर्वेषु वेदेषु (अर्थ: भवति) = Like that (only) is the significance in all the Vedas, when one has attained supreme consciousness.
By putting together the meanings of the last two phrases, their together meaning becomes –
What significance is of pond or well, when water is flooding from all sides, like that (only) is the significance in all the Vedas, when one has attained supreme consciousness.

Exercise 4 In what meter is this verse composed ?
स्वाध्यायः ४ – अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

त्रैगुण्यविषया वेदा । वर्णाः ८
निस्त्रैगुण्यो भवार्जुन । वर्णाः ८
निर्द्वन्द्वो नित्यसत्त्वस्थो । वर्णाः ८
निर्योगक्षेम आत्मवान् ।। वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

Exercise 5 Comments, Notes, Observations, if any.

स्वाध्यायः ५ – टिप्पण्य: ।  

५-१ Detailed etymological derivation and explanatory notes have been necessary for almost every other word in these two श्लोक-s. There are so many words with so many shades of meaning, that it would become difficult to write a satisfactory all-encompassing translation, even phrase by phrase.

५-२ The meaning of the second श्लोक certainly is rhetoric. Of course pond or well has no significance when water is flooding all over. Same way, even knowledge of all the Vedas has no significance, to one who has attained ब्रह्मज्ञान, the supreme consciousness.

५-३ The phrase विजानतः ब्राह्मणस्य and especially the word ब्राह्मण therein certainly does not imply the meaning that ब्राह्मण is a person born in a Brahmin family. It speaks of a person who has attained ब्रह्मज्ञान the supreme consciousness. Attainment of ब्रह्मज्ञान is what is implied in the word विजानन्

५-४ गीता is poetry. One comes across many श्लोक-s, where similes are used to explain the concept. Here the concept of overbearing significance of ब्रह्मज्ञान, even in comparison to knowledge of the Vedas is explained by the simile of pond or well and flood. And combined in the simile is also the rhetoric.

५-५ As is mentioned at “४-२ Chapter 14 dwells entirely on the theme of निस्त्रैगुण्य”, श्लोक-s such as these in this second chapter seem to lay foundation for much more detailed discussions / clarifications in further chapters.

शुभमस्तु ।

-o-O-o-

Advertisements