Learning together Sanskrit and GeetA (Chapter 2 : Verses 49 and 50)

Learning together Sanskrit and GeetA (Chapter 2 : Verses 49 and 50)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः 
अध्ययनस्य (अध्याय २ श्लोकौ ४९, ५०) षट्-पञ्चाशत्तमः (५) सोपानः ।

हरिः ॐ !

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ।।२-४।।
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ।।२-५०।।

सन्धि-विच्छेदान् कृत्वा –

दूरेण हि अवरं कर्म बुद्धियोगात् धनंजय ।
बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः ।।२-४
बुद्धियुक्तः जहाति इह उभे सुकृतदुष्कृते ।
तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम् ।।२-५०।।

अन्वयाः 

  1. धनंजय, कर्म बुद्धियोगात् दूरेण अवरम् हि (अस्ति)
    1. (अथवा) कर्म बुद्धियोगात् दूरेण हि अवरम् (अस्ति)
    2. (अथवा) हि कर्म बुद्धियोगात् दूरेण अवरम् (अस्ति) – (गौणः वाक्यांश:)
  2. (त्वम्) बुद्धौ शरणम् अन्विच्छ ।
  3. फलहेतवः कृपणाः (सन्ति) ।
  4. बुद्धियुक्तः इह उभे सुकृतदुष्कृते जहाति ।
  5. तस्मात् (त्वम्) योगाय युज्यस्व ।
  6. योगः कर्मसु कौशलम् (अस्ति) ।

वाक्यांशानां विश्लेषणानि  Analysis of clauses –

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धजसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,
इतरे शब्दाः
क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
धनंजय कर्म अवरं दूरेण हि बुद्धियोगात् (अस्ति) प्रधान:
(त्वम्) शरणम् बुद्धौ अन्विच्छ प्रधान:
फलहेतवः कृपणाः (भवन्ति) प्रधान:
बुद्धियुक्तः उभे सुकृतदुष्कृते इह जहाति प्रधान:
तस्मात् त्वम् योगाय युज्यस्व प्रधान:
योगः कर्मसु कौशलम् (अस्ति) प्रधान:

३ समासानां विग्रहाः शब्दानां व्युत्पत्तयः  विश्लेषणानि च ।

धनंजय, कर्म बुद्धियोगात् दूरेण अवरम् हि (अस्ति)

१ धनंजय – “धनंजय” इति सामासिकं पुंल्लिङ्गि नाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • १-१ धने जयः यस्य सः धनंजयः (बहुव्रीहिः) ।
  • १-२ धने – “धन” (= wealth, glory ) इति नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • १-३ जयः – “जि” इति धातुः । तस्मात् पुंल्लिङ्गि नाम “जय” (= victory) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • १-३-१ “जि” इति भ्वादि (१) अनिट् परस्मैपदी धातुः । जि जये (जि = to win) ।
    • १-३-२ जि अभिभवे (जि = to overpower) ।
  • १-४ धनञ्जय = One, who has won wealth or glory.
    • १-४-१ I think as an epithet of अर्जुन, ‘one who has won glory’ becomes a more appropriate meaning of धनञ्जय.
    • १-४-२ धनञ्जय = ‘one, who has overpowered crave for wealth’ also becomes an appropriate meaning.

२ कर्म   – “कृ” इति तनादि (8) उभयपदी धातुः ।  तस्मात् नपुंसकलिङ्गि नाम “कर्मन्” (= work, job, action, task, function)। तस्य द्वितीया विभक्तिः एकवचनम् च ।

३ बुद्धियोगात् – “बुद्धियोग” इति सामासिकं पुंल्लिङ्गि नाम । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

  • 3-1 बुद्धिः एव योगः (कर्मधारयः) अथवा
  • 3-2 बुद्ध्या योगः (तृतीया-तत्पुरुषः)
  • 3-3 योगः “युज्” इति धातुः । तस्मात् पुंल्लिङ्गि नाम “योग” । तस्य सप्तमी विभक्तिः एकवचनम् च ।
    • ३-३-१ “युज्” इति दिवादि (४) अनिट् आत्मनेपदी धातुः । युज समाधौ (युज् = to meditate) ।
    • ३-३-२ “युज्” इति रुदादि (७) अनिट् उभयपदी धातुः । युजिर् योगे (युज् = to join) ।
    • ३-३-३ “युज्” इति चुरादि (१०) सेट् उभयपदी धातुः । युज संयमने (युज् = to control, to regulate) ।

४ दूरेण – “दूर” (= distant) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य तृतीया विभक्तिः एकवचनम् च ।

  • दूरेण = from afar, in long sight, by far sight

५ अवरम् – “अवर” इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • 5-1 न वरम् इति अवरम् (नञ्-तत्पुरुषः)
  • 5-2 वरम् – “वृ” इति स्वादि (5) उ. धातुः । वृञ् वरणे (वृ = to prefer) । तस्मात् “वर” (= preferable) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • 5-3 अवरम् = not preferable

६ हि – (= because, of course, also, even) इति अव्ययम् ।

(त्वम्) बुद्धौ शरणम् अन्विच्छ

७ बुद्धौ – “बुध्” इति भ्वादि (1-प.) तथा दिवादि (4 आ.) धातुः । बुध अवगमने (बुध् = to understand, to realize, to know) ।  तस्मात् स्त्रीलिङ्गि नाम “बुद्धि” (= intellect) । तस्य सप्तमी विभक्तिः एकवचनं च ।

८ शरणम् – “शृ (ऋ-दीर्घ)” इति क्र्यादि (9-प.) धातुः । शृ (ऋ-दीर्घ) हिंसायाम् (शृ (ऋ-दीर्घ) = to harm) । तस्मात् नपुंसकलिङ्गि नाम “शरण” (= surrender) । तस्य द्वितीया विभक्तिः एकवचनं च ।

९ अन्विच्छ – “अनु + इष्” इति तुदादि (6-प.) धातुः । इष इच्छायाम् (इष् = to desire) । तस्य लोट्-आज्ञार्थे मध्यमपुरुषे एकवचनम् ।

फलहेतवः कृपणाः 

१० फलहेतवः – फलहेतु-इति सामासिकं पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनं च ।

  • 10-1 फलस्य हेतुः (षष्ठी-तत्पुरुषः) । अथवा
    • 10-1-1 फलं एव हेतुः (कर्मधारयः) । अथवा
    • 10-1-2 फलं हेतुः यस्याः सः (बहुव्रीहिः)
  • 10-2 हेतुः – “हि” इति स्वादि (5-प.) धातुः । हि गतौ वृद्धौ च (हि = to reason) । तस्मात् तुन्-प्रत्ययेन पुंल्लिङ्गि नाम “हेतु” (= reason, purpose) । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • 10-3 फल = fruit, fulfillment
  • 10-4 फलहेतवः = having purpose of fulfillment, aspirations for fruit

११ कृपणाः – “कृप्” इति धातुः । तस्मात् विशेषणं “कृपण” (= miserly, mean) । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।

  • 11-1 “कृप्” इति भ्वादि (1-आ.) धातुः । कृपू सामर्थ्ये (कृप् = to be capable)
  • 11-2 “कृप्” इति चुरादि (10-उ.) धातुः । कृप दौर्बल्ये (कृप् = to be weak, mean, miserly) । कृपेश्च (अवकल्कने । मिश्रीकरणे इत्येके । चिन्तने इत्यन्ये)

बुद्धियुक्तः इह उभे सुकृतदुष्कृते जहाति

१२ बुद्धियुक्तः – “बुद्धियुक्त” इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • 12-1 बुद्ध्या युक्तः (तृतीया तत्पुरुषः) ।
  • 12-2 युक्तः – “युज्” इति धातुः । तस्मात् क्त-प्रत्ययेन विशेषणं “युक्त” (= appropriated with) । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • See details under 3-3

१३ इह – (= here) इति अव्ययम्
१४ उभे – “उभ” (= both, two together) इति सार्वनामिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
१५ सुकृतदुष्कृते – “सुकृतदुष्कृत” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।

  • 15-1 सुकृतं च दुष्कृतं च (इतरेतर-द्वंद्वः) ।
  • 15-2 सुष्ठु कृतं इति सुकृतं ।
  • 15-3 दुःखेन कृतं इति दुष्कृतम् ।
  • 15-4 सुकृतदुष्कृते = both good deeds and bad deeds

१६ जहाति – “हा” इति अदादि (2 – प.) धातुः । ओहाक् त्यागे (हा = to forgo, to forsake) । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

तस्मात् (त्वम्) योगाय युज्यस्व 
१७ तस्मात् = “तत्” इति सर्वनाम । तस्य पञ्चमी विभक्तिः एकवचनं च । अत्र अव्ययात्मकः उपयोगः । तस्मात् = (from that), hence, therefore
१८ योगाय – See 3-3. Here चतुर्थी विभक्तिः एकवचनम् ।
१९ युज्यस्व – “युज्” इति धातुः । तस्य आज्ञार्थे मध्यमपुरुषे एकवचनम् ।

योगः कर्मसु कौशलम् 
२० योगः – See 3-3
२१ कर्मसु – See (2). Here सप्तमी विभक्तिः बहुवचनम् च ।
२२ कौशलम् – “कुश्” इति दिवादि (4-प.) धातुः । कुश संश्लेषणे (कुश् = to adhere to) । तस्मात् “कौशल” (= adherence, skill) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

४ वाक्यांशशः अनुवादाः Translations –

  1. धनंजय, कर्म बुद्धियोगात् दूरेण अवरम् हि (अस्ति)  = Hey धनंजय, in far sight, being involved in work is inferior only, to intellectual involvement.
    1. (अथवा) कर्म बुद्धियोगात् दूरेण हि अवरम् (अस्ति) = (OR) being involved in work is inferior to intellectual involvement only from a distant view.
    2. (अथवा) हि कर्म बुद्धियोगात् दूरेण अवरम् (अस्ति) – (गौणः वाक्यांश:) = (OR) Because involved in work is inferior only, to intellectual involvement, ….
  2. (त्वम्) बुद्धौ शरणम् अन्विच्छ = think of being in surrender to intellect.
  3. फलहेतवः कृपणाः (सन्ति) = Aspirations of fruits are mean (aims) OR having aspirations of fruits is mean.
  4. बुद्धियुक्तः इह उभे सुकृतदुष्कृते जहाति = One with intellect forgoes both good deeds and bad deeds OR one with intellect does not consider whether work on hand is good or bad.
  5. तस्मात् (त्वम्) योगाय युज्यस्व = Hence, enjoin yourself in योग.
  6. योगः कर्मसु कौशलम् (अस्ति) = योग is doing work to the best of one’s ability OR योग is nothing but adherence to work, not shying away from it.

५ Meter of these verses वृत्तम् (छन्दः वा)
To decipher the meter we set the verse in four quarters –

दूरेण ह्यवरं कर्म । वर्णाः ८
बुद्धियोगाद्धनंजय । वर्णाः ८
बुद्धौ शरणमन्विच्छ । वर्णाः ८
कृपणाः फलहेतवः । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

Section 5 Comments, Notes, Observations, if any.

स्वाध्यायः ५ – टिप्पण्य: ।  

५-१ As mentioned previously योग certainly has many shades of meaning and many definitions. Earlier we come across one definition समत्वं योग उच्यते. Here is the second definition योगः कर्मसु कौशलम्.

  • Commonly known meaning of कौशलम् is skill, i.e. doing work to the best of one’s ability.
  • Etymology of कौशलम्, from धातु ‘कुश्’ gives meaning of कौशलम् also as ‘adherence’, adherence to work, not shying away from it. This meaning seems more appropriate in the context that Arjuna was not wanting to fight, was inclined to shy away from fighting the battle. His कौशलम्, once he undertakes, was never in question. The problem was primarily with his not being inclined, not adhering
  • I am happy that exploring meanings by going into the etymology brings forth such charming shades of meaning.

५-२ Only impromptu I chose to study these two श्लोक-s together. Happily in ज्ञानेश्वरी also these two श्लोक-s are together.

५-३ There are words here- बुद्धियोगात्, बुद्धियुक्तः, योगाय, युज्यस्व finally leading to another definition of योग. But considering that the verb युज् itself has so many inflections as detailed under 3-3, it becomes interesting to understand the meaning with all aspects of the verb युज्.

  • 5-3-1 This becomes furthermore interesting, considering that many syntactical options are possible for phrases/clauses. Every other option is marked by OR.
    • Phrase/clause (1), has 3 options
    • Phrase/clause (3) has 2 options and
    • Phrase/clause (6) has 2 options
  • 5-3-2 Paraphrasing all these options would develop mathematically, into 12 different paraphrasing outputs.
  • 5-3-3 It is said that when Ganesh agreed to be the stenographer to take down narration of महाभारतम् by व्यासमुनि, Ganesh put forth a condition that at no point his pen should be made to wait. व्यासमुनि also put a counter condition that Ganesh would not just go on taking down. He must get the full meaning of what is being taken down. And during narration व्यासमुनि composed many verses where Ganesha also had to ponder. That got time for व्यासमुनि to be ready with further narration. 12 different mathematically possible paraphrasing outputs here would have given व्यासमुनि enough lot of time in this instance !
शुभमस्तु ।
-o-O-o-
 
Advertisements