Learning together Sanskrit and GeetA (Chapter 2 : Verses 6 to 8 )

Learning together Sanskrit and GeetA (Chapter 2 : Verses 6 to 8 )
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोकाः ६ तः ८) नवविंशतितमः (२९) सोपानः ।


न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस् –
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ।।२-६।।
कार्पण्यदोषोपहतस्वभावः  ।
पृच्छामि त्वाम् धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे ।
शिष्यस्तेऽहं शाधि मां त्वाम् प्रपन्नम् ।।२-७।।
न हि प्रपश्यामि ममापनुद्याद् –
यच्छोकमुच्छोषणमिन्द्रियाणाम्
अवाप्य भूमावसपत्नमृद्धं
राज्यम् सुराणामपि चाधिपत्यम् ।।२-८।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


न च एतत् विद्मः कतरत् न: गरीय:
यत् वा जयेम यदि वा न: जयेयुः ।
यान् एव  हत्वा न जिजीविषाम:
ते अवस्थिताः प्रमुखे धार्तराष्ट्राः ।।२-६।।
कार्पण्य-दोष-उपहत-स्वभावः  ।
पृच्छामि त्वाम् धर्म-संमूढ-चेताः ।
यत् श्रेयः स्यात् निश्चितं ब्रूहि तत् मे ।
शिष्य: ते अहं शाधि मां त्वाम् प्रपन्नम् ।।२-७।।
न हि प्रपश्यामि मम अपनुद्यात्
यत् शोकम् उत्-शोषणम् इन्द्रियाणाम्
अवाप्य भूमौ  अ-सपत्नम् ऋद्धं
राज्यम् सुराणाम् अपि च आधिपत्यम् ।।२-८।।

अत्र सन्धयः

  1. चैतद्विद्मः = च एतत् विद्मः (स्वरसन्धिः) (व्यञ्जनसन्धिः)
  2. कतरन्नो गरीयो यद्वा = कतरत् न: गरीय: यत् वा (व्यञ्जनसन्धिः) (विसर्गसन्धिः) (विसर्गसन्धिः) (व्यञ्जनसन्धिः)
  3. नो जयेयुः = न: जयेयुः (विसर्गसन्धिः) (स्वरसन्धिः)
  4. यानेव = यान् एव (व्यञ्जनसन्धिः)
  5. जिजीविषामस्तेऽवस्थिताः = जिजीविषाम: ते अवस्थिताः (विसर्गसन्धिः) (स्वरसन्धिः)
  6. कार्पण्यदोषोपहतस्वभावः = कार्पण्य-दोष-उपहत-स्वभावः (स्वरसन्धिः)
  7. यच्छ्रेयः = यत् श्रेयः (व्यञ्जनसन्धिः)
  8. स्यान्निश्चितम् =  स्यात् निश्चितम् (व्यञ्जनसन्धिः)
  9. तन्मे = तत् मे (व्यञ्जनसन्धिः)
  10. शिष्यस्तेऽहम् = शिष्य: ते अहम् (विसर्गसन्धिः) (स्वरसन्धिः)
  11. ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणामवाप्य =
    • मम अपनुद्यात् = ममापनुद्यात् (स्वरसन्धिः)
    • ममापनुद्यात् यत् = ममापनुद्याद्यत्  (व्यञ्जनसन्धिः)
    • ममापनुद्याद्यत्  शोकम् = ममापनुद्याद्यच्छोकम् (व्यञ्जनसन्धिः)
    • ममापनुद्याद्यच्छोकम् उत् = ममापनुद्याद्यच्छोकमुत् (व्यञ्जनसन्धिः)
    • ममापनुद्याद्यच्छोकमुत्  शोषणम् = ममापनुद्याद्यच्छोकमुच्छोषणम् (व्यञ्जनसन्धिः)
    • ममापनुद्याद्यच्छोकमुच्छोषणम्  इन्द्रियाणाम् = ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् (व्यञ्जनसन्धिः)
    • ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्  अवाप्य = ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणामवाप्य (व्यञ्जनसन्धिः)
  12. भूमावसपत्नमृद्धम् = भूमौ अ-सपत्नम् ऋद्धं (स्वरसन्धिः) (व्यञ्जनसन्धिः)
  13. सुराणामपि = सुराणाम् अपि (व्यञ्जनसन्धिः)
  14. चाधिपत्यम् = च आधिपत्यम् (स्वरसन्धिः)
Exercise 2 Paraphrase the clauses

स्वाध्यायः २ वाक्यांशशः अन्वयान् ददतु१  यत् वा (वयम्) जयेम

  • १-१ यदि वा (ते) न: जयेयुः
  • १-२ न: कतरत् गरीय: (भवति)
  • १-३ एतत् च (वयम्) न विद्मः ।

२ यान् हत्वा

  • २-१ (वयम्) न जिजीविषाम:
  • २-२ ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः ।

३ कार्पण्यदोषोपहतस्वभावः धर्मसंमूढचेताः (अहम्) त्वाम् पृच्छामि ।
४ यत् निश्चितं मे श्रेयः स्यात्

  • ४-१ तत् (त्वम्) ब्रूहि ।

५ अहं ते शिष्य: (अस्मि) ।
६ हि भूमौ अ-सपत्नम् ऋद्धं राज्यम् सुराणाम् आधिपत्यम् अवाप्य अपि

  • ६-१ यत् मम शोकम् इन्द्रियाणाम् उत्-शोषणम् च अपनुद्यात्
  • ६-२ (तत्) (अहम्) न प्रपश्यामि ।

७ त्वाम् प्रपन्नम्

  • ७-१ मां (त्वम्) शाधि

स्वाध्यायः ३

  • अ) वाक्यांशानां विश्लेषणानि समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

१  “यद्वा (वयम्) जयेम” इति गौण-वाक्यांशः ।

  • क्रियापदं “जयेम” ।
  • अध्याहृतं कर्तृपदं “वयम्” ।
  • संबन्धसूचक-पदं “यद्वा” ।
  • यद्वा (= whether) इति अव्ययम् ।
  • वयम् “अस्मद्” (= pronoun of first person I, we) इति सर्वनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • जयेम “जि” १ प (= to win, to conquer) इति धातुः । तस्य विध्यर्थे उत्तमपुरुषे बहुवचनम् ।
  • यद्वा (वयम्) जयेम = whether we should win

१-१ “यदि वा (ते) न: जयेयुः” इति गौण-वाक्यांशः ।

  • क्रियापदं “जयेयुः” ।
  • अध्याहृतं कर्तृपदं “ते” ।
  • कर्मपदं “नः” ।
  • संबन्धसूचके पदे “यदि वा” ।
  • यदि (= if) इति अव्ययम् ।
  • वा (= or) इति अव्ययम् ।
  • ते “तत्” (= pronoun of third person he, she, it, they, that) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • नः “अस्मद्” (= pronoun of first person I, we) इति सर्वनाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
  • जयेयुः “जि” १ प (= to win, to conquer) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे बहुवचनम् ।
  • यदि वा (ते) न: जयेयुः = or if they should win over us

१-२ “न: कतरत् गरीय: (भवति)” इति गौण-वाक्यांशः ।

  • अध्याहृतं अकर्मकं क्रियापदं “भवति” ।
  • संबन्धसूचकात्मकं कर्तृपदं “कतरत्” ।
  • पूरकपदं “गरीयः” ।
  • नः “अस्मद्” (= pronoun of first person I, we) इति सर्वनाम । तस्य चतुर्थी विभक्तिः बहुवचनम् च ।
  • कतरत् (= who or which of two) इति विशेषणात्मकं सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • गरीयः “गरीयस्” (= heavier, weightier, better) इति तद्धितं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • तद्धितं since गरीयस् is comparative degree of गुरु
  • भवति “भू” १ प (= to be, to become) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
  • न: कतरत् गरीय: (भवति) = which one is better for us.

१-३ “एतत् च (वयम्) न विद्मः” इति प्रधान-वाक्यांशः ।

  • नकारात्मकं क्रियापदं “न विद्मः” ।
  • अध्याहृतं कर्तृपदं “वयम्” ।
  • संबन्धसूचकात्मकं कर्मपदं “एतत्” ।
  • एतत् (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • च (= and) इति अव्ययम् ।
  • न (= no, not) इति अव्ययम् ।
  • विद्मः “विद्” २ प (= to know) इति धातुः । तस्य वर्तमानकाले उत्तमपुरुषे बहुवचनम् ।
  • एतत् च (वयम्) न विद्मः = we do not know this

२ “यान् हत्वा” इति गौण-वाक्यांशः ।

  • भूतकालवाचकं धातुसाधितं “हत्वा” ।
  • धातुसाधितस्य संबन्धसूचकात्मकं कर्मपदं “यान्” ।
  • यान् “यत्” (= who) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
  • हत्वा “हन्” २ प (= to kill) इति धातुः । तस्मात् भूतकालवाचकं त्वान्तं अव्ययम् “हत्वा” (= by killing, on killing) ।
  • यान् हत्वा = by killing whom

२-१ “(वयम्) न जिजीविषाम:” इति गौण-वाक्यांशः ।

  • नकारात्मकं क्रियापदं “न जिजीविषाम:” ।
  • अध्याहृतं कर्तृपदं “वयम्” ।
  • जिजीविषाम: “जीव्” १ प (= to live) इति धातुः । तस्य इच्छार्थे उत्तमपुरुषे बहुवचनम् ।
  • (वयम्) न जिजीविषाम: = we would not desire to live

२-२ “ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः” इति प्रधान-वाक्यांशः ।

  • भूतकालवाचकं धातुसाधितं “अवस्थिताः” ।
  • धातुसाधितस्य कर्तृपदं “धार्तराष्ट्राः” ।
  • संबन्धसूचक-पदं “ते” ।
  • ते “तत्” (= pronoun of third person he, she, it, they, that) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • एव (= only) इति अव्ययम् ।
  • धार्तराष्ट्राः “धार्तराष्ट्र” इति तद्धितं विशेषणम् । प्रायः पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च । As detailed at ३-१८ in Post # 24
    • ३-१८-१ *धृतराष्ट्रस्य अयम् इति धार्तराष्ट्रः ।
    • ३-१८-२ धृतराष्ट्रस्य “धृतराष्ट्र” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
      • ३-१८-२-१ धृतं राष्ट्रं येन सः (= he who reigned the kingdom) = धृतराष्ट्रः । बहुव्रीहिः । अथवा –
      • ३-१८-२-२ धृतः राष्ट्रेण (= he, who was accepted (as King) by the nation)= धृतराष्ट्रः । तृतीया-तत्पुरुषः ।
      • ३-१८-२-३ धृतम् “धृ” १ उ ६ आ १० उ (= to be maintained o preserved) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “धृत” (= maintained or preserved) । अत्र नपुम्सकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
      • ३-१८-२-४ राष्ट्रम् “राष्ट्र” (= nation, kingdom, empire) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
      • ३-१८-२-५ धृतः “धृ” १ उ ६ आ १० उ (= to hold, to bear, to carry, to resolve upon) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “धृत” (= borne, resolved upon) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
      • ३-१८-२-६ राष्ट्रेण “राष्ट्र” (= nation, kingdom, empire) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।
  • प्रमुखे “प्र + मुख” इति तद्धितं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनं च ।
    • सप्तम्या विभक्त्यया क्रियाविशेषणात्मकं अव्ययम् “प्रमुखे” = in the front
  • अवस्थिताः “अव + स्था” १ प. (= to settle down) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “अवस्थित” (= one, who has settled down) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः = those very धार्तराष्ट्रा-s are standing in the front

३ “कार्पण्यदोषोपहतस्वभावः धर्मसंमूढचेताः (अहम्) त्वाम् पृच्छामि” इति प्रधान-वाक्यांशः ।

  • क्रियापदं “पृच्छामि” ।
  • स्वाभाविकं अध्याहृतं कर्तृपदं “अहम्” ।
  • पुरुषवाचकं कर्मपदं “त्वाम्” ।
  • कार्पण्यदोषोपहतस्वभावः “कार्पण्यदोषोपहतस्वभाव” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिःएकवचनम् च ।
    • स्वस्य भावः स्वभावः । षष्ठी-तत्पुरुषः ।
    • कार्पण्यं एव दोषः कार्पण्यदोषः । कर्मधारयः ।
    • कार्पण्यदोषेण उपहतः कार्पण्यदोषोपहत: । तृतीया-तत्पुरुषः ।
    • कार्पण्यदोषोपहत: स्वभावः यस्य सः कार्पण्यदोषोपहतस्वभावः । बहुव्रीहिः ।
    • स्वस्य “स्व” (= self) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिःएकवचनम् च ।
    • भावः “भू” १ प (= to be to become) इति धातुः । तस्मात् पुल्लिङ्गि नाम “भाव” (= expression, sentiment) । तस्य प्रथमा विभक्तिःएकवचनम् च ।
    • कार्पण्यम् “कृपण” (= poor) इति विशेषणम् । तद्धितं भाववाचकं नपुंसकलिङ्गि नाम “कार्पण्य” (= poverty, especially of mind) । तस्य प्रथमा विभक्तिःएकवचनम् च ।
    • दोषः “दुष्” ४ प (= to fault) इति धातुः । तस्मात् पुल्लिङ्गि नाम “दोष” (= fault) । तस्य प्रथमा विभक्तिःएकवचनम् च ।
    • उपहतः “उप + हन्” २ प (= to kill, to hit, to afflict) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “उपहत” (= afflicted) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिःएकवचनम् च ।
    • कार्पण्यदोषोपहतस्वभावः = one whose natural instincts are afflicted by the fault of poverty of mind
  • धर्मसंमूढचेताः “धर्मसंमूढचेतस्” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिःएकवचनम् च ।
    • धर्मे संमूढम् धर्मसंमूढम् । सप्तमी-तत्पुरुषः ।
    • धर्मसंमूढम् चेतः यस्य सः धर्मसंमूढचेताः । बहुव्रीहिः ।
    • धर्मे “धर्म” (= code of conduct) इति पुल्लिङ्गि । तस्य सप्तमी विभक्तिःएकवचनम् च ।
      • “धृ –> धर् + म = धर्म (?)”
      • धृ १ उ, ६ आ, १० उ (= to hold, to bear, to sustain) इति धातुः ।
      • म इति पुल्लिङ्गि तथा नपुंसकलिङ्गि नाम
        • यदा पुल्लिङ्गि नाम म = magical formula
        • यदा नपुंसकलिङ्गि नाम म = happiness, welfare
      • धर्म = formula, which gives welfare, sustenance; code of conduct, guide for action and approach appropriate for welfare and sustenance
    • संमूढम् “सम् + मुह्” ४ प. (= to lose consciousness, to be perplexed) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “संमूढ” (= perplexed, confused) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिःएकवचनम् च ।
    • चेतः “चेतस्” (= mind, intellect) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिःएकवचनम् च ।
    • धर्मसंमूढचेताः = one whose mind and intellect are confused about the appropriate conduct
  • पृच्छामि “पृच्-छ” १ प (= to ask, to inquire about, to seek guidance) इति धातुः । तस्य वर्तमानकाले उत्तमपुरुषे एकवचनम् ।
  • कार्पण्यदोषोपहतस्वभावः धर्मसंमूढचेताः (अहम्) त्वाम् पृच्छामि = I, whose natural instincts and faculties are afflicted by the fault of poverty of mind and whose mind and intellect are confused about the appropriate conduct am asking you.

४ “यत् निश्चितं मे श्रेयः स्यात्” इति विशेषणात्मकः गौण-वाक्यांशः ।

  • अकर्मकं क्रियापदं “स्यात्” ।
  • संबन्धसूचकात्मकं कर्तृपदं “यत्” ।
  • पूरकपदं “श्रेयः” ।
  • निश्चितम्  “निः + चि” ५ उ (= to determine, to resolve, to ascertain) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “निश्चित” (= ascertained, resolved, unambiguous) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा अथवा द्वितीया विभक्तिः एकवचनम् च ।
    • द्वितीया विभक्तिः अव्ययात्मका । अतः निश्चितम् = certainly
  • मे “अस्मद्” (= pronoun of first person I, we) इति सर्वनाम । तस्य चतुर्थी अथवा षष्ठी विभक्तिः एकवचनम् च ।
  • श्रेयः “श्रि” १ उ (= to resort to, to benefit from) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “श्रेयस्” (= beneficial) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिःएकवचनम् च ।
  • स्यात् “अस्” २ प (= to be, to become) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
  • यत् निश्चितं मे श्रेयः स्यात् = what will most certainly be beneficial to me

४-१ तत् (त्वम्) ब्रूहि ।

  • क्रियापदं “ब्रूहि” ।
  • स्वाभाविकं अध्याहृतं कर्तृपदं “त्वम्” ।
  • संबन्धसूचकात्मकं कर्मपदं “तत्” ।
  • ब्रूहि “ब्रू” २ उ (= to tell, to speak) इति धातुः । तस्य आज्ञार्थे मध्यमपुरुषे एकवचनम् ।
  • तत् (त्वम्) ब्रूहि = (you) tell that

५ अहं ते शिष्य: (अस्मि) ।

  • अध्याहृतं अकर्मकं क्रियापदं “अस्मि” ।
  • कर्तृपदं “अहम्” ।
  • पूरकपदं “शिष्यः” ।
  • अहम् “अस्मद्” (= pronoun of first person I, we) इति सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ते “युष्मद्” (= pronoun of second person you) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • शिष्यः “शिष्” ७ प (= to distinguish or to discriminate from others) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “शिष्य” (= one, who is eligible to be treated differently from others) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिःएकवचनम् च ।
    • Most common meaning of शिष्य is disciple. It is implied that a disciple शिष्य is one, whom the गुरु is favorable to treat differently from others
  • अस्मि “अस्” २ प (= to be, to become) इति धातुः । तस्य वर्तमानकाले उत्तमपुरुषे एकवचनम् ।
  • अहं ते शिष्य: (अस्मि) = I am your disciple

६ “हि भूमौ असपत्नम् ऋद्धं राज्यम् सुराणाम् आधिपत्यम् अवाप्य अपि” इति गौण-वाक्यांशः ।

  • भूतकालवाचकं धातुसाधितं “अवाप्य” ।
  • धातुसाधितस्य कर्मपदे “राज्यम् आधिपत्यम्” ।
  • हि (= also, because) इति अव्ययम् ।
  • भूमौ “भूमि” (= land) इति स्त्रीलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • असपत्नम् “असपत्न” इति सामासिकं विशेषणम् । अत्र  नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिःएकवचनम् च ।
    • न सपत्न: यस्मिन् तत् असपत्नम् । नञ्-बहुव्रीहिः ।
    • सपत्नः “सपत्न” इति विशेषणम् । प्रायः पुल्लिङ्गि नाम (= adversary, enemy) अपि । तस्य प्रथमा विभक्तिःएकवचनम् च ।
    • यस्मिन् “यत्” (= who, what, which) इति सर्वनाम । अत्र  नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
    • असपत्नम् = without any enemy or adversary, unchallenged
  • ऋद्धम् “ऋध्” ४, ५ प (= to prosper, to flourish, to have affluence) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “ऋद्ध” (= prosperous) । अत्र  नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिःएकवचनम् च ।
  • राज्यम् “राज्” १ उ (= to shine, to be eminent) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् । प्रायः नपुंसकलिङ्गि नाम “राज्य” (= area under command or reign, kingdom, state) । तस्य द्वितीया विभक्तिःएकवचनम् च ।
  • सुराणाम् “सुर” (= God, deity) इति विशेषणं प्रायः पुल्लिङ्गि नाम अपि । तस्य षष्ठी विभक्तिः बहुवचनं च ।
    • सुराप्रतिग्रहात् देवाः सुराः इति विश्रुताः । Because Gods got सुरा i.e. spirituous liquor, they became known as सुरा:
  • आधिपत्यम् “अधि + पति = अधिपति” (= Lord, master) इति पुल्लिङ्गि नाम । तद्धितं भाववाचकम् नपुंसकलिङ्गि नाम “आधिपत्य”(= Status of अधिपति) । तस्य द्वितीया विभक्तिःएकवचनम् च ।
  • अवाप्य “अव + आप्” ५ प (= to attain) इति धातुः । तस्मात् भूतकालवाचकं ल्यबन्तं अव्ययं “अवाप्य” (= on attaining) ।
  • अपि (= also) इति अव्ययम् ।
  • हि भूमौ असपत्नम् ऋद्धं राज्यम् सुराणाम् आधिपत्यम् अवाप्य अपि =  Even by attaining unchallenged, prosperous reign on the earth (or) kingdom of heavens

६-१ “यत् मम शोकम् इन्द्रियाणाम् उच्छोषणम् च अपनुद्यात्” इति गौण-वाक्यांशः ।

  • क्रियापदं “अपनुद्यात्” ।
  • संबन्धसूचकात्मकं कर्तृपदं “यत्” ।
  • कर्मपदे “शोकम्, उच्छोषणम्” ।
  • मम “अस्मद्” (= pronoun of first person I, we) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • शोकम् “शुच्” १ प (= to grieve) इति धातुः । तस्मात् पुल्लिङ्गि नाम “शोक” (= sadness, melancholy) । तस्य द्वितीया विभक्तिः एकवचनं च ।
  • इन्द्रियाणाम् “इन्द्रिय” (= body-organ) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिःबहुवचनं च ।
  • उच्छोषणम् “उत् + शुष्” ४ प (= to become dry, to become weak) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “उच्छोषण” (= weakness) । तस्य द्वितीया विभक्तिः एकवचनं च ।
  • अपनुद्यात् “अप + नुद्” ६ प (= to drive away) इति धातुः । तस्य आशीर्लिङ्लकारे प्रथमपुरुषे एकवचनम् ।
  • यत् मम शोकम् इन्द्रियाणाम् उच्छोषणम् च अपनुद्यात् = what will drive away my melancholy and weakness of my body

६-२ (तत्) (अहम्) न प्रपश्यामि ।

  • नकारात्मकं क्रियापदं “न प्रपश्यामि” ।
  • स्वाभाविकं अध्याहृतं कर्तृपदं “अहम्” ।
  • अध्याहृतं कर्मपदं “तत्” ।
  • प्रपश्यामि “प्र + दृश्” १ प (= to see clearly) इति धातुः । तस्य वर्तमानकाले उत्तमपुरुषे एकवचनम् ।
  • (तत्) (अहम्) न प्रपश्यामि = that I do not see.

७ “त्वाम् प्रपन्नम्” इति विशेषणवाचकः गौण-वाक्यांशः ।

  • भूतकालवाचकं विशेषणवाचकम् च धातुसाधितं “प्रपन्नम्” ।
  • धातुसाधितस्य कर्मपदं “त्वाम्” ।
  • धातुसाधितस्य विशेष्यपदं प्रधान-वाक्यांशे “माम्” ।
  • त्वाम् “युष्मद्” (= pronoun of second person you) इति सर्वनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • प्रपन्नम् “प्र + पद्” ४ आ, १० आ (= to approach, to submit to) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “प्रपन्न” (= one, who is at the feet, one, who is in submission) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • त्वाम् प्रपन्नम् = being in submission to you

७-१ “मां (त्वम्) शाधि” इति प्रधान-वाक्यांशः ।

  • क्रियापदं “शाधि” ।
  • स्वाभाविकं अध्याहृतं कर्तृपदं “त्वम्” ।
  • कर्मपदं “माम्”
  • माम् “अस्मद्” (= pronoun of first person I, we) इति सर्वनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • त्वम् “युष्मद्” (= pronoun of second person you) इति सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • शाधि “शास्” २ प (= to teach, to train, to guide) इति धातुः । तस्य आज्ञार्थे मध्यमपुरुषे एकवचनम् ।
  • मां (त्वम्) शाधि = You (please) guide me.

Overall meaning –
Whether we should win, or if they should win over us, which one is better for us, we do not know this.
By killing whom, we would not desire to live, those very धार्तराष्ट्रा-s are standing in the front.
I, whose natural instincts and faculties are afflicted by the fault of poverty of mind and whose mind and intellect are confused about the appropriate conduct am asking you.
What will most certainly be beneficial to me, (you) tell that.
I am your disciple.
Even by attaining unchallenged, prosperous reign on the earth (or) kingdom of heavens, what will drive away my melancholy and weakness of my body, that I do not see.
You (please) guide me, being in submission to you.

Exercise 4 In what meter is this verse composed ?
स्वाध्यायः ४ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we already have the verses in four quarters each –

न चैतद्विद्मः कतरन्नो गरीयो । वर्णाः १२

(१ २-२)-(२-२ १)-(१-२-२) (१-२-२) इति मात्राः । कुलमात्राः २०
य-त-य-य इति गणाः ।
यद्वा जयेम यदि वा नो जयेयुः । वर्णाः १२
(२-२ १)-(२-१ १)-(१ २ २) १-२-२ इति मात्राः । कुलमात्राः १९
त-भ-य-य इति गणाः ।
यानेव हत्वा न जिजीविषामस् -। वर्णाः ११
(२-२-१) (२-२ १) (१-२-१)-२-(२) इति मात्राः । कुलमात्राः १८
त-त-ज-ग-ग इति गणाः ।
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः । वर्णाः ११
(२-२-१)-(२ १-१)-(२ २-१)-२-२ इति मात्राः । कुलमात्राः १८
त-भ-त-ग-ग इति गणाः ।

Since वर्णाः कुलमात्राः and गणाः are different in each line the meter here may be called as मुक्त-छन्दः ।

Exercise 5 Comments, Notes, Observations, if any.
स्वाध्यायः ५ टिप्पणयः ।

५-१ ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणामवाप्य could as well be the longest conjugated word in गीता !

५-२ In these verses Arjuna confesses of the confusion in his mind about what action and approach would be appropriate for him. The word used for this confusion about appropriate action and approach is धर्मसंमूढचेताः

In turn, “code guiding people to appropriate actions and approaches” becomes the definition of the word धर्म.

This word धर्म is translated into English by the word ‘religion’. But the English word ‘religion’ is more related to different styles and rituals of propitiating the God, as practised by Christians, Muslims, Hindus, etc. Such translation of the word धर्म as ‘religion’ has led to more strife in the world and continues to mislead people to inappropriate actions as terrorism than ‘appropriate actions and approaches’. Christians seem to want to convert the whole world to Christianity and Muslims also seem to want to convert the whole world to Islam. And the strife is engulfing the whole world into “inappropriate” actions !

५-३ Study of the word शिष्य especially study of its derivation being from – “शिष्” ७ प (= to distinguish or to discriminate from others) इति धातुः brings to mind a whole new perception. If I would want to consider somebody as my गुरु and myself as his शिष्य, the relationship does not get established only by what regard and respect I hold towards that गुरु. Rather, I become his शिष्य, when and only when he would accept “to distinguish or to discriminate me from others”, would accept to be my गुरु and impart to me such training and guidance as is needed for my upliftment ! Even if a गुरु has a posse of शिष्य-s, needs of every other शिष्य will be different. The गुरु has to impart training and knowledge exercising the needed discrimination. गुरु-शिष्य relationship is thus a very special relationship of one-to-one correspondence. It is natural that such relationship would have a very intimate bonding.

In this light we can sympathise with Arjuna for his धर्म-संमोह especially on seeing द्रोणाचार्य and भीष्मपितामह  with whom he had cultivated, all his life, a relationship of a very intimate bonding.

५-४ In these verses अर्जुन is wanting श्रीकृष्ण to be his गुरु. So he is ardently pleading “शिष्यस्तेऽहम् … माम् शाधि”.

अर्जुन  could claim himself to be श्रीकृष्ण’s शिष्य, because श्रीकृष्ण had already demonstrated the discrimination by accepting to be अर्जुन’s charioteer, charioteer of only अर्जुन ! What a bond of one-to-one correspondence !

५-५ And here is अर्जुन wanting श्रीकृष्ण to guide not only the vehicle and the horses, but also his mind engulfed in melancholy and body sapped of its strength कार्पण्यदोषोपहतस्वभावः

अर्जुन had a स्वभाव a set of natural instincts and strengths, both of mind and body. Both were afflicted उपहत and he was left with poverty कार्पण्य of both !

Wow ! What choice of words – स्वभाव, कार्पण्य, धर्म, शिष्य and every other word !

५-६ I had it in mind since long that गीता has to be studied and understood word by word. But was struggling to get to a good enough structure for compiling the study. It took nearly 90 lessons of संस्कृताध्ययनम् to come to this structure and I am ever indebted to so many people who keep guiding me in this journey – people who point out my mistakes and people who encourage ! They are all my गुरु-s. They all have demonstrated their ‘discrimination’ towards me by writing to me personally. Those are bonds, which I shall ever cherish !

५-७ The word प्रपन्नम् also makes an interesting study. Its derivation is from root verb “प्र + पद्” to be at the feet पद of गुरु in total submission, hence the prefix प्र.

To be an eligible शिष्य one has to be total submission. One meaning of the verb शिष् is also ‘to leave balance’. If one is leaving some ego balance in his mind, one cannot become an eligible शिष्य ! A शिष्य needs to be प्रपन्न at the feet of the गुरु with no ego balance in his mind. Getting a गुरु to be pleased to impart knowledge requires that प्रपन्नता !

५-८ Just now when discussing this गुरु-शिष्य relationship with my wife, it transpired that a गुरु may have more than one शिष्य-s. He is गुरु to all those शिष्य-s only when he imparts knowledge by understanding individual needs and exercising the needed discrimination. Teaching in class-rooms and following a curriculum does not provide much scope for that discrimination. So, teachers-to-students ratio has become a point of concern for a successful educational system.

In the गुरु-शिष्य concept of education also, a गुरु may have number of शिष्य-s. But only that person is a गुरु, who can yet exercise the discrimination and cater to individual needs and develop an intimate bond with every शिष्य. More the number of शिष्य-s, vaster is his responsibility. That is what makes him a गुरु, the huge one !

५-९ And on that battlefield was there anyone more huge than श्रीकृष्ण ? And was there anyone more eligible than अर्जुन ?

गीता is all the more charming also because of this pair of गुरु and शिष्य and the dialogue between them श्रीकृष्णार्जुनसंवाद !


शुभमस्तु ।

-o-O-o-

Advertisements