Studying Geetaa and Sanskrit together (Chapter 2 Verses 64 to 68)

Studying Geetaa and Sanskrit together (Chapter 2 Verses 64 to 68)

गीतान्वेषणे (अध्यायः२ पञ्च श्लोकाः ६४-तः ६८-पर्यन्ताः)

I would like to discuss the five verses in two steps, verses 64 and 65 first and verses 66 to 68 next. The reason or logic will become clear as the discussion proceeds.

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् |

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ||२-६४||

प्रसादे सर्वदुःखानां हानिरस्योपजायते |

प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ||२-६५||

पदच्छेदैः –

रागद्वेषवियुक्तैः तु विषयान् इन्द्रियैः चरन् |

आत्मवश्यैः विधेयात्मा प्रसादम् अधिगच्छति ||२-६४||

प्रसादे सर्वदुःखानां हानिः अस्य उपजायते |

प्रसन्नचेतसः हि आशु बुद्धिः पर्यवतिष्ठते ||२-६५||

अन्वयः –

  1. रागद्वेषवियुक्तैः आत्मवश्यैः इन्द्रियैः विषयान् चरन् विधेयात्मा तु प्रसादम् अधिगच्छति |
  2. प्रसादे अस्य सर्वदुःखानां हानिः उपजायते |
  3. हि प्रसन्नचेतसः बुद्धिः आशु पर्यवतिष्ठते |

अन्वेषणम् (Deliberation) –

(1) In most books on GitA, one finds a positive tone in the interpretation of these Shlokas.

  • In a book GitA-Darshan based on discourses by Osho, the interpretation reads –
    • of shloka 64 as “.. An individual enjoys freedom, when his inner wisdom does not include attraction-aversion; he enjoys worldly objects, but he is not at the mercy of his own senses. That is to say, he rejoices, as he has attained inner wisdom. ..”
    • And for shloka 65 “.. In this clarity, there is absence of all suffering; and the individual, whose consciousness is blissful, swiftly and easily moves into a state of stillness. ..”
  • शाङ्करभाष्ये –
    • रागद्वेषवियुक्तैः (रागश्च द्वेषश्च रागद्वेषौ | तत्पुरःसरा हि इन्द्रियाणां प्रवृत्तिः स्वाभाविकी | तत्र यो मुमुक्षुः भवति स ताभ्यां वियुक्तैः श्रोत्रादिभिः) इन्द्रियैः विषयान् (अवर्जनीयान्) चरन् (उपलभमाना) आत्मवश्यैः (आत्मनो वश्यानि, वशीभूतानि, तैः आत्मवश्यैः) विधेयात्मा (इच्छातो विधेयः आत्मा अन्तःकरणं यस्य सः अयं) प्रसादम् अधिगच्छति | (प्रसादः प्रसन्नता स्वास्थ्यम्)
    • प्रसादे सर्वदुःखानां (आध्यात्मकादीनां) हानिः (विनाशः) अस्य (यतेः) उपजायते | (किं च) प्रसन्नचेतसः (स्वस्थान्तःकरणस्य) हि (यस्मात्) आशु (शीघ्रं) बुद्धिः पर्यवतिष्ठते | (आकाशम् इव, परि, समन्तात्, अवतिष्ठते, आत्मस्वरूपेण एव निश्चलीभवति इत्यर्थः)

(2) I am not convinced of these interpretations, primarily because they run contrary to the clear statement in 18-38, विष्येन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् | परिणामे विषमिव तत्सुखं राजसं स्मृतम् ||

  • Here it is clearly stated that any संयोग of विषय and इन्द्रिय is विषम्

(3) There is an optional अन्वयः possible –

  1. रागद्वेषवियुक्तैः आत्मवश्यैः इन्द्रियैः विषयान् चरन् विधेयात्मा प्रसादम् तु अधिगच्छति |
    1. The word तु is shifted nearer to अधिगच्छति
    2. The part वियुक्त in the word रागद्वेषवियुक्तैः can also be interpreted as with राग and द्वेष, instead of the other interpretations as devoid of राग and द्वेष
    3. The word आत्मवश्यैः can also be translated as ‘according to one’s own will’.
  2. (तथापि) अस्य सर्वदुःखानां प्रसादे हानिः उपजायते |
    1. The word (तथापि) is added, just to reinforce shift of तु.
    2. Sequence of सर्वदुःखानां and प्रसादे is interchanged. By that instead of सर्वदुःखानां हानिः it becomes प्रसादे हानिः.
  3. हि प्रसन्नचेतसः बुद्धिः आशु पर्यवतिष्ठते |
    1. I would interpret पर्यवतिष्ठते to mean “becomes perverse.’ Once mind senses pleasure, प्रसन्नचेतसः, by indulgence of इन्द्रिय-s with विषय-s, (इन्द्रियैः विषयान् चरन्) the effect anytime is only poisonous परिणामे विषमिव
    2. For deriving the meaning of पर्यवतिष्ठते it becomes interesting to also take note of the prefixes परि and अव. पर्यवस्था is a state, an uncertain state, like that of a tossed up coin, whichever way it may settle ‘down’ अव after ‘spinning’ परि.
    3. धातुः स्था in पर्यवतिष्ठते is usually परस्मैपदी. Here, पर्यवतिष्ठते is आत्मनेपदी. Is it that an unusual form is employed to suggest an unusual meaning ?

(4) In the previous two verses 62 and 63, the psychological analysis mentioned a step कामात् क्रोधः अभिजायते. Intuitively, I had in my mind an enquiry, “What if कामात् क्रोधः न अभिजायते ?” Converse of क्रोधः अभिजायते is प्रसादम् अधिगच्छति. To my mind that is precisely what is discussed here. And the mention प्रसादे हानिः matches so well not only with 18-38, but बुद्धिः पर्यवतिष्ठते intellect becomes perverse. This interpretation gives a good continuity with further verses –

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना |

न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ||२-६६||

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |

तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||२-६७||

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः |

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||२-६८||

पदच्छेदैः –

न अस्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य भावना |

न च अभावयतः शान्तिः अशान्तस्य कुतः सुखम् ||२-६६||

इन्द्रियाणां हि चरतां यत् मनः अनुविधीयते |

तत् अस्य हरति प्रज्ञां वायुः नावम् इव अम्भसि ||२-६७||

तस्मात् यस्य महाबाहो निगृहीतानि सर्वशः |

इन्द्रियाणि इन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ||२-६८||

अन्वयाः –

  1. अयुक्तस्य बुद्धिः न अस्ति अयुक्तस्य भावना च न (अस्ति) |
  2. अभावयतः च शान्तिः न (अस्ति) |
  3. अशान्तस्य सुखम् कुतः (अस्ति ?)
  4. हि इन्द्रियाणां चरतां मनः यत् अनुविधीयते
    1. तत् अस्य प्रज्ञां हरति
    2. अम्भसि वायुः नावम् (हरति) इव |
  5. तस्मात्, महाबाहो, यस्य इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशः निगृहीतानि, तस्य प्रज्ञा प्रतिष्ठिता |

अन्वेषणम् (Deliberation) –

(5) Verses 62 and 63 had a negative tone. Verses 66 and 67 also have a negative tone. To interpret only the in-between verses 64 and 65 with positive tone, does not make continuity. The more I think of it, the more I feel, that my interpretation is fair.

(6) In fact continuity all through from 62 to 67 smoothly leads to verse # 68 यस्य इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशः निगृहीतानि, तस्य प्रज्ञा प्रतिष्ठिता. Continuity is very much obvious in the starting word तस्मात् of verse # 68.

(7) The second line of 2-68 is ditto repeat of the second line of 2-58. There are only a couple of lines in GitA, which are duplicated at two different places.

  • One such line is इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता duplicated in 2-58 and in 2-68, second line at both places.
  • Another line is श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् duplicated in 3-35 and 18-47, first line at both places.

(8) If we can take it that the lines, which are duplicated are that important, the line इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता is that important, that the discussion should lead to that. I contend that my interpretation does that.

शुभमस्तु !