Learning together Sanskrit and GeetA (Chapter 2 : Verses 9, 10)

Learning together Sanskrit and GeetA (Chapter 2 : Verses 9, 10)
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य (अध्याय २ श्लोकौ ९, १०) त्रिंशत्तमः (३०) सोपानः ।


संजय उवाच –
एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ।।२-९।।
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ।।२-१०।।


Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।


संजय: उवाच –
एवम् उक्त्वा हृषीकेशं गुडाकेशः परंतप ।
न योत्स्ये इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ।।२-९।।
तम् उवाच हृषीकेशः प्रहसन् इव भारत ।
सेनयो: उभयो: मध्ये विषीदन्तम् इदं वचः ।।२-१०।।

अत्र सन्धयः

  1. संजय उवाच = संजय: उवाच (विसर्गसन्धिः)
  2. एवमुक्त्वा = एवम् उक्त्वा (व्यञ्जनसन्धिः)
  3. योत्स्य इति = योत्स्ये इति (स्वरसन्धिः)
  4. गोविन्दमुक्त्वा = गोविन्दम् उक्त्वा (व्यञ्जनसन्धिः)
  5. तमुवाच  = तम् उवाच (व्यञ्जनसन्धिः)
  6. प्रहसन्निव = प्रहसन् इव (व्यञ्जनसन्धिः)
  7. सेनयोरुभयोर्मध्ये = सेनयो: उभयो: मध्ये (विसर्गसन्धिः) (विसर्गसन्धिः)
  8. विषीदन्तमिदम् =  विषीदन्तम् इदम् (व्यञ्जनसन्धिः)
Exercise 2 Paraphrase the clauses
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतुसंजय: उवाच, “परंतप, न योत्स्ये इति एवम् हृषीकेशं गोविन्दम् उक्त्वा, उक्त्वा, गुडाकेशः तूष्णीं बभूव ह । भारत, उभयो: सेनयो: मध्ये विषीदन्तम् तम्, प्रहसन् इव, हृषीकेशः इदं वचः उवाच ।”
अत्र क्रियापदानि धातुसाधितानि च –
(१) उवाच (२) न योत्स्ये (३) उक्त्वा (४) उक्त्वा (५) तूष्णीं बभूव (६) विषीदन्तम् (७) प्रहसन् (८) उवाच
वाक्यांशानां विश्लेषणानि  Analysis of clauses –  

वाक्यांश-
क्रमाङ्कः
संबन्धसूचकम् कर्तृपदम् कर्मपदम् इतरे शब्दाः क्रियापदम् अथवा धातुसाधितम् उद्गारवाचकम्, संबोधनम् वा अव्ययम्
संजय: उवाच परंतप
(अहम्) न योत्स्ये इति
एवम् हृषीकेशं गोविन्दम् उक्त्वा
उक्त्वा
गुडाकेशः तूष्णीं बभूव
भारत
तम् उभयो: सेनयो: मध्ये विषीदन्तम्
प्रहसन् इव
हृषीकेशः इदं वचः उवाच

Attempt has been made in designing the above tabulation, such that one can as well read the complete अन्वय in a flow.

स्वाध्यायः ३

  • अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
  • ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।

Exercise 3

  • 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
  • 3 B) Give translations into English for all clauses and sentences

From the अन्वय words to be studied are underlined.
संजय: उवाच, “परंतप, योत्स्ये इति एवम् हृषीकेशं गोविन्दम् उक्त्वा, उक्त्वा, गुडाकेशः तूष्णीं बभूव भारत, उभयो: सेनयो: मध्ये विषीदन्तम् तम्, प्रहसन् इव, हृषीकेशः इदं वचः उवाच ।”

१  सञ्जयः “सम् + जि” १ प (= to win comprehensively) इति धातुः । तस्मात् पुल्लिङ्गि विशेषनाम “सञ्जय” (= he who wins comprehensively, name of the charioteer of धृतराष्ट्र) । तस्य प्रथमा विभक्तिः एकवचनं च ।
२ उवाच “वच्” २ प (= to say, to speak, to tell) इति धातुः । तस्य परोक्षभूते प्रथमपुरुषे एकवचनम् ।
३ परंतप as detailed at ३-२२ in Post # 27

परंतप इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२२-१ परम् तपः यस्य सः परंतपः । बहुव्रीहिः ।
  • ३-२२-२ परम् “पर” (= otherwise, unusual, extreme) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२२-३ तपः “तप्” १ प (= to heat up) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “तपस्” (= penance, glow of heat) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२२-४ परंतपः = one, who has done extreme penance or one, who has glow of heat
  • In post # 27 in श्लोकः 2-3 श्रीकृष्ण addressed अर्जुन as परंतप. Here सङ्जय addresses King धृतराष्ट्र as परंतप

४ न (= no, not) इति अव्ययम् ।
५ योत्स्ये “युध्” ४ आ (= to fight) इति धातुः । तस्य लुट्-भविष्ये उत्तमपुरुषे एकवचनम् ।
६ इति (= as much) इति अव्ययम् ।
७ एवम् (= thus) इति अव्ययम् ।
८ हृषीकेशम् as detailed in Post # 16
३-११ हृषीकेशम् “हृषीकेश” (= an epithet of Krishna) इति सामासिकं पुल्लिङ्गि नाम विशेषनाम अपि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-११-१ हृषीकाणां ईशः = हृषीकेशः । षष्ठी-तत्पुरुषः ।
  • ३-११-२ हृषीकाणाम् “हृषीक” (= body-organ) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ३-११-३ ईशः “ईश्” २ आ (= to command) इति धातुः । तस्मात् पुल्लिङ्गि नाम “ईश” (= one, who commands) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-११-४ I wonder whether हृषीकेश also has a derivation from हृषी = pleasing and केश = hair. Hence हृषीकेश = one, who has pleasing hair

९ गोविन्दम् as detailed in Post # 21

३-१५ गोविन्द (= one, who tends the cows) इति सामासिकं विशेषणम् । अत्र प्रायः पुल्लिङ्गि नाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।
  • ३-१५-१ गाः विन्दति इति गोविन्दः । उपपद-तत्पुरुषः ।
  • ३-१५-२ गाः “गो” (= cow) इति स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
  • ३-१५-३ विन्दति “विद्” ६ उ (= to know, to care for, to tend) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
  • ३-१५-४ गोविन्दः = He, who loves and cares for and tends cows.

१० उक्त्वा “वच्” २ प (= to say, to speak, to tell) इति धातुः । तस्मात् भूतकालवाचकं त्वान्तं अव्ययम् “उक्त्वा” (= on saying, having said) ।
११ गुडाकेशः as detailed in Post # 18 at ३-६ (explanation provided by Dr. H. N. Bhat, Pondichery)

  • गुडाकायाः = निद्रायाः, ईशः – तेन, जितालस्येन, सर्वत्र सावधानेन, अर्जुनेन। इति मधुसूदनसरस्वती;
  • गुडाका = निद्रा, तस्या: ईशेन – जितनिद्रेण, इति श्रीधरस्वामी;
  • “निद्रा गुडाका प्रोक्ता प्रमीला मृत्युतन्द्रिका” इति कोशः।
  • अर्जुनेन यदेन्द्रकीलके विनिद्रेण तपस्तप्तं तदा पशुपतिना गुडाकेशो ऽयमित्युक्तमिति पुराणान्तरे।
  • गुडाकेशेन =  युद्धोद्योगलक्षणकेशबन्धविशिष्टेन। अत्र निश्चितयुद्धत्वेन तदर्जुननिर्देश इति भाव इति हंसयोगिभाष्यम्।
  • गुडाः = कुटिलाः, केशाः यस्येति विग्रहः साधुः, “मुखं मुकुन्दस्य गुडालकावृत्तम्”” इति भागवतात् (१.१०.१७);
  • गुडैः स्निग्धैस्तथा कृष्णैरभिन्नग्रैस्तथैव हि। केशैर्न चातिबहुलैर्मृदुभिः पार्थिवो भवेत्॥ इति च कोशः।
  • “गुडा गुडिका” = स्नुही-वृक्षः इति मेदिनीकोशः, उशीरी इति राजनिघण्टुश्च। गुडाशब्देन समासे उपर्युक्तो ऽर्थो दुर्लभः।
  • गुडयति = संकोचयति जडीकरोति देहेन्द्रियाणि, इति यो ऽवस्थाविशेषः, स गुडः, तम्, आकायति (कै गै – शब्दे) = जृम्भणशब्देन प्रकाशयति – इति गुडाका = आलस्यम्; गुडाम् = आलस्यावस्थाम्, कायतीति वा; (गुडा + क+आ) इति उपरिव्याख्यानाधारा व्युत्पत्तिः।
  • “गुड् | तु० सेट् प० | गुड रक्षायाम् ६. ९७” इति धातोर्वा, अप्रत्यये, गु | भ्वा० अनिट् आ० | गुङ् अव्यक्ते शब्दे १. ११०० |
  • इति धातोः,  गवते = अव्यक्तं शब्दं करोति इति उणादिप्रत्ययेन ड-प्रत्ययेन निष्पन्नः गुडशब्दः, नानार्थकः, विंशत्यधिकार्थेषु रूढः, तस्य केशशब्देन समासे गुडकेश इत्येव स्यात्. न तु गुडा-केश इति।
  • From the above, गुडाकेशः इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • गुडाकेशः = गुडाकायाः ईशः । षष्ठी-तत्पुरुषः ।
  • गुडाकायाः “गुडाका” (= sleep) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ईशः “ईश्” २ आ (= to command) इति धातुः । तस्मात् विशेषणम् प्रायः पुल्लिङ्गि नाम “ईश” (= one, who commands) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • गुडाकेशः = one, who has command over sleep, ever-alert

१२ तूष्णीं (= silent, without speaking) इति अव्ययम् ।
१३ बभूव “भू” १ प (= to be, to become) इति धातुः । तस्य परोक्षभूते प्रथमपुरुषे एकवचनम् ।
१४ ह (= verily, certainly) इति अव्ययम् ।
१५ भारत इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • १५-१ भरतस्य वंशजः भारतः । Born in the lineage of renowned King भरत
  • १५-२ भारत is also alternative name of India
  • १५-३ गीता is a part of महाभारतम् which is said to be based on the history of lineage of renowned King भरत
  • १५-४ भारती is also an epithet of Saraswati, Goddess of knowledge.
    • So, भारत would also mean one, who is blessed by भारती and hence would mean ‘the knowledgeable one”

१६ उभयो: “उभ्” ६, ९ प (= to compact together) इति धातुः । तस्मात् सार्वनामिकं विशेषणम् “उभ” (= the two) । प्रायः द्विवचनेन । अत्र स्त्रीलिङ्गि । षष्ठी विभक्तिः ।
१७ सेनयो: “सेना” (= army) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः द्विवचनं च ।
१८ मध्ये “मध्य” (= central, middle) इति विशेषणम् । अत्र पुल्लिङ्गि अथवा नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • १८-१ सप्तम्या विभक्त्या “मध्ये” इति अव्ययम् (= between, in the middle) ।

१९ विषीदन्तम् “वि + सद्” १ अथवा ६ प (= to grieve) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “विषीदन्” (= grieving) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२० तम् “तत्” (= pronoun of third person – he, she, it, they, that) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२१ प्रहसन् “प्र + हस्” १ प (= to give a wry smile) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “प्रहसन्” (= giving a wry smile) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२२ इव (= like, as if) इति अव्ययम् ।
२३ इदम् (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२४ वचः “वच्” २ प (= to say, to speak, to tell) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “वचस्” (= talk, speech) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

Overall meaning –
संजय: उवाच, “परंतप, न योत्स्ये इति एवम् हृषीकेशं गोविन्दम् उक्त्वा, उक्त्वा, गुडाकेशः तूष्णीं बभूव ह । भारत, उभयो: सेनयो: मध्ये विषीदन्तम् तम्, प्रहसन् इव, हृषीकेशः इदं वचः उवाच ।”
Sanjaya said, “Oh परंतप Paramtapa (you, who has done extreme penance, who has glow of heat),
On saying to हृषीकेश, गोविन्द that “I do not desire to fight”,
having said, गुडाकेश became silent.”
Oh भारत, “to (Arjuna), who was lamenting in the middle of the two armies,
हृषीकेश as if giving a wry smile, said this – ”

Exercise 4 In what meter is this verse composed ?
स्वाध्यायः ४ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?

To decipher the meter we set the verse in four quarters –

एवमुक्त्वा हृषीकेशं । वर्णाः ८
गुडाकेशः परंतप । वर्णाः ८
न योत्स्य इति गोविन्दम् । वर्णाः ८
उक्त्वा तूष्णीं बभूव ह । वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 5 Comments, Notes, Observations, if any.
स्वाध्यायः ५ टिप्पणयः ।

५-१ Having memorized श्लोकः 2-3 where श्रीकृष्ण addressed अर्जुन as परंतप, I had not noticed and realized until now that here सङ्जय addresses King धृतराष्ट्र as परंतप !

५-२ In these verses the word उक्त्वा repeats itself in close succession. So in the translation I thought it good to translate it as ‘On saying’ in the first instance and as ‘having said’ for its second instance. I think there is some literary beauty there !

  • उवाच also repeats first as संजय: उवाच and then as हृषीकेशः इदं वचः उवाच
  • Rather, these verses are replete with words derived from the verb वच्
    • twice उक्त्वा, twice उवाच as also वचः

५-३ In these verses even सङ्जय resorts to using multiplicity of eulogies

  • as परंतप and भारत for King धृतराष्ट्र
  • as हृषीकेश and गोविन्द for श्रीकृष्ण
  • as गुडाकेश for अर्जुन
  • This is understandable and shows सङ्जय being aware of his own status, that of a charioteer of the King

५-४ Was प्रहसन् इव the wry, satirical smile of श्रीकृष्ण a preface to how he was going to respond and what he was going to say ? How beautifully the words प्रहसन् इव bring to mind the face of श्रीकृष्ण giving that smile ! A picture says what a thousand words would not say. A picturesque narration has its own literary charm for sure !

  • The word “preface’ itself is interesting. Preface is the face prior to what is going to come next. Certainly प्रहसन् इव is the right preface of what श्रीकृष्णis going to say. This will become very clear when studying the immediate next श्लोक

शुभमस्तु ।

-o-O-o-

Advertisements