Index of Posts – अध्याय १

Index of Posts on Learning संस्कृत & गीता together
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः अध्ययनस्य सोपानानां अनुक्रमणिका
अध्याय १

सोपान-क्रमाङ्कः श्लोक-क्रमाङ्काः विवरणम्
ॐ श्रीपरमात्मने नमः ।
अथ प्रथमो ऽ ध्यायः ।
धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे ….
संजय उवाच । दृष्ट्वा तु पाण्डवानीकं
पश्यैतां पाण्डुपुत्राणां
४, ५ ६ अत्र शूरा महेष्वासा ….. युधामन्युश्च विक्रान्त
७, ८ अस्माकं तु विशिष्टा ये ….. भवान् भीष्मश्च
अन्ये च बहवः शूरा:
१० अपर्याप्तं तदस्माकं
१० ११ अयनेषु च सर्वेषु
११ १२ तस्य सञ्जनयन् हर्षं
१२ १३ ततः शङ्खाश्च भेर्यश्च
१३ १४, १५, १६ ततः श्वेतैर्हयैर्युक्ते …. पाञ्चजन्यं हृषीकेशो …. अनन्तविजयं राजा
१४ १७, १८ काश्यश्च परमेष्वासः …. द्रुपदो द्रौपदेयाश्च
१५ १९ स घोषो धार्तराष्ट्राणाम्
१६ २०+ अथ व्यवस्थितान् दृष्ट्वा … हृषीकेशं तदा वाक्यं
१७ ‘२१, २२, २३ अर्जुन उवाच – सेनयोरुभयोर्मध्ये … योत्स्यमानानवेक्षेऽहं
१८ २४, २५ संजय उवाच – एवमुक्तो हृषीकेशो … भीष्मद्रोण-प्रमुखतः
१९ २६,  २७+ तत्रापश्यत्स्थितान् पार्थः … श्वशुरान् सुहृदश्चैव … कृपया परयाविष्टो
२० २८, २९, ३०+ अर्जुन उवाच – दृष्ट्वेमं स्वजनं … निमित्तानि च पश्यामि
२१ ‘३० तः ३५ न च श्रेयोऽनुपश्यामि …. एतान्न हन्तुमिच्छामि
२२ ३६ तः ३९ निहत्य धार्तराष्ट्रान्नः …. कथं न ज्ञेयमस्माभिः
२३ ४० तः ४४ कुलक्षये प्रणश्यन्ति …. उत्सन्नकुलधर्माणाम्
२४ ४५, ४६, ४७ अहो बत महत्पापं … यदि मामप्रतीकारम् … एवमुक्त्वार्जुनः संख्ये
२५ अध्याय-समाप्ति ॐ तत्सदिति श्रीमद्भगवद्गीतासु
Advertisements

Learning together Sanskrit and GeetA (Chapter 1 verse 11) – Post # 10

Learning together Sanskrit and GeetA (Chapter 1 verse 11) – Post # 10
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकः ११) अध्ययनस्य दशमः (१०) सोपानः ।
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||११||
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

अयनेषु च सर्वेषु यथाभागम् अवस्थिताः ।
भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि ||११||

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ “सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः च सर्वे एव हि भीष्मम् एव अभिरक्षन्तु”  इति वाक्यम् ।

  • २-१-१ अत्र क्रियापदम् “अभिरक्षन्तु” । कर्तृपदम् “भवन्तः सर्वे” । पूरकम् “भीष्मम्” ।
  • २-१-२  भवन्तः सर्वे कुत्र अवस्थिताः ? सर्वेषु अयनेषु अवस्थिताः ।
  • २-१-३ सर्वेषु अयनेषु कथम् अवस्थिताः ? यथाभागम् अवस्थिताः ।
  • २-१-४ “सर्वेषु अयनेषु यथाभागम् अवस्थिताः” इति विशेषणात्मकः वाक्यांशः । “भवन्तः सर्वे” इति अत्र विशेष्यपदे ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ अयनेषु “अय्” १ आ अथवा “इ” २ प १ उ ४ आ (= to go, to come) इति धातवः । तस्मात् नपुंसकलिङ्गि नाम “अयन” (= going, coming, gate, front in a war) । तस्य सप्तमी विभक्तिः बहुवचनम् च ।

३-२ च (= and) इति अव्ययम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-३ सर्वेषु “सर्व” (= all) इति सर्वनाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।

३-४ यथाभागम् “यथाभाग” (= as per lot) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च । तेन यथाभागम् (= as assigned) इति क्रियाविशेषणात्मकः प्रयोगः ।

  • ३-४-१ यथा भागम् = यथाभागम् । अव्ययीभावः ।
  • ३-४-२ यथा (= as) इति अव्ययम् ।
  • ३-४-३ भागम् “भाज्” १० उ (= to distribute, to assign) इति धातुः । तस्मात् पुल्लिङ्गि नाम “भाग” (= lot, allotment, distribution) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-५ अवस्थिताः “अव + स्था” १ प (= to be in a situation, to be in a place) इति धातुः । तस्मात् कर्मणि-प्रयोगवाचकं भूतकालवाचकं च विशेषणम् “अवस्थित” (= having been at a place) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-६ भीष्मम् “भीष्म” (= name of the father figure of Kaurava-s) इति पुल्लिङ्गि विशेषनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-७ एव (= only) इति  अव्ययम् ।

३-८ अभिरक्षन्तु “अभि + रक्ष्” १ प (= to ward, to look after) इति धातुः । तस्य आज्ञार्थे प्रथमपुरुषे बहुवचनम् ।

३-९ भवन्तः “भवत्” (= you) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-१० सर्वे “सर्व” (= all) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-११ हि (= also, because) इति  अव्ययम् ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः च सर्वे एव हि भीष्मम् एव अभिरक्षन्तु ।
= Yourself and also all, being at their appointed places on all fronts, should look after भीष्म only.

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –
अयनेषु च सर्वेषु । वर्णाः ८
यथाभागमवस्थिताः । वर्णाः ८
भीष्ममेवाभिरक्षन्तु ।  वर्णाः ८
भवन्तः सर्व एव हि । वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ In the previous shloka, Duryodhana had mentioned that his army was warded by भीष्म. Here he says, “yourself and also all should look after भीष्म only”. How beautifully it is brought out in these two shloka-s together that in a battle, the commandant and the army are interdependent. Every member of the army discharges the responsibility by fighting from one’s appointed place. That discipline is the most important rule for every warrior fighting a battle.

शुभमस्तु ।

-o-O-o-

Learning together Sanskrit and GeetA (Chapter 1 verse 10) – Post # 9

Learning together Sanskrit and GeetA (Chapter 1 verse 10) – Post # 9
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकः १०) अध्ययनस्य नवमः (९) सोपानः ।

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१०||
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

अपर्याप्तं तत् अस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं तु इदम् एतेषां बलं भीमाभिरक्षितम् ||१०||

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ “तत् अस्माकं अपर्याप्तं बलं भीष्माभिरक्षितम् (अस्ति)” इति वाक्यम् ।

  • २-१-१ अत्र अध्याहृतं अकर्मकं क्रियापदम् “(अस्ति)” । कर्तृपदम् “बलम्” । पूरकम् “भीष्माभिरक्षितम्” ।

२-२ एतेषां तु इदम् पर्याप्तं बलं भीमाभिरक्षितम् (अस्ति) ।

  • २-२-१ अत्र अध्याहृतं अकर्मकं क्रियापदम् “(अस्ति)” । कर्तृपदम् “बलम्” । पूरकम् “भीमाभिरक्षितम्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ अपर्याप्तम् “अपर्याप्त” (= inadequate, unlimited) इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१-१ न पर्याप्तम् = अपर्याप्तम् । नञ्-तत्पुरुषः ।
  • ३-१-२ पर्याप्तम् “परि + आप्” ५ प (= to contain, to limit, to be adequate) इति धातुः । तस्मात् कर्मणि-प्रयोगवाचकं भूतकालवाचकं च विशेषणम् “पर्याप्त” (= adequate, limited) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२ तत् (= that) इति सर्वनाम । अत्र नपुंसकलिङ्गि पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-३ अस्माकम् “अस्मद्” (= pronoun of first person ‘I, we’) इति सर्वनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।

३-४ बलम् “बल” (= strength, army) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-५ भीष्माभिरक्षितम् “भीष्माभिरक्षित” (= warded by भीष्म) इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-५-१ भीष्मेण अभिरक्षितम् = भीष्माभिरक्षितम् । तृतीया-तत्पुरुषः ।
  • ३-५-२ भीष्मेण “भीष्म” (= name of the father figure of Kaurava-s) इति पुल्लिङ्गि विशेषनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • ३-५-३ अभिरक्षितम् “अभि + रक्ष्” १ प (= to ward) इति धातुः । तस्मात् कर्मणि-प्रयोगवाचकं भूतकालवाचकं च विशेषणम् “अभिरक्षित” । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-६ तु (= But, however) इति अव्ययम् ।

३-७ इदम् (= this) इति  सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा  विभक्तिः एकवचनम् च ।

३-८ एतेषाम् “एतत्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनं च ।

३-९ भीमाभिरक्षितम् “भीमाभिरक्षित” (= warded by भीम) इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-९-१ भीमेन अभिरक्षितम् = भीमाभिरक्षितम् । तृतीया-तत्पुरुषः ।
  • ३-९-२ भीमेन “भीम” (= name of second पाण्डव) इति पुल्लिङ्गि विशेषनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • ३-९-३ अभिरक्षितम् “अभि + रक्ष्” १ प (= to ward) इति धातुः । तस्मात् कर्मणि-प्रयोगवाचकं भूतकालवाचकं च विशेषणम् “अभिरक्षित” । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ तत् अस्माकं अपर्याप्तं बलं भीष्माभिरक्षितम् (अस्ति) ।

= That unlimited army of ours is warded by भीष्म.

or

= That inadequate (inadequately capable) army of ours is warded by भीष्म.

  • ४-२ एतेषां तु इदम् पर्याप्तं बलं भीमाभिरक्षितम् (अस्ति) ।
= This limited army of these is warded by भीम.
or
= This adequate (adequately capable) army of these is warded by भीम.

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

अपर्याप्तं तदस्माकं । वर्णाः ८
बलं भीष्माभिरक्षितम् । वर्णाः ८
पर्याप्तं त्विदमेतेषां ।  वर्णाः ८
बलं भीमाभिरक्षितम् । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ Two shades of meaning of the words  अपर्याप्त (= inadequate, unlimited) and पर्याप्त (= adequate, limited) are actually contrary meanings. In श्रीरामानुजाचार्य-भाष्यम् (Ramanujacharya 1017-1137) the meanings adopted are अपर्याप्त = inadequate and पर्याप्त = adequate.

२ More commonly accepted meaning however seems to be अपर्याप्त = unlimited and पर्याप्त = limited. This meaning is endorsed –

  • In भावार्थदीपिका (more popularly known as ज्ञानेश्वरी) by संत ज्ञानेश्वर (1275 – समाधि in 1296)
  • by Lokamanya Tilak in गीतारहस्य (1915)
  • by Acharya Vinobaji (about 1932)
  • by Swami Bhaktivedanta, founder of Hare Krishna (or Krishna Consciousness) movement, in his commentary “Gita, as it is” (1971)

३ The use of the pronouns in the phrases अस्माकम् तत् (= that) बलम् and एतेषां इदम् (= this) बलम् also seems a curious use of poetic contradiction. To refer to one’s own army, as ‘that’, which should actually be near enough, is contradiction. It is more highlighted by referring to the opposing army as ‘this’, though the opposing army would rather be farther away !

  • Implicit in calling ‘our army’ as ‘that’ seems to be to suggest that it is that far spread, that unlimited !
  • Implicit in calling ‘army of these’ as ‘this’ seems to be to demean it as ‘just this much’

Isn’t there some poetic idiom of paradox, even in the use of the pronouns ?!

६-४ The use of the pronoun “this” also denotes proximity, which is known to breed dishonour अतिपरिचयादवज्ञा. Use of the pronoun of proximity is supposed to suggest disrespect. That anyway was a trait of दुर्योधन !

६-५ Count of total army which fought the Mahabharata war is mentioned as eighteen अक्षौहिणी – eleven अक्षौहिणी on the side of Kaurava-s and seven अक्षौहिणी on the side of PaNDava-s.

  • One अक्षौहिणी count of the army is defined as a unit comprising 21,870 chariots, as many elephants, 65,610 horses and 109,350 foot-soldiers.
  • Since a chariot will have a charioteer and the warrior and an elephant will also have the mahut and the warrior, the count of men becomes 262,440 in every अक्षौहिणी i.e. 4,723,920 men in eighteen अक्षौहिणी !
  • At the end of it all, only shree Krishna, five PaaNDva-s and Saatyakee on the side of PaaNDava-s and only kRupa and Ashwatthaaman – the two chiranjeevi-s on the side of Kaurava-s survived !
शुभमस्तु ।

-o-O-o-

Learning together Sanskrit and GeetA (Chapter 1 verse 9) – Post # 8

Learning together Sanskrit and GeetA (Chapter 1 verse 9) – Post # 8
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकः ९) अध्ययनस्य अष्टमः (८) सोपानः ।

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||९||
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

अन्ये च बहवः शूरा: मत्-अर्थे त्यक्त-जीविताः ।
नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ||९||

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ “अन्ये च बहवः शूरा: मदर्थे त्यक्तजीविताः (सन्ति)” इति वाक्यम् ।

  • २-१-१ अत्र अध्याहृतं अकर्मकं क्रियापदम् “(सन्ति)” । कर्तृपदम् “बहवः” । पूरकम् “शूरा: मदर्थे त्यक्तजीविताः” ।

२-२ सर्वे नानाशस्त्रप्रहरणाः युद्धविशारदाः (सन्ति) ।

  • २-२-१ अत्र अध्याहृतं अकर्मकं क्रियापदम् “(सन्ति)” । कर्तृपदम् “सर्वे” । पूरकम् “नानाशस्त्रप्रहरणाः युद्धविशारदाः” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ अन्ये “अन्य” (= other) इति सार्वनामिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-२ च (= and) इति अव्ययम् ।
३-३ बहवः “बहु” (= many) इति अनिश्चित-संख्यावाचकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-४ शूराः “शूर” (= brave) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-५ मदर्थे “मदर्थ” (= my purpose) इति सामासिकं पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ३-५-१ मम अर्थः = मदर्थः । षष्ठी-तत्पुरुषः ।
    • अत्र “मम”-शब्दतः समासे उपयोजनीयं उपपदम् “मत्” ।
  • ३-५-२ मम “अस्मद्” (= pronoun of first person ‘I, we’) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-५-३ अर्थः “अर्थ” (= purpose) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-६ त्यक्तजीविताः “त्यक्तजीवित” (= one, who has sacrificed one’s life) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-६-१ त्यक्तं जीवितं येन सः = त्यक्तजीवितः । बहुव्रीहिः ।
  • ३-६-२ त्यक्तम् “त्यज्” १ प (= to leave, to sacrifice) इति धातुः । तस्मात् कर्मणि-प्रयोगवाचकं भूतकालवाचकं च विशेषणम् “त्यक्त” (= sacrificed) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-६-३ जीवितम् “जीव्” १ प (= to live) इति धातुः । तस्मात् कर्मणि-प्रयोगवाचकं भूतकालवाचकं च विशेषणम् प्रायः नपुंसकलिङ्गि नाम अपि “जीवित” (= life) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-७ नानाशस्त्रप्रहरणाः “नानाशस्त्रप्रहरण” (= one who can strike with variety of weapons) इति  सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा  विभक्तिः बहुवचनम् च ।

  • ३-७-१ नाना शस्त्राणि = नानाशस्त्र । कर्मधारयः ।
  • ३-७-२ नानाशस्त्रैः प्रहरणं यस्य सः = नानाशस्त्र-प्रहरणः । बहुव्रीहिः ।
  • ३-७-३ नाना (= many, varied) इति अनिश्चित-संख्यावाचकं विशेषणार्थि अव्ययम् ।
  • ३-७-४ शस्त्राणि “शस्त्र” (= weapon) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा  विभक्तिः बहुवचनम् च ।
  • ३-७-५ प्रहरणम् “प्र + हृ” १ उ (= to strike) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “प्रहरण” (= striking) । तस्य प्रथमा  विभक्तिः एकवचनम् च ।

३-८ सर्वे “सर्व” (= all) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।

३-९ युद्धविशारदाः “युद्धविशारद” (= skilled at war) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-९-१ युद्धे विशारदः = युद्धविशारदः । सप्तमी-तत्पुरुषः ।
  • ३-९-२ युद्धे “युध्” ४ आ (= to fight) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “युद्ध” (= fight, war) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • ३-९-३ विशारदः “विशारद” (= strong, expert) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • विशारं ददाति = विशारदः । उपपद-तत्पुरुषः ।
    • विशारम् “वि + शार्” १० उ (= to be strong, to strengthen) इति धातुः । तस्मात् पुल्लिङ्गि नाम “विशार” (= ) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
      • Note शार् १० उ means (= to be weak, to weaken)
      • So for “वि + शार्” to mean (= to be strong, to strengthen), the prefix “वि” needs to mean “वि = विरुद्धम्”

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ अन्ये च बहवः शूरा: मदर्थे त्यक्तजीविताः (सन्ति) ।
= There are many other brave persons, who are (here, ready to) sacrifice their lives for my purpose.
  • ४-२ सर्वे नानाशस्त्रप्रहरणाः युद्धविशारदाः (सन्ति) ।
= All are capable of wielding variety of weapons and skilled in fighting a war.

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

अन्ये च बहवः शूरा । वर्णाः ८
मदर्थे त्यक्तजीविताः । वर्णाः ८
नानाशस्त्रप्रहरणाः ।  वर्णाः ८
सर्वे युद्धविशारदाः । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ Although the adjective त्यक्तजीवित is a past participle, it has to be taken to mean “ready to sacrifice one’s life”.

२ The prefix वि is used with different shades of meaning. In विशारद the prefix “वि” needs to mean “वि = विरुद्धम्” In other contexts it may mean वि = विशेषम्

३ The list of noteworthy fighters on the side of PaaNDava-s was detailed by Duryodhana in three shloka-s (4, 5 and 6). Similar list on his own side was over in just one shloka (7). As if to make up for the disparity, in this shloka he adds “there are many others..”. Somehow, the list in shloka (7) seems to have missed out the mention of जयद्रथ. But due recognition seems to have been accorded to जयद्रथ by श्रीकृष्ण-भगवान himself in 11-34.

शुभमस्तु ।

-o-O-o-