अथ श्रीमद्भगवद्गीतायाः षष्ठाध्यायस्य गद्याभ्यासः

Prosaic study of Chapter 6 of श्रीमद्भगवद्गीता

श्रीभगवानुवाच

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः |

स संन्यासी च योगी च न निरग्निर्न चाक्रियः ।।६-१।।

(१) श्री-भगवान् उवाच – यः कर्मफलं अन्-आश्रितः कार्यं कर्म करोति, सः संन्यासी च योगी च | निर्-अग्निः (संन्यासी च योगी च) न, अ-क्रियः च (संन्यासी च योगी च) न |

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ ६- २॥

(२) पाण्डव, यम् संन्यासम् इति प्राहुः तम् योगम् विद्धि | अ-संन्यस्त-संकल्पः कश्चन योगी न हि भवति |

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ६- ३॥
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ ६- ४॥

(३) आरुरुक्षोः मुनेः योगं कर्म कारणम् उच्यते | तस्य एव योग-आरूढस्य शमः कारणम् उच्यते ॥६-३॥ यदा हि न इन्द्रिय-अर्थेषु अनुषज्जते न कर्मसु (अनुषज्जते) तदा (सः) सर्व-संकल्प-संन्यासी योग-आरूढः उच्यते ॥६-४॥

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् |

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।।६-५।।

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः |

अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ।।६-६।।

(४) आत्मना आत्मानम् उद्धरेत् | (आत्मना) आत्मानम् न अवसादयेत् | हि आत्मा एव आत्मनः बन्धुः | आत्मा एव आत्मनः रिपुः ।।६-५।। आत्मा तस्य आत्मनः बन्धुः येन आत्मा आत्मना एव जितः | अन्-आत्मनः शत्रुत्वे तु आत्मा एव शत्रुवत् वर्तेत ।।६-६।।

जितात्मनः प्रशान्तस्य परमात्मा समाहितः |

शीतोष्णसुखदुःखेषु तथा मानापमानयोः ।।६-७।।

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।

युक्त इत्युच्यते योगी समलोष्टाष्मकाञ्चनः ।।६-८।।

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु |

साधुष्वपि पापेषु समबुद्धिर्विशिष्यते ।।६-९।।

(५) जित-आत्मनः प्रशान्तस्य परमात्मा समाहितः (भवति) ।।६-७(अ)।। शीत-ऊष्ण-सुख-दुःखेषु तथा मान-अपमानयोः विजित-इन्द्रियः कूट-स्थः ज्ञान-विज्ञान-तृप्त-आत्मा सम-लोष्ट-अश्म-काञ्चनः युक्तः योगी इति उच्यते ।।६-७(आ) + (६-८) + (६-९)।।

योगी युञ्जीत सततमात्मानं रहसि स्थितः ।

एकाकी यतचित्तात्मा निराशीरपरिग्रहः ।।६-१०।।

(६) योगी सततम् आत्मानम् रहसि स्थितः एकाकी यत-चित्त-आत्मा निराशीः अ-परिग्रहः युञ्जीत ।।६-१०।।

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ।।६-११।।

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ।।६-१२।।

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।

संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ।।६-१३।।

प्रशान्तात्मा विगतभीर्ब्रह्मचारीव्रते स्थितः ।

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ।।६-१४।।

युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।

शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ।।६-१५।।

(७) आत्मनः आसनम् शुचौ देशे स्थिरम् न अति-उच्छ्रितम् न अतिनीचम्  चैल-अजिन-कुश-उत्तरम् प्रतिष्ठाप्य तत्र मनः एकाग्रम् कृत्वा आसने उपविश्य यत-चित्त-इंद्रिय-क्रियः आत्म-विशुद्धये योगम् युञ्ज्यात् ।।(६-११) + (६-१२)।। काय-शिरो-ग्रीवम् समम् अ-चलम् धारयन् स्वम् नासिका-अग्रम् संप्रेक्ष्य दिशः च अन्-अवलोकयन् स्थिरः प्रशान्त-आत्मा विगत-भीः ब्रह्म-चारी-व्रते स्थितः मनः संयम्य मत्-चित्तः युक्तः मत्-परः आसीत ।।(६-१३) + (६-१४)।। आत्मानम् सदा एवम् युञ्जन् नियत-मानसः  योगी मत्-संस्थाम् निर्वाण-परमाम् शान्तिम् अधिगच्छति ।।६-१५।।

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।

न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ।।६-१६।।

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ।।६-१७।।

(८) अर्जुन अति-अश्नतः तु योगः न अस्ति । एकान्तम् अश्नतः च (योगः न अस्ति) । न च अति-स्वप्न-शीलस्य (योगः अस्ति) । न च एव जाग्रतः (योगः अस्ति) ।।६-१६।। युक्त-आहार-विहारस्य कर्मसु युक्त-चेष्टस्य युक्त-स्वप्न-अवबोधस्य योगः दुःखहा भवति ।।६-१७।।

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ ६- १८॥
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ ६- १९॥
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ ६- २०॥
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ ६- २१॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ ६- २२॥
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ ६- २३॥

यदा (यस्य कस्य) विनियतम् चित्तम् आत्मनि एव अवतिष्ठते, तदा सः सर्वकामेभ्यः निःस्पृहः युक्तः इति उच्यते ॥६-१८॥ यथा निवात-स्थः दीपः न इङ्गते सा यत-चित्तस्य आत्मनः योगम् युञ्जतः योगिनः उपमा स्मृता ॥६-१९॥ यत्र योग-सेवया निरुद्धम् चित्तम् उपरमते, यत्र च आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति, यत् तत् बुद्धि-ग्राह्यम् अति-इन्द्रियम् आत्यन्तिकम् सुखम् वेत्ति, यत्र च स्थितः अयम् तत्त्वतः न चलति, यम् लब्ध्वा अपरम् ततः अधिकम् लाभम् न मन्यते च, यस्मिन् स्थितः गुरुणा अपि दुःखेन न विचाल्यते, तम् दुःख-संयोग-वियोगम् योग-संज्ञितम् विद्यात् ॥६-२०+२१+२२+२३अ॥ सः योगः अनिर्विण्ण-चेतसा निश्चयेन योक्तव्यः ॥६-२३आ॥

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ ६- २४॥
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ६- २५॥
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ ६- २६॥
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ ६- २७॥
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ ६- २८॥

सर्वान् सङ्कल्प-प्रभवान् कामान् अशेषतः त्यक्त्वा, मनसा एव इन्द्रिय-ग्रामम् समन्ततः विनियम्य, धृति-गृहीतया बुद्ध्या शनैः शनैः उपरमेत् ॥६-२४+२५अ॥ मनः आत्मसंस्थम् कृत्वा किञ्चित् अपि न चिन्तयेत् ॥६-२५आ॥ चञ्चलम् अस्थिरम् मनः यतः यतः निश्चरति, ततः ततः एतत् नियम्य आत्मनि एव वशम् नयेत् ॥६-२६॥ हि एनम् प्रशान्त-मनसम् योगिनम् शान्त-रजसम् ब्रह्म-भूतम् अ-कल्मषम् उत्तमम् सुखम् उपैति ॥६-२७॥ आत्मानम् सदा एवं युञ्जन् विगत-कल्मषः योगी अति-अन्तम् ब्रह्म-संस्पर्शम् सुखम् सुखेन अश्नुते ॥६-२८॥

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ६- २९॥
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६- ३०॥
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ६- ३१॥
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ६- ३२॥

योग-युक्त-आत्मा सर्वत्र सम-दर्शनः आत्मानम् सर्व-भूत-स्थम् सर्व-भूतानि च आत्मनि ईक्षते ॥६-२९॥ यः सर्वत्र माम् पश्यति, सर्वम् मयि पश्यति च, तस्य अहम् न प्रणश्यामि, सः मे च न प्रणश्यति ॥६-३०॥ एकत्वम् आस्थितः यः सर्व-भूत-स्थितम् माम् भजति, सः योगी सर्वथा वर्तमानः अपि मयि वर्तते ॥६-३१॥ अर्जुन, यः यदि सुखम् वा दुःखम् वा सर्वत्र आत्म-औपम्येन समम् पश्यति, सः परमः योगी मतः ॥६-३२॥

अर्जुन उवाच ।
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ६- ३३॥
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ६- ३४॥

अर्जुनः उवाच, मधुसूदन, यः अयम् योगः त्वया साम्येन प्रोक्तः, तस्य अहम् चञ्चलत्वात् स्थिराम् स्थितिम् न पश्यामि ॥६-३३॥ कृष्ण, मनः चञ्चलम् हि बलवत् दृढम् प्रमाथि | तस्य निग्रहम् अहम् वायोः इव सु-दुष्-करम् मन्ये ॥६-३४॥

श्रीभगवानुवाच ।
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ६- ३५॥
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ६- ३६॥  

श्री-भगवान् उवाच – महाबाहो, अ-संशयम् (यत्) मनः दुर्-निग्रहम् चलम् | कौन्तेय, (तत्) तु अभ्यासेन वैराग्येण च गृह्यते ॥६-३५॥ अ-संयत-आत्मना योगः दुष्-प्रापः इति मे मतिः | यतता वश्य-आत्मना तु उपायतः अवाप्तुम् शक्यः ॥६-३६॥

अर्जुन उवाच ।
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ६- ३७॥
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ६- ३८॥
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ ६- ३९॥    

अर्जुनः उवाच – कृष्ण, अ-यतिः श्रद्धया उपेतः योगात् चलित-मानसः योग-संसिद्धिम् अ-प्राप्य काम् गतिम् गच्छति ॥६-३७॥ महाबाहो, कत्-चित् उभय-विभ्रष्टः अ-प्रतिष्ठः ब्रह्मणः पथि विमूढः छिन्न-अभ्रम् इव न नश्यति ॥६-३८॥

श्रीभगवानुवाच ।
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति ॥ ६- ४०॥

श्री-भगवान् उवाच – पार्थ, न एव इह न अमुत्र तस्य विनाशः विद्यते | तात, कल्याण-कृत् कश्चित् दुर्-गतिम् न हि गच्छति ॥ ६- ४०॥

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ६- ४१॥
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ६- ४२॥
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ६- ४३॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ६- ४४॥
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ६- ४५॥

योग-भ्रष्टः पुण्य-कृताम् लोकान् प्राप्य शाश्वतीः समाः उषित्वा शुचीनाम् श्रीमताम् गेहे अभिजायते ॥६-४१॥ अथवा धीमताम् योगिनाम् कुले एव भवति | लोके यदि ईदृशम् जन्म एतद् दुर्-लभतरम् हि ॥६-४२॥ तत्र तम् पौर्व-देहिकम् बुद्धि-संयोगम् लभते | कुरुनन्दन, ततः भूयः च संसिद्धौ यतते ॥६-४३॥ अवशः अपि सः तेन एव पूर्व-अभ्यासेन ह्रियते हि | योगस्य जिज्ञासुः अपि शब्द-ब्रह्म अतिवर्तते ॥६-४४॥ प्रयत्नात् यतमानः संशुद्ध-किल्बिषः अन्-एक-जन्म-संसिद्धः योगी तु ततः पराम् गतिम् याति ॥६-४५॥

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ६- ४६॥
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ६- ४७॥

अर्जुन, योगी तपस्विभ्यः अधिकः ज्ञानिभ्यः अपि अधिकः कर्मिभ्यः च अधिकः मतः | तस्मात् (अर्जुन) योगी भव ॥६-४६॥ सर्वेषाम् योगिनाम् अपि यः श्रद्धावान् मत्-गतेन अन्तर्-आत्मना माम् भजते, सः मे युक्ततमः मतः ॥६-४७॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६॥

ॐ तत् सत् | इति श्रीमत्-भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे (अयम्) षष्ठः अध्यायः नाम  आत्म-संयम-योगः ॥६॥

-o-O-o-

 

Advertisements