गीतायाः सप्तमाध्यायस्य गद्याभ्यासः

Prosaic study of seventh chapter of गीता

अथ सप्तमोऽध्यायः ।
     श्रीभगवानुवाच ।
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ ७- १॥
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ ७- २॥
अथ सप्तमः अध्यायः |

श्री-भगवान् उवाच – पार्थ, मयि आसक्त-मनाः, योगम् युञ्जन् मत्-आश्रयः, माम् यथा अ-संशयम् समग्रम् ज्ञास्यसि, तत् श्रुणु ॥७-१॥ ते अहम् इदम् स-विज्ञानम् ज्ञानम् अ-शेषतः वक्ष्यामि, यत् ज्ञात्वा इह अन्यत् ज्ञातव्यम् न अवशिष्यते ॥७-२॥

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ७- ३॥

मनुष्याणाम् सहस्रेषु कश्चित् सिद्धये यतति | यतताम् सिद्धानाम् अपि कश्चित् माम् तत्त्वतः वेत्ति ॥७-३॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७- ४॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ७- ५॥
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७- ६॥
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७- ७॥

भूमिः, आपः, अनलः, वायुः, खम्, मनः, बुद्धिः एव, अहंकारः च इति इयम् मे प्रकृतिः अष्टधा भिन्ना (अस्ति) ॥७-४॥ इयम् अ-परा | महाबाहो, इतः अन्याम् तु मे पराम् प्रकृतिम् जीवभूताम् विद्धि, यया इदम् जगत् धार्यते ॥७-५॥ सर्वाणि भूतानि योनीनि इति एतत् उपधारय | अहम् कृत्स्नस्य जगतः प्रभवः तथा प्रलयः | धनञ्जय, अन्यत् किञ्चित् मत्तः परतरम् न अस्ति | सूत्रे मणिगणाः इव इदम् सर्वम् मयि प्रोतम् (अस्ति) ॥७-७॥

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७- ८॥
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७- ९॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७- १०॥
बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७- ११॥

कौन्तेय, अहम् अप्सु रसः, शशि-सूर्ययोः प्रभा, सर्व-वेदेषु प्रणवः, खे शब्दः, नृषु पौरुषम्, पृथिव्याम् पुण्यः गन्धः, अस्मि विभावसौ तेजः च अस्मि | सर्व-भूतेषु जीवनम्, तपस्विषु तपः च अस्मि ॥७-८॥+॥७-९॥ पार्थ, माम् सनातनम् सर्व-भूतानाम् बीजम् विद्धि ॥ ७-१०अ॥ अहम् बुद्धिमताम् बुद्धिः, तेजस्विनाम् तेजः (च) अस्मि ॥७-१०आ॥

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७- १२॥
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७- १३॥
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ७- १४॥
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ ७- १५॥

भावाः ये सात्त्विकाः च राजसाः च ये तामसाः एव तान् मत्तः एव इति विद्धि | अहम् तेषु न (अस्मि) | ते तु मयि (सन्ति) ॥७-१२॥ एभिः त्रिभिः गुणमयैः भावैः मोहितम् इदम् सर्वम् जगत् माम् एभ्यः परम् अ-व्ययम् न अभिजानाति ॥७-१३॥ एषा मम दुरत्यया गुणमयी माया दैवी हि | ये एताम् मायाम् तरन्ति, ते माम् एव प्रपद्यन्ते ॥७-१४॥ दुष्-कृतिनः मूढाः मायया अपहृत-ज्ञानाः आसुरम् भावम् आश्रिताः नराधमाः माम् न प्रपद्यन्ते ॥७-१५॥

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ७- १६॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ ७- १७॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ ७- १८॥
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ ७- १९॥

अर्जुन, (ये) सु-कृतिनः जनाः माम् भजन्ते, (ते) भरत-ऋषभ, चतुर्विधाः (भवन्ति) – आर्तः, जिज्ञासुः, अर्थ-अर्थी, ज्ञानी च  ॥७-१६॥ तेषाम् ज्ञानी (तु) नित्य-युक्तः एक-भक्तिः (इति) विशिष्यते | ज्ञानिनः अति-अर्थम् हि अहम् प्रियः, सः च मम प्रियः ॥७-१७॥ एते सर्वे उदाराः एव | ज्ञानी तु आत्मा एव (इति) मे मतम् | सः युक्त-आत्मा माम् एव आस्थितः हि अन्-उत्तमाम् गतिम् (???) ॥७-१८॥ बहूनाम् जन्मनाम् अन्ते सर्वम् वासुदेवः इति ज्ञानवान् माम् प्रपद्यते | सः सु-दुर्-लभः महा-आत्मा ॥७-१९॥

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ ७- २०॥
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ७- २१॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥ ७- २२॥
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ ७- २३॥

स्वया प्रकृत्या नियताः तैः तैः कामैः हृत-ज्ञानाः तम् तम् नियमम् आस्थाय अन्यदेवताः भजन्ते ॥७-२०॥ यः यः याम् याम् तनुम् भक्तः श्रद्धया अर्चितुम् इच्छति, तस्य तस्य ताम् एव अचलाम् श्रद्धाम् अहम् विदधामि ॥७-२१॥ तया श्रद्धया युक्तः सः तस्य आराधनम् ईहते | ततः मया एव विहितान् तान् कामान् हि लभते च ॥७-२२॥ तेषाम् अल्प-मेधसाम् तत् फलम् तु अन्तवत् भवति | देव-यजः देवान् यान्ति, अपि मत्-भक्ताः माम् यान्ति ॥७-२३॥

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ ७- २४॥

मम अव्ययम् अन्-उत्तमम् परम् भावम् अ-जानन्तः अ-बुद्धयः माम् व्यक्तिम् आपन्नम् अ-व्यक्तम् (इति) मन्यन्ते ॥७-२४॥

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ ७- २५॥

अहम् योग-माया-सम्-आवृतः सर्वस्य प्रकाशः न (अस्मि) | अयम् मूढः लोकः माम् अ-जम् अ-व्ययम् (इति) न अभिजानाति ॥७-२५॥

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ ७- २६॥

अर्जुन, अहम् सम्-अतीतानि वर्तमानानि च भविष्याणि च भूतानि वेद | माम् तु कश्चन न वेद ॥७-२६॥

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ ७- २७॥

भारत, परन्तप, इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन सर्गे सर्व-भूतानि सम्मोहम् यान्ति ॥७-२७॥

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ ७- २८॥

येषाम् पुण्य-कर्मणाम् जनानाम् तु पापम् अन्त-गतम् ते द्वन्द्व-मोह-निर्मुक्ताः माम् दृढ-व्रताः भजन्ते ॥७-२८॥

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ ७- २९॥

ये जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ते तत् ब्रह्म, कृत्स्नम् अध्यात्मम् अखिलम् कर्म च विदुः ॥७-२९॥

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ७- ३०॥

ये च माम् स-अधिभूत-अधिदैवम् स-अधियज्ञम् च विदुः ते युक्त-चेतसः माम् प्रयाण-काले अपि च माम् विदुः ॥७-३०॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७॥

ॐ तत् सत् | इति श्रीमत्-भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे (अयम्) सप्तमः अध्यायः नाम ज्ञान-विज्ञान-योगः ॥७॥

-o-O-o-

 

Advertisements