गीतायाः नवमाध्यायस्य गद्याभ्यासः

Prosaic study of ninth chapter of गीता

अथ नवमोऽध्यायः ।          

श्रीभगवानुवाच ।
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९- १॥

अथ नवमः अध्यायः

(१) श्री-भगवान् उवाच – अन्-असूयवे इदम् तु ते विज्ञानसहितम् गुह्यतमम् ज्ञानम् प्रवक्ष्यामि, यत् ज्ञात्वा (त्वम्) अ-शुभात् मोक्ष्यसे ॥९-१॥

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९- २॥

इदम् राज-विद्या (अस्ति), राज-गुह्यम् (अस्ति), पवित्रम् (अस्ति), उत्तमम् (अस्ति), प्रत्यक्ष-अवगमम् (अस्ति), धर्म्यम् (अस्ति), सु-सुखम् कर्तुम् (भवति), अव्ययम् (अस्ति) [अथवा] अव्ययम् सु-सुखम् कर्तुम् (भवति) ॥९-२॥

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९- ३॥

(२) परम्-तप, अस्य धर्मस्य अश्रद्दधानाः पुरुषाः माम् अप्राप्य मृत्यु-संसार-वर्त्मनि निवर्तन्ते ॥९-३॥

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९- ४॥

मया अव्यक्त-मूर्तिना इदम् सर्वम् जगत् ततम् | सर्व-भूतानि मत्-स्थानि (भवन्ति) च | अहम् तेषु न अवस्थितः ॥९-४॥

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ९- ५॥

मत्-स्थानि भूतानि (एतत्) मे ऐश्वरम् योगम् न पश्य | मम आत्मा भूत-भृत् भूत-स्थः च न | (सः तु) भूत-भावनः ॥ ९- ५॥ 
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९- ६॥

यथा आकाश-स्थितः महान् वायुः नित्यम् सर्वत्र-गः तथा सर्वाणि भूतानि मत्-स्थानि इति उपधारय ॥ ९- ६॥

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ९- ७॥
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ९- ८॥

(४) कौन्तेय, कल्प-क्षये सर्व-भूतानि मामिकाम् प्रकृतिम् यान्ति | पुनः कल्प-आदौ अहम् तानि विसृजामि ॥९-७॥ स्वाम् प्रकृतिम् अवष्टभ्य इमम् कृत्स्नम् अ-वशम् भूत-ग्रामम् प्रकृतेः वशात् पुनः पुनः विसृजामि ॥ ९- ८॥

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९- ९॥

(५) धनञ्जय, उदासीन्-अवदासीनम् तेषु कर्मसु अ-सक्तम् माम् तानि कर्माणि न च निबध्नन्ति ॥९-९॥

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९- १०॥

(६) कौन्तेय, अनेन अध्यक्षेण हेतुना प्रकृतिः मयि स-चर-अ-चरम् सूयते जगत् परिवर्तते (च) ॥९-१०॥

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ९- ११॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९- १२॥

(७) मोघ-आशाः मोघ-कर्माणः मोघ-ज्ञानाः वि-चेतसः राक्षसीम् आसुरीम् च एव मोहिनीम् प्रकृतिम् श्रिताः, मम भूत-महा-ईश्वरम् परम् भावम् अ-जानन्तः मूढाः मानुषीम् तनुम् आश्रितम् माम् अवजानन्ति ॥९-११॥+॥९-१२॥

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ९- १३॥
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ ९- १४॥
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९- १५॥

(८) पार्थ, दैवीम् प्रकृतिम् आश्रिताः महा-आत्मानः तु माम् भूत-आदिम् अ-व्ययम् ज्ञात्वा अन्-अन्य-मनसः भजन्ति ॥९-१३॥ माम् सततम् कीर्तयन्तः, यतन्तः दृढ-व्रताः च नमस्यन्तः च नित्य-युक्ताः माम् भक्त्या उपासते ॥९-१४॥ अन्ये अपि च एकत्वेन, पृथक्त्वेन (एवम्) बहुधा ज्ञान-यज्ञेन यजन्तः विश्वतः-मुखम् माम् उपासते ॥९-१५॥

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ ९- १६॥
पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥ ९- १७॥
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९- १८॥
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ ९- १९॥

(९) अहम् क्रतुः, अहम् यज्ञः, अहम् स्व-धा, अहम् औषधम्, अहम् मन्त्रः, अहम् एव आज्यम्, अहम् अग्निः, अहम् हुतम् ॥९-१६॥ अहम् अस्य जगतः पिता माता धाता पितामहः (अहम्) पवित्रम् वेद्यम्, (अहम्) ॐ-कारः, (अहम्) ऋक्, साम, यजुः च एव (अहम्) ॥९-१७॥ (अहम्) गतिः, (अहम्) भर्ता, प्रभुः, साक्षी, निवासः, शरणम्, सुहृत्, प्रभवः प्रलयः स्थानम् निधानम्, (अहम्) अ-व्ययम् बीजम् ॥९-१८॥ अहम् तपामि, अहम् वर्षम्, निगृह्णामि, उत्सृजामि च | अर्जुन, अहम् अ-मृतम्, मृत्युः च एव, सत् अ-सत् च (अहम्) ॥९-१९॥

त्रैविद्या मां सोमपाः पूतपापा
     यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोक-
     मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ ९- २०॥
ते तं भुक्त्वा स्वर्गलोकं विशालं
     क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना
     गतागतं कामकामा लभन्ते ॥ ९- २१॥

(१०) त्रै-विद्याः सोम-पाः पूत-पापाः मां यज्ञैः इष्ट्वा स्वर्-गतिम् प्रार्थयन्ते | ते पुण्यम् सुर-इन्द्र-लोकम् आसाद्य दिवि दिव्यान् देव-भोगान् अश्नन्ति ॥९-२०॥ ते तम् विशालम् स्वर्-ग-लोकम् भुक्त्वा क्षीणे पुण्ये मर्त्य-लोकम् विशन्ति | एवम् त्रयी-धर्मम् अनुप्रपन्नाः गत-आगतम् काम-कामाः लभन्ते ॥९-२१॥

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९- २२॥

(११) ये जनाः माम् चिन्तयन्तः अन्-अन्याः पर्युपासते, तेषाम् नित्य-अभियुक्तानाम् योग-क्षेमम् अहम् वहामि ॥९-२२॥

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९- २३॥

(१२) कौन्तेय, ये श्रद्धया अन्विताः भक्ताः अन्य-देवताः अपि भजन्ते, ते अपि अ-विधि-पूर्वकम् माम् एव यजन्ति ॥९-२३॥

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ॥९-२४अ॥

(१३) अहम् हि सर्व-यज्ञानाम् भोक्ता च प्रभुः एव च ॥९-२४अ॥

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥९-२४॥

(१४) (ये) माम् तत्त्वेन न अभिजानन्ति अतः ते च्यवन्ति ॥९-२४आ॥

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ ९- २५॥

(१५) देव-व्रताः देवान् यान्ति | पितृ-व्रताः पितॄन् यान्ति | भूत-इज्याः भूतानि यान्ति | अपि (तु) मत्-याजिनः माम् यान्ति ॥९-२५॥

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ९- २६॥

(१६) यः भक्त्या पत्रम् पुष्पम् फलम् तोयम् मे प्रयच्छति, तत् प्रयत-आत्मनः भक्ति-उपहृतम् अहम् अश्नामि ॥९-२६॥

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ९- २७॥
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ ९- २८॥

(१७) कौन्तेय, यत् करोषि, यत् अश्नासि, यत् जुहोषि, यत् ददासि, यत् तपस्यसि तत् मत्-अर्पणम् कुरुष्व ॥९-२७॥ एवम् शुभ-अ-शुभ-फलैः मोक्ष्यसे | कर्म-बन्धनैः विमुक्तः संन्यास-योग-युक्त-आत्मा माम् उपेष्यसि ॥९- २८॥

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ९- २९॥

(१८) अहम् सर्व-भूतेषु समः | मे न द्वेष्यः अस्ति, न प्रियः | ये तु माम् भक्त्या भजन्ति, ते मयि, अहम् अपि तेषु च ॥९-२९॥

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥९-३०॥

(१९) सु-दुर्-आचारः अपि माम् अन्-अन्य-भाक् भजते चेत्, सः साधुः एव मन्तव्यः | सः सम्यक् व्यवसितः हि ॥९-३०॥

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥९-३१॥

(२०) (यः) धर्म-आत्मा भवति, (सः) क्षिप्रम् शश्वत्-शान्तिम् निगच्छति | प्रतिजानीहि, कौन्तेय, मे भक्तः न प्रणश्यति ॥९-३१॥

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥९-३२॥
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।

(२१) पार्थ, ये पाप-योनयः स्युः अपि, स्त्रियः वैश्याः तथा शूद्राः ते अपि माम् व्यपाश्रित्य पराम् गतिम् यान्ति | किम् पुनः ब्राह्मणाः राज-ऋषयः तथा पुण्याः भक्ताः (पराम् गतिम् न यान्ति ?) ॥९-३३अ॥

अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥९-३३॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९-३४॥

(२२) इमम् अ-नित्यम् अ-सुखम् लोकम् प्राप्य माम् भजस्व ॥९-३३आ॥ मत्-मनाः भव, मत्-भक्तः, मत्-याजी माम् नमः कुरु | एवम् आत्मानम् मत्-परायणः युक्त्वा माम् एव एष्यसि ॥९-३४॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥९॥

(२३) ॐ तत् सत् | इति श्रीमत्-भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे (अयम्) नवमः अध्यायः नाम राज-विद्या-राज-गुह्य-योगः ॥९॥

-o-O-o-

 

Advertisements